________________
अध्ययनं-८,[नि. २५९]
२३९ केइ बीए, एवं जाव पंचवि सया संबुद्धा पव्वतियत्ति । इत्यभिहितः सम्प्रदायोऽवसितश्च नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रच्चारणीयं, मू. ( २०९) अधुवे अससायंमि संसारंमि दुक्खपउराए।
किं नाम होज्ज तं कम्मयं?, जेनाहं दुग्गइं न गच्छेज्जा॥ वृ.स हि भगवान् कपिलनामा स्वयंबुद्धश्चौरसङ्घातसम्बोधनायेमं ध्रुवकं सङ्गीतवान्, ध्रुवकलक्षणं चेदम्
'जं गिज्जइ पुव्वं चिय पुन पुनो सव्वकव्वबंधेसु ।
धुवयंति तमिह तिविहं छप्पायं चउपयं दुपयं ।।" तत्र ध्रुवो-य एकास्पदप्रतिबद्धो न तथाऽध्रुवः तस्मिन्, संसार इति सम्बन्धः, भ्रमन्ति ह्यस्मिन् अनेकेषु उच्चावचस्थानेषु जन्तवः, तेषां क्वचिदनुत्पन्नपूर्वत्माभावाद्, उक्तं च -
"रङ्गभूमिर्न सा काचिच्छुद्धा जगति वर्तते।
विचित्रैः कर्मनेपथ्यैर्यत्र सत्त्वैर्न नाटियम्॥" इति, शाश्वतं-नित्यम् अविद्यमानं शाश्वतमस्मिन्निति अशाश्वस्तस्मिन्, संसार एव, अशाश्वतं हि सकलमिह राज्यादि, तथा च हारिलवाचक:
"च लंराज्यैश्वर्यं धनकनकसार: परिजनो, नृपाद्वाल्लभ्यं च चलममरसौख्यं च विपुलम्। चलं रूपाऽऽरोग्यं चलमिह चरंजीवितमिदं, जनो दृष्टो यो वै जनयति सुखं सोऽपि हि चलः ।।" __यद्वा-ध्रुवो-नित्यो न तथाऽध्रुवस्तस्मिन्, एवं च कियत्कालावस्थायित्वमप्याशङ्कयेत अत आह-शश्वद्भवनाच्छाश्वतः न तथाऽशाश्वतस्तस्मिन्, शश्वद्भवने हि द्व्यादिक्षणावस्थितिरपि सम्भवेत्, तनिषेधे तु तस्या अपि निषेधात्पर्यायार्थतया तडित्सम्पातवत् क्षणमात्रावस्थायिनीत्युक्तं भवति, एकार्थं वा पदद्वयम्, उपदेशत्वादतिशयख्यापकत्वाच्च न पौनरुक्त्वं, क्व पुनः ईदृशि? संसरन्त्यस्मिन् कर्मवशवतिनो जन्तवइति संसारस्तस्मिन्, 'दुक्खपउराए'त्ति प्रचुराण्येव प्रचुरकाणि-प्रभूतानि दुःखानि शारीरमानसानि यस्मिन् स तथा तस्मिन्, प्राकृतत्वाच्च सूत्रे एवं निर्देशः यद्वा दुःखानां प्रचुरः आयो-लाभो यस्मिन् स तथा तस्मिन्, 'कि' मिति प्रश्ने ? 'नामे'ति संभावनायां वाक्यालङ्कारे वा भवेत्' स्यात् तत् क्रियत इति कर्म तदेव कर्मकम्अनुष्ठानं, यत् कीदृगित्याह-येन कर्मणा ‘हेतौ तृतीया' अहमित्यात्मानं निर्दिशति, 'दुर्गति' नरकादिकां न गच्छेज्ज'ति न गच्छेयं-न यायां, पठन्ति च
'जेणाधं दुग्गईतो मुच्चेज्ज'त्ति सुगमम्, अत्र भगवतश्छिन्नसंशयत्वेऽपि मुक्तिगामितया दुर्गत्यसत्त्वेऽपि च प्रतिबोध्यपूर्वसङ्गतिकापेक्षमित्थमभिधानं, नागार्जुनीयास्तु प्रथमपदमेवं पठन्ति 'अधुवंमि मोहगहणए' तत्र मुह्यतेऽनेन जाननपि जन्तुरिपि मोहो-दर्शनमोहनीयादिः तेन गहनो-गुपिलो मोहगहनः स एव मोहगहनकस्तस्मिन्निति सूत्रार्थः। एवं च भगवतोद्गीते तेऽप्येनमेव ध्रुवकं प्रत्युद्गायन्ति तालं च कुट्टयन्ति, तैश्च प्रत्युद्गीते भगवानाहमू.(२१०) विजहित्तु पुव्वसंजोगं न सिनेहं कहिचि कुब्विज्जा।
असिनेह सिनेहकरेहिं दोसपउसेहि मुच्चई भिक्खू ॥ वृ. 'विहाय' विशेषेण-तदननुस्मरणाद्यात्मकेन हित्वा-त्यक्त्वा, कमित्याह-पुरा परिचित्ता For Private & Personal Use Only
www.jainelibrary.org
Jain Education International