________________
२१८
उत्तराध्ययन- मूलसूत्रम् - १-६ / १६४ पश्येदवधारयेत्, शमितं दर्शनं प्रस्तावात् मिथ्यात्वात्मकं येन से तथोक्तः, यदिवा 'सम्यक् इतं गतं जीवादिपदार्थेषु दर्शनं दृष्टिरस्येति समितदर्शन:, कोऽर्थः ? - सम्यग्दृष्टिः सन्, ततश्च 'छिंद' त्ति छिन्द्यात्, सूत्रत्वात्तिव्यत्ययः, एवं सर्वत्रानुच्यमानोऽप्ययं भावनीयः, 'गृद्धि' विषयाभिकाङ्क्षां'स्नेहंच' स्वजनादिषु प्रेम 'न' नैव 'काङ्क्षेद्' अभिलषेद्, अपेर्गम्यमानत्वात् काङ्क्षदपि न, किं पुनः कुर्यादिति भावः । 'पूर्वसंस्तवं' पूर्वपरिचयमेकग्रामोषितोऽयमित्यादिकं, यतो न कश्चिदिह परत्र वा त्राणाय स्वकर्मणा विलुप्यमानस्य धर्मं विनेति भाव इति सूत्रद्वयार्थः ॥ मू. ( १६५ ) गवासं मणिकुंडलं, पसवो दासपोरुसं । सव्वमेयं चइत्ता णं, कामरूवी भविस्ससि ॥
वृ. गावश्चाश्वाश्च गवाश्वं, 'गवाश्वप्रभृतीनि चे 'त्ति समाहारः, तत्र गावो- वाहदोहोपलक्षिताः अश्वाः-तुरगाः, पशुत्वेऽप्यनयोः पृथगुपादानं अत्यन्तोपयोगित्वेन प्राधान्यात्, तथा मणयश्चमरकतादयः कुण्डलानि च - कर्णाभरणानि मणिकुण्डलम् उपलक्षणं चैतच्छेषालङ्काराणां स्वर्णादीनां च, पश्यन्ति प्रसूयन्ते वा पशवः - अजैडकादयः, दासाश्च-गृहजातादय: 'पोरुसं’ति सूत्रत्वात् पुरुषाणां समूह इत्यर्थः, 'पुरुषाद्वधविकारसमूहे' त्यादिना ढकि पौरुषेयं चपदात्यादिपुरुषसमूहो दासपौरुषेयं, यद्वा 'दासपोरुसं' ति दासपुरुषाणां समूहो दासपौरुषं, पुरुषाद् ढक् न भवति, ग्रहणवता प्रातिपदिकेन तदन्तविधेरभावात्, 'सर्वं' निरवशेषं 'एतद्' अनन्तरोक्तं 'त्यक्त्वा' हित्वा, संयममनुपालयेत्यभिप्रायः किमित्याह- 'कामरूपी' अभिलषितरूपविकरणशक्तिमान भविष्यसि, इहैव वैक्रियकरणाद्यनेकलब्धियोगात् परत्र च देवभावावाप्तेरिति सूत्रार्थः । पुनः सत्यस्वरूपमेव विशेषत आह
मू. (१६६ )
थावरं जंगमं चेव, धनं धन्नं उवक्खरं । पच्चमाणस्स कम्मेहिं, नालं दुक्खाउ मोयणे ॥ अब्भत्थं सव्वओ सव्वं, दिस्स पाणे पियायए । न हणे पाणिणो पाणे, भयवेराओ उवरए ॥
मू. (१६७ )
वृ. 'अब्भत्थं' ति अध्यात्ममात्मनि यद्वर्तते, यदिवा अध्यात्मं-मनः तस्मिस्तिष्ठत्यध्यात्मस्थं, सूत्रत्वाद्वर्णलोप:, तच्चेह प्रस्तावात् सुखादि 'सर्वत:' इष्टसंयोगानिष्टसंप्रयोगादिहेतुभ्यो, जातमिति गम्यते, 'सर्वं' निरवशेषंं 'दृष्ट्वा' प्रियत्वादिस्वरूपेणावधार्य, तथा 'पाणे 'त्ति चस्य गम्यमानत्वात् प्राणांश्च-प्राणिनश्च 'पियादए 'त्ति आत्मवत् सुखप्रियत्वेन प्रिया दया-रक्षणं येषां तान् प्रियदयान्, प्रिय आत्मा येषं तान् प्रियात्मकान् वा, दृष्ट्वा इत्यत्रपि सम्बन्धनीयं, ततः किमित्याह-'न हन्यात्' नातिपातयेत् उपलक्षणत्वान्नापि घातयेत् न वा घ्नन्तं समनुजानीयात्, प्राणीन इति जातावेकवचनं, पाठान्तरतश्च प्राणिनां प्राणान् - इन्द्रियादीन् कीदृशः सन् ? इत्याहभयं च उक्तस्वरूपं, वैरं च- प्रद्वेषः भयवैरमिति समाहारस्तस्मादुपरतो निवृत्तः सन् यदिवाअध्यात्मस्थशब्दस्याभिप्रेतपर्यायात्वेन रूढत्वादध्यात्मस्थं- यद्यस्याभिमतं तच्च सुखमेव, 'सर्वत' इति सर्वाभ्यो दिग्भ्यः सर्वेभ्यो वा मनोऽभिमतशब्दादिभ्यो जातं सर्वं शारीरं मानसं च यथा तवेष्टं तथाऽन्येषामपि प्राणिनामित्युपस्कारः, 'दृष्ट्वा' अवधार्य, इहापि चस्य गम्यमानत्वात् प्राणान् प्राणप्राण्यभेदोपचारात् प्रियदयांश्च, दृष्ट्वेत्यत्रापि योज्यते, अन्यत् प्राग्वदिति सूत्रार्थः ॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
-