________________
२९७
अध्ययनं-११,[ नि. ३१७ ] | परनिपातः प्राग्वत्, ‘एवम्' इति मन्दरवत् भवति बहुश्रुतः, श्रुतमाहात्म्येन ह्यसावत्यन्तस्थिर इति शेषगिरिकल्पापरस्थिरसाध्वपेक्षया प्रवर एव भवति, तथाऽन्धकारेऽपि प्रकाशनत्यन्विता आमर्पोषध्यादयस्तत्रातिप्रतीता एवेति सूत्रार्थः ।। किं बहुना?मू. ( ३५७) जहा से सयंभूरमणे, उदही अक्खओदए।
नानारयणपडिपुन्ने, एवं भवइ बहुस्सुए। वृ. यथा स स्वम्भूरमणः स्वयम्भूरमणाभिधानः 'उदधिः' समुद्रः अक्षयम्-अविनाश्युदकं-जलं यस्मिन् स तथा, नानारत्नैः-नानाप्रकारैर्मरकतादिभिः प्रतिपूर्णो-भृत: नानारत्नप्रतिपूर्णः, एवं भवति बहुश्रुतः, अयमपि ह्यक्षयसम्यग्ज्ञानोदको नानाऽतिशयरत्नवांश्च भवति, यदिवाऽ क्षत उदयः-प्रादुर्भावो यस्य सोऽक्षतोदय इति सूत्रार्थः ।। साम्प्रतमुक्तगुणानुवादतः फलोपदर्शनतश्च तस्यैव माहात्म्यमाहमू. ( ३५८) समुद्दगंभीरसमा दुरासया, अचक्किया केणइ दुप्पहंसया।
सुयस्स पुन्ना विउलस्स ताइणो, खवेत्तु कम्मंगइमुत्तमं गया। वृ. समुद्दगंभीरसम'त्ति आर्षत्वाद्गाम्भीर्येण-अलब्धमध्यात्मकेन गुणेन समा गाम्भीर्यसमाः समुद्रस्य गाम्भीर्यसमाः समुद्रगाम्भीर्यसमाः, 'दुरासय'त्ति दुःखेनाश्रीयन्ते-अभिभवबुद्धयाऽऽसाद्यन्ते वा-जेतुं सम्भाव्यन्ते केनापीति दुराश्रया दुरासदावा, अत एव अचिक्किय'त्ति अचकिता:-अत्रासिताः, 'केनचिदिति परीषहादिना परप्रवादिना वा, तथा दुःखेन प्रधर्ण्यन्तेपराभूयन्ते केनापीति दुष्प्रधर्षास्त एव दुष्प्रधर्षकाः, क एवंविधाः ? इत्याह-'सुयस्स पुन्ना विउलस्स'त्ति-सुब्ब्यत्ययाच्छ्रुतेन-आगमेन पूर्णाः- परिपूर्णा विपुलेन-अङ्गानङ्गादिभेदतो विस्तीर्णेन तायिनः त्रायिणो वा, एवंविधाश्च बहुश्रुता एव, तानेव फलतो विशेषयितुमाह'क्षपयित्वा' विनाश्य 'कर्म' ज्ञानावरणादि, गम्यत इति गतिस्ताम्, 'उत्तमां' प्रधानां, मुक्तिमितियावत्, 'गता:' प्राप्ताः, उपलक्षणत्वाद्गच्छन्ति गमिष्यन्ति च । इह चैकवचनप्रक्रमेऽपि बहुवचननिर्देशः, पूज्यताख्यापनार्थं व्याप्तिप्रदर्शनार्थं चेति सूत्रार्थः । इत्थं बहुश्रुतस्य गुणवर्णनात्मिकां पूजामभिधाय शिष्योपदेशमाहम.(३५९) तम्हा सुयमहिउज्जा, उत्तममट्ठवगेसए।
जेनऽप्पाणं परं चेव, सिद्धिं संपाउणिज्जासि।त्तिबेमि वृ. यस्मादमी मुक्तिगमनावसाना बहुश्रुतगुणाः तस्मात् 'श्रुतम्' आगमम् 'अधितिष्ठेत्' अध्ययनश्रवणचिन्तनादिनाऽऽश्रयेत, उत्तमः-प्रधानोऽर्थ:-प्रयोजनम-उत्तमार्थः, सच मोक्ष एव तं 'गवेषयति' अन्वेषयतीति उत्तमार्थगवेषकः, येन किं स्यादित्याह-'येन' श्रुताश्रवणेन 'आत्मानं' स्वं परं' चान्यं तपस्व्यादिकं एव:' अवधारणे भिन्नक्रमश्च सम्प्रापयेदित्यस्यानन्तरं द्रष्टव्यः, ततः 'सिद्धि' मुक्तिगति संपाउणिज्जासि'त्ति सम्यक् प्रापयेदेव, नेह कश्चित् सन्देह इति सूत्रार्थः ।। 'इतिः' परिसमाप्तौ 'ब्रवीमि' इति पूर्ववत्, उक्तोऽनुगमः, सम्प्रति नयास्तेऽपि पूर्ववदेव॥
अध्ययनं - ११ समाप्तम् मनि दीपरत्न सागरेण संशोधिता सम्पादिता उत्तराध्ययन सूत्रे एकादश अध्ययनस्य भद्रबाहुस्वामि विरचिता नियुक्तिः एवं शान्त्याचार्य विरचिता टीका परिसमाप्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org