________________
अध्ययनं - ६, [ नि. २४३ ]
२१७
भग्गो, सो य विज्जाकओ उवभोगो नट्टो, पच्छा ते गामेयगा प्रलयीभूतविभवा: परपेसाईहिं दुक्खाणि अनुभवंति, जति पुण सा विज्जा गहिया होंता ततो भग्गेवि घडे पुणोवि करेंतो ।
एवं अविज्जानरा दुक्खाणि संभूताः क्लिश्यन्ते, नागार्जुनीयास्तु पठन्ति - "ते सव्वे दुक्खमज्जिया' इह च मकारोऽलाक्षणिकः, अर्जितम् उपार्जितं दुःखं यैस्तेऽर्जितदुःखाः, प्राकृतत्वान्निष्ठान्तस्य परनिपातः, शेषं प्राग्वत्, यद्वा यावन्तो 'विद्यापुरुषा' विद्याप्रधानाः, पुरुषास्ते सर्वे 'अदुःखसम्भवाः' अविद्यमानदुःखोत्पत्तयः, अमुमेवार्थं व्यतिरेकेणा-'मूढा' अज्ञानाऽऽकुलितमतय एव लुप्यन्ते बहुशः संसारेऽनन्तक इति, काक्वा वा व्याख्येयं, दश्यन्ते हि यानपात्रिण इहैव मोहाद्वयालुप्यमानाः, तथा च वृद्धा: - जहा समुद्दे वाणिया दुव्वायाहयजाणवत्ता दिसामूढा खणेण अंतोजलगयपव्वयमासाएऊण भिन्नपोया महावीतिकल्लोलेहिं वुज्झमाणा कुम्मगमगराईहिं विलुप्पंति, एवं तेऽवि अविज्जा बहुसो मूढा सारीरमाणसेहिं महादुक्खेहिं विलुप्पन्तीति सूत्रार्थः ॥ यतश्चैवं ततो यत्कृत्यं तदाह
मू. (१६२ )
समक्खि पंडिए तम्हा, पास जाइपहे बहू । अप्पणा सच्चमेसेज्जा, मित्तिं भूएहिं कप्पए ।
वृ. 'समीक्ष्य' आलोच्य 'पण्डितो' हिताहितविवेकभाक् 'त(ज) म्ह' त्ति यस्मादेवमविद्यावन्तो लुप्यन्ते तस्मात्, पाठान्तरतश्च तस्मात्, समीक्ष्य मेधावी मर्यादावर्ती, किं तत् समीक्ष्येत्याह-पाशा-अत्यन्तपारवश्यहेतवः कलत्रादिसम्बन्धास्त एव तीव्रमोहोदयादिहेतुतया जातीनाम्-एकेन्द्रियादिजातीनां पन्थानः- तत्प्रापकत्वान्मार्गाः पाशजातिपथाः तान् 'बहून्' प्रभूतान् अविद्यावतां विलुप्तिहेतून्, किमित्याह-'आत्मना' स्वयं न तु परोपरोधादिना, सद्भयोजीवादिभ्यो हितः - सम्यग् रक्षणप्ररूपणादिभिः, सत्य:- संयमः सदामो वा तमेषयेत- गवेषयेत, एषयंश्च सत्यं किं कुर्याद् इत्याह-‘मैत्रीं' मित्रभावं 'भूतेषु' पृथिव्यादिषु जन्तुषु 'कल्पयेत्' कुर्यात्, पठ्यते वा-‘अत्तट्ठा सच्चमेसेज्जा' इह च यस्मादविद्यावन्त: संसारे लुप्यन्ते तस्मात्“मय्येव निपतत्वेतज्जगद्दुश्चरितं हि यत् ।
Jain Education International
---
मत्सुचरितयोगेन, स वै कल्याणभाजनम् ॥” इति,
शाक्यादिपरिकल्पिताविद्यापरिहारेणात्मार्थमेव, न तु परार्थं, सत्यमेषयेद्, अपरकृतस्यापरत्रासङ्क्रमणेन परार्थानुष्ठानस्यानर्थकत्वाद्, अन्यत् प्राग्वदिति सूत्रार्थः ॥ अपरं चमू. (१६३) माया पिया न्हुसा भाया, भज्जा पुत्ता य ओरसा । नालं त मम ताणाय, लुप्पंतस्स सकम्मुणा ॥ एयम सपेहाए, पासे समियदंसणे ।
मू. ( १६४ )
छिदं गेहिं सिनेहं च, न कंखे पुव्वसंथवं ॥
वृ. तत्राद्यसूत्रपूर्वार्धं स्पष्टं, नवरं स्नुषा - वध्वः, पुत्राश्च उरसि भवा औरसाः स्वयमुत्पादिताः, आस्तां जातपुत्रादयः, किमित्याह - 'नालं' न समर्थाः 'ते' मात्रादयो मा 'त्राणाय' रक्षणाय, कथंभूतस्य ? -'लुप्यमानस्य' छिद्यमानस्य, केन ? - 'स्वकर्म्मणा' स्वकृतेन ज्ञानावरणादिना, किमुक्तं भवति ? - स्वकर्म्मविहितां बाधामनुभवतः एते मात्रादयो न त्राणायेति, एवमात्मकमनन्तरोक्तमर्थं-वस्तु —सपेहाए' त्ति प्राकृतत्वात् संप्रेक्षया सम्यग्बुद्धया स्वप्रेक्षया वा, 'पासे' त्ति
For Private & Personal Use Only
-
www.jainelibrary.org