SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ १६ उत्तराध्ययन-मूलसूत्रम्-१-१/१ च वक्तव्यता प्रतिसूत्राभिधेयार्थविषया, अर्थाधिकारस्तु ‘अहिगारो इत्थ विणएण' मित्यनेनैवाभिहितः । समवतारस्त्वानुपूर्व्यादिषु लाघवार्थं यथासम्भवमुक्त एव इति न पुनरुच्यते, "अहणा य समोयारो जेन समोयारियं पइद्दारं। विनयसुयं सोऽनुगतो लाघवओ न उण वच्चेति ॥" निक्षेपस्त्रिघा-ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्च, आह च भन्नाइ घेप्पइ य सुहं निक्खेवपयानुसारओ सत्थं । ओहो नामं सुत्तं निक्खेयव्वं तओऽवस्सं ।" (ओघः) अध्ययनादि सामान्यनाम, आह च ओहो जं सामन्त्र सुयाभिहाणं चउव्विहं तं च। अज्झयणं अज्झीणं आओ झवणा य पत्तेय ॥१॥ नामादि चउब्भेयं वन्नेऊणं सुयानुसारेणं । विनयसुयं आउज्जं चउसुंपि कमेण भावेसुं ।।२।। जेन सुहप्पज्झयणं अज्झप्पाणयणमहिय नयनं वा। बोहस्स संजमस्स य मोक्खस्स व तो तमज्झयणं ।।३।। अक्खीणं दिज्जंतं अव्वोच्छित्तिणयतो अलोगो व्व। ___ आओ नानाईणं झवणा पावाण कम्माणं ॥४॥ प्रकटार्था एव, नवरं येन हेतुना शुभात्माध्ययनं शुभस्य-पुण्यस्यात्मन्याधिक्येनायनं-गमनं ततो भवति, पठ्यते वा-'सुहज्झप्पयणं'ति, तत्रशुभं-सक्लेशविरहितमध्यात्म-मनः तत्रायनमर्थादात्मनः ततः, तथाऽधिकं नयनं-प्रकर्षवत्प्रापणं, कस्य?-बोधस्य-तत्त्वावगमस्य संयमस्य वा-पृथिव्यादिसंवरक्षणात्मकस्य मोक्षस्यवा-कृत्स्नकर्मक्षयलक्षणस्य ततो भवति, आत्मनीति गम्यते, 'ततः' तस्माद्धेतोः, प्राग्वदध्ययनमुच्यत इति शेषः, तथा अव्यवच्छित्तिनयतः' अव्यवच्छित्तिनयमाश्रित्य द्रव्यास्तिकनयाभिप्रायेणेत्यर्थः, 'अलोकवत्' इत्युपलक्षणत्वादलोकाकाशवदिति। नामनिष्पन्ननिक्षेपेऽस्य विनय श्रुतमिति द्विपदं नाम, ततो विनयस्य श्रुतस्य च निक्षेपः शास्त्रान्तर उक्तोऽप्यवश्यमिह वक्तव्यः । तत्र च विनयनिक्षेपो बहुवक्तव्य इति तमतिदेष्टुं श्रुतनिक्षेपस्तु न तथेति तमभिधातुमाहनि.[२९] विनओ पव्वद्दिवो सुयस्स चउक्कओ उ निक्खेवो। दव्वसुय निण्हगाइ भावसुय सुए उ उवउत्तो॥ वृ.विनीयते-अपनीयतेऽनेन कर्मेति विनयः, सच पूर्व-दशवैकालिकविनयसमाधिनामाध्ययने उद्दिष्टउक्तः पूर्वोद्दिष्ट, स्थानाशून्यार्थं तदुक्तमेव किञ्चिदुच्यते “विनयस्स य सुत्तस्स य निक्खेवो होइ दुण्ह य चउक्को। दव्वविनयम्मि तिनिसो सुवामिति एवमातीते ॥१॥ लोकोवयारविनओ अत्थनिमित्तं च कामहेउं च । भयविनयमोक्खविनओ विनओ खलु पंचहा नेओ ॥२॥ अब्भुट्ठाणं अंजलि आसनदानं च अतिहिपूया य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy