SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १७८ उत्तराध्ययन-मूलसूत्रम्-१-४/१२१ किमुक्तं भवति?-बहुजनप्रवृत्तिदर्शनानैतेऽनर्थकारिण इति न विश्रम्भवान् भवेत् ‘पण्डितः' प्राग्वत्, आशु-शीघ्रमुचितकर्त्तव्येषु यतितव्यमिति प्रज्ञा-बुद्धिरस्येति-आशुप्रज्ञः, किमिति आशुप्रज्ञः?, यतो घूर्णयन्तीति घोरा:-निरनुकम्पाः, सततमपि प्राणिनां प्राणापहारित्वात्, क एते ?, 'मुहूर्ताः' कालविशेषाः, कदाचिच्छारीरवलाद् घोरा अप्यमीन प्रभविष्यन्तीत्यत आह-'अबलं' बलविरहितं न मृत्युदायिनो मुहूर्तान् प्रति सामर्थ्यवत्, किं तत् ? - शरीरम्, एवं तर्हि किं कृत्यमित्याह-'भारण्डपक्खीव चरऽप्पमत्तो' इति पतत्यनेनेति पक्षः सोऽस्यास्तीति पक्षी भारण्डश्वासौ पक्षी च भारण्डपक्षी से यद्वप्रमत्तश्चरति तथा त्वमपि प्रमादरहितश्चर-विहितानुष्ठानमासेवस्व, अन्यथा हि यथाऽस्य भारण्डपक्षिणः पक्ष्यन्तरेण सहान्तर्वर्तिसाधारणचरणसम्भवात् स्वल्पमपि प्रमाद्यतोऽवश्यमेव मृत्युः तथा तवापि संयमजीविताद् भ्रंश एव प्रमाद्यत इति सूत्रार्थः ।। अमुमेवार्थं स्पष्टन्नाहमू. (१२२) चरे पयाइं परिसंकमाणो, जं किंचि पासं इह मन्नमाणो। लाभंतरे जीविय वूहइत्ता, पच्छा परिनायमलावधंसी। वृ.'चरेत्' गच्छेत ‘पदानि' पादविक्षेपरूपाणि 'परिशङ्कमानः' अपायं विगणयन्, किमित्येवमत आह-'यत्किञ्चिद्' गृहस्थसंस्तवाद्यल्पमपि पाशमिव पाशं संयमप्रवृत्तिं प्रति स्वातन्त्र्योपरोधितया 'मन्यमानो' जानानः, यद्वा 'चरेदि'ति संयमाध्वनि यायात्, किं कुर्वन् ?'पदानि' स्थानानि, धर्मस्येति गम्यते, तानि च मूलगुणादीनि परिशङ्ककानो' मा ममेह प्रवर्त्तमानस्य मूलगुणेषु मालिन्यं स्खलना वा भविष्यतीति परिभावयन् प्रवर्तेत, 'जं किंचि' त्ति यत्किञ्चिदल्पमपि दुश्चिन्तितादि प्रमादपदं मूलगुणादिमालिन्यजनकतया बन्धहेतुत्वेन पाशमिव पाशं मन्यमानः, तदयमुभयत्राभिप्रायः-यथा भारण्डपक्षी अपरसाधारणार्तिचरणतया पदानि परिशङ्कमान एव चरति यत्किञ्चिद्दवरकादिकमपिपाशं मन्यमानः, तथाऽप्रमत्तश्चरेत, नन यदि परिशङ्कमानश्चरेत्तहि सर्वथा जीवितनिरपेक्षेणैव प्रवत्तितव्यं, तत्सापेक्षतायां हि कदाचिकथञ्चिदुक्तदोषसम्भव इत्याशङ्कयाह-'लाभंतरे'त्यादिवृत्तार्द्ध, लम्भनं लाभः-अपूर्वार्थप्राप्तिः अन्तरं-विशेषः, लाभश्चासावन्तरंच लाभान्तरं तस्मिन् सतीत्यर्थः, किमुक्तं भवति?. यावद्विशिष्टविशिष्टतरसम्यग्ज्ञानदर्शनचारित्रवाप्तिरितः सम्भवति तावदिदं 'जीवितं' प्राणधारणात्मकं बृहयित्वा' अन्नपानोपयोगादिना वृद्धि नीत्वा, तदभावे प्रायस्तदुपक्रमणसम्भवादित्थमुक्तं, 'खुहा पिवासा यवाही य'त्तिवचनात् क्षुदादीनामप्युपक्रमणकारणत्वेनाभिधानाद, इह च बृंहयित्वेव बृंहयित्वेति व्याख्येयम्, अन्यथा ह्यसंस्कृतं जीवितमिति विरुध्यत इति भावनीयं, ततः किमित्याह-'पश्चात्' लाभविशेषप्राप्त्युत्तरकालं परिनाय'त्ति सर्वप्रकारैरवबुध्य यथेदं नेदानीं प्राग्वत्सम्यग्दर्शनादिविशेषहेतुः, तथा च नातो निर्जरा, न हि जरया व्याधिना वा अभिभूतं तत् तथाविधधर्माधानं प्रति समर्थम्, उक्तं हि "जरा जाव न पीलेति, वाही जाव न वड्थति। जाविदिया न हायंति, ताव धम्म समायरे॥" . एवं ज्ञपरिज्ञया परिज्ञया ततः प्रत्याख्यानपरिज्ञया च भक्तं प्रत्याख्याय, सर्वथा जीवितनिरपेक्षो भूत्वेति भावः, मलवदत्यन्तमात्मनि लीनतया मल:-अष्टप्रकारं कर्म तदपध्वंसत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy