________________
२९६
उत्तराध्ययन- मूलसूत्रम् - १-१२ / ३५३ तदाधारभूतं गृहम्, उपलक्षणत्वादन्यदपि प्रभूतधान्यस्थानं, यत्र प्रदीपनकादिभयात् धान्यकोष्ठाः क्रियन्ते तत् कोष्ठागारमुच्यते, यदिवा कोष्ठान् आ-समन्तात् कुर्वते तस्मिन्निति कोष्ठागारः, “अकर्तरि च कारके सञ्ज्ञायां " मिति धञ्, तथा सुष्टुप्राहरिक पुरुषादिव्यापारणद्वारेण रक्षित:पालितो दस्युमूषिकादिभ्यः सुरक्षितः, स च कदाचित् प्रतिनियतधान्यविषयोऽप्रतिपूर्णश्च स्यात् अत आह-नाना-अनेकप्रकाराणि धान्यानि - शालिमुद्गादीनि तैः प्रतिपूर्णो भृतः नानाधान्यप्रतिपूर्ण, आद्यपक्षे तु विशेषणे नपुंसकलिङ्गतया नेये, एवं भवति बहुश्रुत:, असावपि सामाजिकलोकानामिव गच्छ्वासिनामुपयोगिभिर्नानाधान्यैरिवाङ्गोपाङ्गप्रकीर्णकादिभेदैः श्रुतज्ञानविशेषैः प्रतिपूर्ण एव भवति, सुरक्षितश्च प्रवचनाधारतया, यत उक्तम्- "जेन कुलं आयत्तं तं पुरिसं आयरेण रक्खेह" इत्यादीति सूत्रार्थः ॥ अपि च
मू. ( ३५४ )
जहा सा दुमान पवरा, जंबूनाम सुंदसणा । अनाढियस्स देवस्स, एवं हवइ बहुस्सए ।
वृ. यथा सा द्रुमानां मध्ये प्रवरा-प्रधाना जम्बूः नाम्ना-अभिधानेन सुदर्शना नाम सुदर्शना, न हि यथेयममृतोपमफला देवाद्याश्रयश्च तथाऽन्यः कश्चिद् द्रुमोऽस्ति, द्रुमत्वं फलव्यवहारश्चास्यास्तत्प्रतिरूपतयैव, वस्तुतः पार्थिवत्वेनोक्तत्वात् वज्रवैडूर्यादिमयानि हि तन्मूलादीनि तत्र तत्रोक्तानि, सा च कस्येत्याह- 'अनादृतस्य' अनाहतनाम्नो 'देवस्य' जम्बूद्वीपाधिपतेर्व्यन्तरसुरस्य आश्रयत्वेन सम्बन्धिनी, एवं भवति बहुश्रुत:, सोऽपि ह्यमृतोपमफलकल्पश्रुतान्वितो देवादीनामपि च पूज्यतयाऽभिगमनीयः शेषद्रुमोपमसाधुषु च प्रधान इति सूत्रार्थः ॥ मू. ( ३५५ ) जहा सा नईण पवरा, सलिला सागरंगमा । सीया नीलवंतपवहा, एवं हवइ बहुस्सए ।
अर्शआ
वृ. यथा सा 'नदीना' सरितां 'प्रवरा' प्रधाना सलिलं - जलमस्यामस्तीति, देराकृतिगणत्वादचिसलिला नदी, सागरं समुद्रं गच्छतीति सागरङ्गमा-समुद्रपातिनित्यर्थः, न तु क्षुद्रनदीवदपान्तराल एव विशीर्यते, 'शीता' शीतानाम्नी, नीलवान् मेरोरुत्तरस्यां दिशि वर्षधरपर्वतस्ततः प्रभवति पाठान्तरतः प्रवहति वा नीलवत्प्रभवा नीलवत्प्रवहा वा, 'एवं' शीतानदीवद्भवति बहुश्रुत:, असावपि हि सरितामिवान्यसाधूनामशेषश्रुतज्ञानिनां वा मध्ये प्रधानो विमलजलकल्प श्रुतज्ञानान्वितश्च, तथा सागरमिव मुक्तिमेवासौ गच्छति, तदुचितानुष्ठान एवास्य प्रवृत्तत्वात्, न ह्यन्यदर्शनिनामिव देवादिभव एवास्य विवेकिनो वाञ्छा, तथा च कथमस्य तेषामिव प्रायोऽपान्तरालावस्थानं ?, नीलवत्तुल्याच्च उच्छ्रितोच्छ्रितमहाकुलादेवास्य प्रसूतिः, कथमिवान्यथैवंविधयोग्यतासम्भव इति सूत्रार्थः ॥ किञ्च
मू. ( ३५६ )
जहा से नगाण पवरे, सुमहं मंदरे गिरि । नानोसहीपज्जलिए, एवं हवइ बहुस्सुए ।
वृ.यथा स ‘नगानां' पर्वतानां मध्ये 'प्रवरः ' अतिप्रधानः 'सुमहान्' अतिशयगुरुरत्युच्च इतियावत्, ‘मन्दरः' मन्दराभिधानः, कः पुनरसौ ? इत्याह- 'गिरिः, किमुक्तं भवति ? -मेरुपर्वतः, ‘नानौषधिभिः' अनेकविधविशिष्टमाहात्म्यवनस्पतिविशेषरूपाभिः प्रकर्षेण ज्वलितोदीप्तः नानौषधिप्रज्वलितः, ता ह्यतिशायिन्यः प्रज्वलन्त्य एवासत इति तद्योगादसावपि प्रज्वलित इत्युक्तः, यद्वा-प्रज्वलिता नानौषाधयोऽस्मिन्निति प्रज्वलितनानौषधिः, प्रज्वलितशब्दस्य तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org