________________
६६
उत्तराध्ययन- मूलसूत्रम् - १-१/४८ एवं क्रियामपि विना नासौ भवतीति तदविनाभावित्वमपि समानमेवेति कथं नोभयनिबन्धनत्वसिद्धि: ?, तथा चाह
"नाणं सविसयनिययं न नाणमित्तेण कज्जनिप्फत्ती । मन्नू दिट्ठतो होइ सचिट्ठो अचिट्ठो य ॥" जातोऽवि य तरिडं काइयजोगं न जुंजइ जो उ । सो बुज्झइ सोएणं एवं नाणी चरणहीनो ।।"
न च मरुदेव्यादीनामपि सर्वसंवररूपा क्रिया नास्ति, एवं क्रियावादिनाऽपि - 'यद् यत्समनन्तरभावि तत् तत्कारणं, यथा पृथिव्यादिसामग्रयनन्तरजन्मा तत्कारणोऽकुरः, तथा च क्रियानन्तरभाविनी मुक्तिरिति यो हेतुरुपन्यस्तः सोऽप्यनेकान्तिकः, यतः स एवं वाच्यः - यदा शैलेश्यवस्थायां सर्वसंवररूपा क्रिया यदनन्तरं मुक्त्यवाप्तिस्तदा ज्ञानमस्ति वा न वेति ?, नास्ति चेच्छैलेश्यवस्थाऽपि कथम्, न हीयं केवलज्ञानं विनाऽवाप्यते, अथास्त्येव तदा सकलभावस्वभावावभासि केवलज्ञानम्, एवं च सति कथमुभयाविनाभावित्वेऽपि नोभयफलत्वं मुक्तेः, उक्तं च- " सहचारित्तेऽवि कहं कारणमेगं न उण एगं" आह एवं ज्ञानक्रिययो: प्रत्येकं मुक्रवापिका शक्तिरसती कथं समुदायेऽपि भवति ? न हि यद् येषु प्रत्येकं नास्ति तत्तेषां समुदायेऽपि भवति, तथा प्रत्येकमसत् समुदितास्वपि सिकतासु तैलं, प्रत्येकमसती च ज्ञानक्रिययोः मुक्तेरवापिका शक्तिः, तदुक्तम्
'पत्तेयमभावाओ निव्वाणं समुदियासुवि न सुत्तं ।
नानकिरियासु वुत्तुं सिकयासमुदाय तिल्लं व ॥"
उच्यते, स्यादेवं यदि सर्वथा प्रत्येकं तयोर्मुक्त्यनुपकारितोच्येत यदा तु तयोः प्रत्येकं देशोपकारिता समुदाये तु सम्पूर्णहेतुतोच्यते तदा न कश्चिदोष:, आह च
"वीसु न सव्वहु च्चिय सिकयातिल्लं व साहणाभावो । सोवकारिया जा सा समवायंमि संपुण्णा ||"
अतः स्थितमेतत् ज्ञानक्रिये समुदिते एव मुक्तिकारणु न तु प्रत्येकमिति तत्त्वं, तथा च पूज्या:
"नाणाहीनं सव्वं नाणनओ भणति किं च किरियाए ? | किरियाए चरणनओ तदुभयगाहो य सम्मत्तं ॥ " क्वचित् सौत्र्या शैल्या क्वचिदधिकृतप्राकृतभुवा क्वचिच्चार्थापत्त्या क्वचिदपि समारोपविधिना । क्वचिच्चाध्याहारात् क्वचिदविकलप्रक्रमबलादियं व्याख्या ज्ञेया क्वचिदपि तथाऽऽम्नायवशतः ॥ १ ॥ अध्ययनं १ समाप्तम्
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता उत्तराध्ययनसूत्रे प्रथम अध्ययनस्य भद्रबाहुस्वामिविरचिता निर्युक्ति एवं शान्त्याचार्यविरचिता टीका परिसमाप्ता ।
For Private & Personal Use Only
Jain Education International
-
www.jainelibrary.org