SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-१,[नि. ३७] २७ __अन्ये त्वाः- एकगुणादि स्वस्थानापेक्षया द्विगुणेन रूपाधिकेन सम्बध्यत इति, अयमत्र विशेषः खलुशब्देन सूच्यते, तथा चैककस्य स्वस्थानापेक्षया द्विगुणो द्विक एव सच रूपाधिकस्त्रिक एव इति त्रिगुणेनैकवैकगुणस्य सम्बन्धः, तथा द्विगुणस्य पञ्चगुणेन त्रिगुणस्य सप्तगुणेन चतुर्गुणस्य नवगुणेन पञ्चगुणस्यैकादशगुणेनेत्यादि, उक्तं च "समनिद्धयाइ बंधो न होइ समलुक्खयावि य न होइ। वेमाइनिद्धलुक्खत्तणेण बंधो उखंधाणं ॥१॥" (तथा) "दोण्ह जहन्नगुणाणं निद्धाणं तह य लुक्खदव्वाणं । एगाहिएवि य गुणे न होति बंधस्स परिणामो ।।२।। निद्धविउणाहिएणं बंधा निद्धस्स होइ दव्वस्स। लुक्ख बिउणाहिएम य लुक्खस्स समागमं पप्प ।।३।।" स्निग्धरूक्षपरस्परबन्धविचारणायां तु समगुणयोर्विषमगुणयोर्वा जघन्यवर्जयोर्बन्धपरिणतिरिति विशेषः । तथा चाह "बझंति निद्धलुक्खाविसमगुणा अहव समगुणो जेऽवि। वज्जितु जहन्नगुणे बझंती पोग्गला एवं ।।" इत्यादि, येन विशेषण संस्थानात् स्कन्धस्य भेदेनोपादानं तमाविष्कर्तुमाह-'तं संठाणंति' प्राकृतत्वादेवं पाठः, तस्य-स्कन्धस्य संस्थानम्-आकारस्तत्संस्थानम्, अनेन-हृदि विवर्तमानतया प्रत्यक्षेण परिमण्डलादिनाऽनन्तरोक्तप्रकारेणेत्थमिथ्थं तिष्ठति इत्थंस्थं, न तथा अनित्थंस्थम्, अनेन नियतपरिमण्डलाद्यन्यतराकारं संस्थानं शेषोऽनियताऽऽकारस्तु स्कन्ध इत्यनयोविशेष इत्युक्तं भवति। आह-स्कन्धानामपि परस्परं बन्धोऽस्ति, यदुक्तम्-"एमेव य खंधाणं दुपएसाईण बंधपरिणामो' त्ति अत: किं न तेषामपीरतरेतरसंयोग इहोक्तः ?, उच्यते, उक्त एव, तेषां प्रदेशसभावात्, प्रदेशानां च 'इयरेतरसंजोगो परमाणूणं तहा पएसाणं' इत्यनेन तदभिधानादिति गाथार्थः । संस्थानभेदानाहनि.[३८] परिमंडले य वट्टे तंसे चउरंसमायए चेव। घनपयर पढमवज्जं ओयपएसे य जुम्मे य ।। वृ.लिङ्ग व्यभिचार्यपी'ति प्राकृतलक्षणात् सर्वत्र लिङ्गव्यत्ययः, ततः परिमण्डलं, प्रक्रमात् संस्थानमेवमुत्तरत्रापि, तच्च बहिर्वृत्ततावस्थितप्रदेशजनितमन्तःशुपिरं, यथा वलकस्य, चशब्द उत्तरभेदापेक्षया समुच्चये, वृत्तं तदेवान्तःशुपिरविरहितं यथा कुलालचक्रस्य, व्यत्रं-त्रिकोणं, यथा शृङ्गाटकस्य, चतुरस्त्रं-चतुष्कोणं, यथा कुम्भिकायाः, आयतं-दीर्धं, यथा दण्डस्य, चः पूर्वभेदापेक्षया समुच्चये 'एव' अवधारणे, तत इयत एव संस्थानभेदाः, 'घनपयर'त्ति घनं च प्रतरंच घनप्रतरं, प्राकृतत्वाद्विन्दुलोपः, सर्वत्र च प्रतरपूर्वक एव घनः प्ररूप्यते, इहापि तथैवोपदर्शयिष्यते, ततः प्रतरधन इति निर्देशः प्राप्तः, अल्पाक्ष(च्त)रत्वात्तु घनशब्दस्य पूर्वनिपातः, ततश्चैकैकं परिमण्डलादि प्रतरंघनंच, भवतीति गम्यते, तथा प्रथमम्-आद्यं वर्जयति-त्यजतीति प्रथमवर्ज-परिमण्डलरहितं वृत्तादिसंस्थानचतुष्कमित्यर्थः 'आयपएसे य'त्ति ओजःप्रदेशं च-विषयसङ्ख्यपरमाणुकं 'जुम्मे य' त्ति प्रक्रमाद युग्मप्रदेशं च, उभयत्र चः समुच्चये। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy