________________
उत्तराध्ययन- मूलसूत्रम् - १-१/१ अभिपेयमणभिपेओ अभिलावो चेव संबंधो ॥
वृ . इतरेतरस्य - परस्परस्य संयोगो-घटना इतरेतरसंयोगः 'परमाणूनाम्' उक्तरूपाणां, तथा प्रकर्षेणसूक्ष्मातिशयलक्षणेन दिश्यन्ते कथ्यन्त इति प्रदेशाः - धर्मास्तिकायादिसम्बन्धिनो निर्विभागा भागास्तेषाम्, 'अभिपेयं' ति प्राकृतत्वादभिप्रेतः, इतरेतरसंयोगइति योज्यते, , एवमुत्तरत्रापि, अभिप्रेतत्वं चास्याभिप्रेतविषयत्वाद्, एतद्विपरीतोऽनभिप्रेतः, अभिलप्यते-आभिमुख्येन व्यक्तमुच्यतेऽनेनार्थ इत्यभिलापो - वाचकः शब्दस्तद्विषयत्वात् अभिलापः, चः समुच्चये, 'एवः' अवधारणे, सम्बन्धशब्दानन्तरं चैतौ योज्यौ, ततः सम्बन्धनं- सम्बन्धः, स चैव स्वस्वामित्ादिरनेकधा वक्ष्यमाणः, एतावद्भेद एवायमितरेतरसंयोग इति चावधारणस्यार्थ इति गाथासमासार्थः।। परमाणूनां संयोगमाह
नि. [ ३६ ]
२६
दुविहो परमाणूणं हवइ य संठाणखंधओ चेव । संठाणे पंचविहो दुविहो पुन होइ खंधेसु ॥
द्वौ विधौ प्रकारावस्येति द्विविध:-द्विभेदः, कोऽसौ ! - 'परमाणूनाम्' इति परमाणुवृ. सम्बन्धी, प्रक्रमादितरेतरसंयोगो भवति, 'च: ' पूरणे, कथं द्विविध इत्याह- 'संठाणखंधतो 'त्ति संतिष्ठतेऽनेन रूपेण पुद्गलात्मकं वस्त्विति संस्थानम् - आकारविशेषः ततस्तमाश्रित्य, ‘स्कन्धतः' स्कन्धमाश्रित्य चः समुच्चये, 'एव:' भेदावधारणे। द्विविधस्यापि प्रत्येकं भेदानाह - 'संस्थाने' संस्थानविषयः 'पञ्चविधः ' पञ्चप्रकार: 'द्विविधः ' द्विप्रकारः, पुनः शब्दो वाक्यान्तरोपन्यासे भवति 'स्कन्धेपु' स्कन्धविषय इति गाथार्थः । इह च संस्थानस्कन्धभेदद्वारक एवायमितरेतरसंयोगभेद इति तदभिधानमुचितं, तत्र 'यथोद्देशं निर्देश' इति न्यायतः संस्थानभेदाभिधानप्रस्तावेऽप्यल्यवक्तव्यत्वात् स्कन्धभेदं हेतुभेदद्वारेणाह
नि. [३७]
परमाणुपुग्गला खलु दुन्नि व बहुगा य संहता संता । निव्वत्तयंति खंधं तं संठाणं अनित्थंत्थं ॥
वृ. परमाणुपुद्गलौ खलु दौ वा वहव एव बहुका:--त्रिप्रभृतयः, ते च परमाणुपुद्गलाः ‘संहता:' एकपिण्डतामापन्नाः सन्तो 'निर्वर्तयन्ति' जनयन्ति, किमित्याह- 'स्कन्धं' द्व्यनुकादिकम्, अनेन च द्विपरमानुजन्यतया बहुपरमानुजन्यत्वेन च स्कन्धस्य द्विभेदत्वमुक्तं, खलुशब्दोऽत्र विशेषं द्योतयति, स चायम्-इह रूक्षः स्निग्धो वा एकगुणः सम्बध्यमानो द्विगुणाधिकेनैव स्वस्वरूपापेक्षया सम्बध्यते, न तु समगुणेनैकगुणाधिकेन वा, किमुक्तं भवति ? एकगुणस्निग्धस्त्रिगुणस्निग्धेन सम्बध्यते त्रिगुणस्निग्धः पञ्चगुणस्निग्धेन पञ्चगुणस्निग्धः सप्तगुणस्निग्धेनेत्यादि, तथा द्विगुणस्निग्धश्चतुर्गुणस्निग्धेन चुतुर्गुणस्निग्धः पड्गुणस्निग्धेनेत्यादि, एवमेकगुणरूक्षगुणरूक्षेण त्रिगुणरूक्षः पञ्चगुणरूक्षेनेत्यादि, तथा द्विगुणरूक्षश्चतुर्गुणरूक्ष चतुर्गुणरूक्षः षड्गुणरूक्षेनेत्यादि, एव द्विगुणाधिकसम्बन्धो भावनीयः, न त्वेकगुणस्निग्ध एकगुणस्निग्धेन द्विगुणस्निग्धेन वा सम्बध्यते द्विगुणस्निग्धो द्विगुणस्निग्धेन त्रिगुणस्निग्धेन वायावदनन्तगुणस्निग्धोऽप्यनन्तगुणस्निग्धेन समगुणेनैकगुणाधिकेन वा, एवमेकगुणरूक्ष एकगुणरूक्षेण द्विगुणरूक्षेण वा द्विगुणरूक्षो द्विगुणरूक्षेण त्रिगुणरूक्षेण वा यावदनन्तगुणरूक्षोऽप्यनन्तगुणरूक्षेण समगुणैनकगुणाधिकेन वेति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org