________________
२४
उत्तराध्ययन-मूलसूत्रम्-१-१/१ नि.[३१] संजुत्तगसंजोगो सच्चित्तादीण होइ दव्वाणं।
दुममनुसुवन्नमाई संतइकम्मेण जीवस्स ।। वृ. संयुक्तकसंयोगः'अनन्तराभिहितस्वरूपः, सचित्तादीनां' सचित्ताचित्तमिश्राणां भवति द्रव्याणाम्, अमीपामुदाहरणान्याह- 'दुममनुसुवन्नमाइ'त्ति अत्र मकारस्यालाक्षणिकत्वात् सुळ्यत्ययाच्च 'द्रुमाणुसुवर्णादीनां' प्रत्येकं चादिशब्दसम्बन्धात्सचित्तद्रव्याणां द्रुमादीनाम् अचित्तव्याणामण्वादीनां सुवर्णादीनां च मिश्रद्रव्यस्य तु सन्ततिकर्मणोपलिक्षितस्य जीवस्य, अत्र चाण्वादीनां सुवर्णादीनामित्युदाहरणद्वयमचित्तद्रव्याणां सचित्तमिश्रद्रव्यापेक्षया भृयस्त्वख्यापनार्थम्, एतद्भूयस्त्वं च जीवेभ्यः पुद्गलानामनन्तगुणत्वात्, उक्तं च
"जीवा पोग्गल समया दव्व पएसा य पज्जवा चेव।
थोवाऽनंतानंता विसेसमहिया दुवेऽनंता ।।" इति, अनेन च सचित्तादेः संयोगद्रव्यस्य त्रैविध्यात् संयुक्तकसंयोगस्य त्रैविध्यमुक्तामिति गाथार्थः ।। तत्र द्रुमादीनां सचित्तसंयुक्तद्रव्यसंयोगं विवरीतुमाहनि.[३२] मूले कंदे खंधे तया य सालेपवालपत्तेहि । .
पुप्फफलेबीएहि अ संजुत्तो होइ दुममाई ।। वृ.'मूले कन्दे स्कन्धे' इति सर्वत्र सूत्रत्वात् तृतीयार्थे सप्तमी, ततश्च मूलेन' अधःप्रसर्पिणा स्वावयवेन 'कन्देन' तेनैव मूलस्कन्धान्तरालवतिना 'स्कन्धेन' स्थुडेन 'त्वचा' छविरूपया 'साले'त्ति एकारोऽलाक्षणिकः, ततः 'शालाप्रवालपत्रैः' शाखापल्लवपलाशैः, फले इत्यत्राप्येकार-स्तथैव, ततः 'पुष्पफलबीजैश्च' प्रसिद्धैरेव संयुक्तः' सम्बद्धो भवति दुममाइत्ति' मकारोऽलाक्षणिकः ततो द्रुमादिः, आदिशब्दाद्गुच्छगुलम्मादिश्च संयुक्तकसंयोग इति प्रक्रमः । स हि प्रथममुद्गच्छत्रङ्करात्मकः पृथिव्याः संयुक्त एव मूलेन संयुज्यते, ततो मूलसंयुक्तक एव कन्देन, कन्दसंयुक्त एव स्कन्धेन एवं त्वक्शाखाप्रवालपत्रपुष्पफलवीजैरपि पूर्वसंयूक्त एवोत्तरोत्तरैः संयुज्यते इति भावनीयम, नन्वेवं द्रुमादेर्द्रव्यत्वात् संयुक्तकसंयोगस्य च गुणत्वात्कथं द्रुमादिरेव स इति, अत्रोच्यते, धर्मधर्मिणोः कथञ्चिदनन्यत्वादेवमुक्तमित्यदोषः, एवमुत्तरभेदयोरपीति गाथार्थः ।। अण्वादीनामचित्तसंयुक्तकद्रव्यसंयोगं स्पष्टयितुमाहनि.[३३] एगरस एगवन्ने एगेगंधे तहा दुफासे अ।
परमाणू खंधेहि अ दुपएसाईहि नायव्वो।। वृ.एक:-अद्वितीयस्तिक्तादिरसान्यतमो रसोऽस्येति एकरसः, तथैक: कृष्णादिवर्णान्यतमो वर्णोऽस्येति एकवर्णः, एवम् 'एकगन्धः' सुगन्धीतरान्यतरगन्धान्वितः, 'एगे' इत्येकारस्यालाक्षणिकत्वात्, तथा द्वौ चाविरूद्धो स्निग्धशीताद्यात्मको स्पर्शावस्येति द्विस्पर्शः, चशब्दः स्वगतानन्तभेदोपलक्षकः, क एवंविधः? इत्याह- परमः-तदन्यसूक्ष्मतरासम्भवात् प्रकर्षवान् स चासावणुश्च परमाणुः, उपलक्षणत्वाद् धुनुकादिश्च, 'स्कन्धैश्च' स्कन्धशब्दाभिधेयैः, कैरित्याह-द्वौ प्रदेशावारम्भकावस्येति द्विप्रदेशो- द्यणुकः, स आदिर्षेषां त्रिप्रदेशादीनामचित्तमहास्कन्धपर्यन्तानां ते तथा तैः, चशब्दात्परमाण्वन्तरैर्वर्णान्तरादिभिश्च, संयुज्यमान इति गम्यते, 'विज्ञेयः' विशेषेणसङ्ख्यातासङ्ख्यातानन्तभङ्गविबावनात्मकेनावबोद्धव्यः, पाठान्तरतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org