________________
२४८
उत्तराध्ययन- मूलसूत्रम् - १-८/२२८ भिधानं, 'तुः' पूरणे, ततो विशेषत एव तरिष्यन्ति, ये 'करिष्यन्ति' अनुष्ठास्यन्ति, प्रक्रमादमुं धर्म्मम्, अन्यच्च ‘तै:’ आराधितौ' सफलीकृतौ 'द्वौ' द्विसङ्ख्यौ लोकौ, इहलोकपरलोकावित्यर्थः, इह महाजनपूज्यतया परत्र च निःश्रेयसाभ्युदयप्राप्त्येति सूत्रार्थः ॥
'इति : ' परिसमाप्तौ ब्रवीमि इति नयाश्च प्राग्वदिति ॥
अध्ययन - ८ समाप्तम्
मुनि दीपरत्नसागरेण संशोधितं सम्पादितं उत्तरध्ययन सूत्रे अष्टमम् अध्ययनं सनिर्युक्तिः सटीकं समाप्तम्
अध्ययनं - ९ नमिप्रवज्या
नि. [ २६० ]
नि. [ २६१ ]
नि. [ २६२ ]
नि. [ २६३ ]
वृ. उक्तमष्टममध्ययनं साम्प्रतं नवममारभ्यते - अस्य चायमभिसम्बन्धः - अनन्तराध्ययने निर्लोभत्वमुक्तम्, इह तु तदनुष्ठितेः इहैव देवेन्द्रादिपूजोपजायत इति दर्श्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयवर्णनं पूर्ववद्यावन्नार्मानिष्पन्ननिक्षेपेऽन्वर्थानुगतं नमिप्रव्रज्येतिनाम, अतो नमेः प्रव्रज्यायाश्च निक्षेपो वाच्य इत्युभयनिक्षेपाभिधानायाह निक्खेवो उ नर्मिमि चउव्विहो दु० ॥ जाग शरीरे मवि० ॥ नमिआउनामगोय वेयंतो भावतो नमी होइ । तस्स य खलु पव्वज्जा नमिपव्वज्जंति अज्झयणं ॥ पव्वज्जानिक्खेवो चउव्विहो अन्नतित्थिगा दव्वे । भावमि उ पव्वज्जा आरंभपरिग्गहच्चाओ ॥ वृ.‘निक्षेप:' न्यासः, ‘तुः' पूरणे, 'नमौ' नमिविषय: 'चतुर्विधः ' चतुर्भेदो नामादिः, तत्र च नामस्थापने सुगमै, 'द्विविधः ' द्विभेदो भवति 'द्रव्ये' द्रव्यविषयः, तमेवाह-आगमनो-आगमतः, तत्रागमतो ज्ञाताऽनुपयुक्तः, नोआगमतश्च स 'त्रिविधः ' त्रिभेदः, 'जाणगसरीरभविए तव्वइरित्ते य'त्ति नमिशब्दस्य प्रत्येकमभिसम्बन्धात् ज्ञशरीरनमिर्भव्यशरीरनमिस्तद्व्यतिरिक्तनमिश्च, 'स' तद्व्यतिरिक्तनमिर्भवेत् त्रिविधः - एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्च, एतत्स्वरूपं च प्राग्वत्, तथा नम्यायुर्नामगोत्रं वेदयन् भावतो नमिर्भवति, 'तस्य' मेः 'खलु' इति वाक्यालङ्कारे, 'प्रव्रज्या' वक्ष्यमाणस्वरूपा, इहाभिधीयत इत्युपस्कारः, अतश्च 'नमिप्रव्रज्ये'ति नमप्रव्रज्याख्यमिदमध्ययनमेव प्रस्तुतमुच्यत इति शेषः,
प्रव्रज्यानिक्षेपश्चतुर्विधो नामादि:, नामस्थापने प्राग्वत्, अन्यानि च तान्यनर्हत्प्रणीततीर्थादन्यत्वेन तीर्थानि च निजनिजाभिप्रायेणभवजलधेः तरणं प्रति करणतया विकल्पितत्वेनान्यतीर्थानि तेषु भवा अन्यतीर्थिकाः, अध्यात्मादेराकृतिगणत्वाट्ठक्, ते च शाक्यसरजस्कादयः, 'द्रव्ये' विचार्ये, प्रव्रज्येति सम्बन्धः, प्रव्रज्यायोगाच्च त एव प्रव्रज्येत्युच्यते, यथा दण्डयोगात् पुरुषोऽपि दण्डइति, इह चान्यतीर्थिकशब्देन विवक्षितभावविकलतैव सूचिता, ततोऽन्यतीर्थ्याः स्वतीर्थ्या वा प्रव्रज्यापर्यायशून्या द्रव्यप्रव्रज्येति भण्यन्ते,
अत एवाह - भावे तु विचार्यमाने प्रव्रज्या आरम्भश्च- - पृथिव्याद्युपमर्दः परिग्रहश्च - मूर्च्छा
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International