________________
०२७
अध्ययनं-५,[नि. २३३] इहैव प्रशस्ताप्रशस्तमरणविभागमाहनि.[ २३४] एगंतपसत्था तिन्नि इत्थ मरणा जिनेहि पन्नत्ता।
भत्तपरिन्ना इंगिनी पाउवगमनं च कमजिटुं । वृ.एकान्तेन नियमेन प्रशस्तानि-श्लाघानि 'त्रीणि' त्रिसङ्ग्यानि 'अत्र' एतेष्वनन्तराभिहितेषु मरणेषु मरणानि 'जिनैः' केवलिभिः 'प्रज्ञप्तानि' प्ररूपितान, तान्येवाह-भक्तपरिज्ञा इङ्गिनी 'पाउवगमनं' चेति पादपोपगमनं च, इदमपि त्रयं किमेकरूपमित्याह-क्रमेण-परिपाट्य ज्येष्ठम्-अतिशयप्रशस्यं क्रमज्येष्ठं यथोत्तरं प्रधानमतिभावः। शेषमरणान्यपि यानि प्रशस्तानि तेषामत्रैवान्तर्भावः, इतराणि कानिचित् कथञ्चित् प्रशस्तानि, अपराणि तु सर्वथैवाप्रशस्तानीति गाथार्थः । इह च येनाधिकारस्तदाहनि.[ २३५] इत्थं पुन अहिगारो नायव्वो होइ मणुअमरणेणं।
मुत्तुं अकाममरणं सकाममरणेण मरियव्वं ।। वृ. अत्र' एतेषु मरणेषु, पुनःशब्दो वाक्योपन्यासार्थः, अधिकारो ज्ञातव्यो भवति मनुजमरणेन, किमुक्तं भवति?-मनुष्यभवसम्भविना पण्डितमरणादिना, तान्येव प्रत्युपदेशप्रवृत्तेः । सम्प्रत्युक्तार्थसंक्षेपद्वारेणोपदेशसर्वस्वमाह-मुक्त्वाऽकाममरणं-बालमरणाद्यमप्रशस्तं 'सकाममरणेन' भक्तपरिज्ञादिना प्रशस्तेन मर्तव्यमिति गाथार्थः ।।
गतो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रच्चारीणयं, तच्चेदम्मू. (१२९) अन्नवंसि महोहंसि, एगे तरइ दुरुत्तरं।
तत्थ एगे महापन्ने, इमं पण्हमुदाहरे।। व. अण्र्णो-जलं विद्यते यत्रासावर्णवः, अर्नसो लोपश्चेति वप्रत्ययः सकारलोपश्च, स च द्रव्यतो जलधिर्भावतश्च संसार: तस्मिन्, कीदृशि?-'महोघंसि'त्ति महानोघः-प्रवाहो द्रव्यतो जलसम्बन्धी भावतस्तु भवपरम्परात्मक: प्राणिनामत्यन्तमाकुलीकरणहेतुः चरकादिमतसमूहो वा यस्मिन् स महौघः तस्मिन्, महत्त्वं चोभयत्रागाधतयाऽदष्टपरपारतया च मन्तव्यं, तत्र _ 'एक' इत्यसहायो रागद्वेषादिसहभावविरहितो गौतमादिरित्यर्थः, 'तरति' परंपारमाप्नोति, तत्कालपेक्षया वर्तमाननिर्देशः, 'दुरुत्तरं'ति विभक्तिव्यत्ययाद्दुरुत्तरे-दुःखेनोत्तरितुं शक्ये, दुरुत्तरमिति क्रियाविशेषणं वा, न हि यथाऽसौ तरति तथाऽपरैर्गुरुकर्मभिः सुखेनैव तीर्यते, अत एव एक इति, सङ्ख्यावचनो वा, एक एव-जिनमतप्रतिपन्नाः, न तु चरकादिमताकुलितचेतसोऽन्ये तथा तरितुमीशत इति, 'तत्रे'ति गौतमादौ तरणप्रवृत्ते 'एक' इति तथाविधतीर्थकरनामकर्मोदयादनुत्तरावाप्तविभूतिरद्वितीयः, किमुक्तं भवति?-तीर्थकरः, स ह्येक एव भरते सम्भवतीति, ‘महापन्ने'त्ति महती-निरावरणतयाऽपरिमाणा प्रज्ञा-केवलज्ञानात्मिका संवित्त अस्येति महाप्रज्ञः, स किं इत्याह-'इमम्' अनन्तरवक्ष्यमाणं हृदि विपरिवर्तमानतया प्रत्यक्षं प्रक्रमात्तरणोपायं, ‘पटुं'ति स्पष्टम्-असन्दिग्धं, पठ्यते च ‘पण्हं'ति पृच्छयत इति प्रश्न-प्रष्टव्यार्थरूपम् 'उदाहरे'त्ति भूते लिट्, तत उदाहरेद्-उदाहृतवान्, पठ्यते च-'अन्नवंसि महोघंसि एगे तिने दुरुत्तरं'ति, अत्र सुब्व्यत्यये विशेषः, ततश्च-अर्नवान्महौघाद्दुरुत्तरात् तीर्ण इवतीर्णः-तीरप्राप्त इतियोगः, एको धातिकर्मसाहित्यरहितः, 'तत्रे'ति सदेवमनुजायां परिषदि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org