SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १९८ उत्तराध्ययन-मूलसूत्रम्-१-५/१२९ एकोऽद्वितीयः, स च तीर्थकृदेव, शेषं प्राग्वदिति सूत्रार्थः ।। यदुदाहृतवांस्तदेवाहमू.(१३०) संतिमे य दुवे हाणा, अक्खाया मारणंतिया। अकाममरणं चेव, सकाममरणं तहा।। वृ. सन्तीति प्राकृतत्वात् वचनव्यत्ययेन स्तो-विद्यते 'इमे' प्रत्यक्षे, चः पूरणे, पठ्यते च 'संतिमेए'त्ति स्त एते, मकारोऽलाक्षणिकः, एवमन्यत्रापि यत्र नोच्यते तत्र भावनीयं, 'द्वे' द्विसङ्खये तिष्ठन्त्यनयोर्जन्तव इति स्थाने 'आख्याते' पुरातनतीर्थकृद्भिरपि कथिते, अनेन तीर्थकृतां परस्परं वचनाव्याहतिरुपदर्शिता, ते च कीदृशे ? -'मारणंतिए'त्ति मरणमेवान्तोनिजनिजायुषः पर्यन्तो मरणान्तः तस्मिन् भवे मारणान्तिके, ते एव नामत उपदर्शयति-'अकाममरणम्' उक्तरूपमनन्तरवक्ष्यमाणरूपं च, वक्ष्यमाणापेक्षया चः समुच्चये, एवेति पूरणे, 'सकाममरणम्' उक्तरूपं वक्ष्यमाणस्वरूपं च तथेति सूत्रार्थः ।। केषां पुनरिदं कियत्कालं च? मू. (१३१) बालाणं अकामं तु, मरणं असतिं भवे। पंडियाणं सकामंतु, उक्कोसेण सतिं भवे ॥ वृ.बाला इव बालाः सदसद्विवेकविकलतया तेषाम् ‘अकामंतु'त्ति तुशब्दस्यैवकारार्थत्वात् अकाममेव मरणमसकृद्-वारंवारं भवेत्, ते हि विषयाभिष्वङ्गतो मरणमनिच्छन्त एव म्रियन्ते, तत एव च भवाटवीमटन्ति, 'पण्डितानां' चारित्रवतांसह कामेन-अभिलाषेण वर्तते इति सकामं मरणं प्रत्यसंत्रस्ततया, तथात्वं चोत्सवूतत्वात् तादृशां मरणस्य, तथा च वाचकः __ "सञ्चिततपोधनानां नित्यं व्रतनियमसंयमरतानाम्। उत्सवभूतं मन्ये मरणमनापराधवृत्तीनाम्॥" न तु परमार्थतः, तेषां सकाम-सकामत्वं, मरणाभिलाषस्यापि निषिद्धत्वाद्, उक्तं हि "मा मा हु विंचितेज्जा जीवामि चिरं मरामि य लहुंति। जइ इच्छसि तरिउं जे संसारमहोदहिमपारं।"ति, तुः पूर्वापेक्षया विशेषद्योतकः, तच्च 'उत्कर्षेण' उत्कर्षोपलक्षितं, केवलिसम्बन्धीत्यर्थः, अकेवलिनो हि संयमजीवितं दीर्घमिच्छेयुरपि, मुक्त्यवाप्तिः, इत: स्यादिति, केवलिनस्तु तदपि नेच्छन्ति, आस्तां भवजीवितमिति, तन्मरणस्योत्कर्षेण सकामता 'सकृद्' एकवारमेव भवेत्, जघन्येन तु शेषचारित्रिणः सप्ताष्ट वा वारान् भवेदित्याकूतमिति सूत्रार्थः । यदुक्तं-'स्त इमे द्वे स्थाने' तत्राद्यं तावदाहमू. (१३२) तत्थिमं पढमं ठाणं, महावीरेण देसियं। कामगिद्धे जहा बाले, भिसंकूराणि कुव्वति। वृ.'तत्रे'ति तयोरकाममरणसकाममरणाख्ययोः स्थानयोर्मध्ये 'इदम्' अनन्तरमभिधास्यमानरूपं 'प्रथमम्' आद्यं स्थानं, 'महावीरेणे'ति चरमतीर्थकृता, तत्रैको महाप्रज्ञः' इति मुकुलितोक्तेरभिव्यक्त्यर्थमेतत्, ‘देशितं' प्ररूपितं, किंतत् इत्याह-'कामेषु' इच्छामदनात्मकेषु गृद्धः' अधिकाङ्क्षावान् कामगृद्धो 'यथा' इत्युप्रदर्शनार्थः, 'बाल' इत्युक्तरूपो 'भृशम्' अत्यर्थं 'क्रूराणि' रौद्राणि, कर्माणीति गम्यते, तानि च प्राणव्यपरोपणादीनि 'कुव्वति'त्ति करोतिक्रिययाऽभिनिवर्तयति, शक्तावशक्तावपिक्रूरतया तन्दुलमत्स्यवन्मनसा कृत्वा च प्रक्रमाद Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy