________________
उत्तराध्ययन- मूलसूत्रम् - १-१ / १
षट्त्रिंशद्गच्छगतयां श्रेण्यामन्योऽन्याभ्यासतो द्विरूपोनसङ्ख्या भेदं भवति, उक्तं च"एकाद्या गच्छपर्यन्ताः, परस्परसमाहता: । राशयस्तिद्धि विज्ञेयं, विकल्पगणिते फलम् ॥"
-
इह चासम्मोहाय पट्पदाङ्गीकारतः प्रस्तारानयनोपाय उच्यते तत्र चैकादीनि षडन्तानि षट् पदानि स्थाप्यन्ते तानि चान्योऽन्यं गुण्यन्ते, ततश्च जातानि सप्त शतानि विंशत्युत्तराणि तेषां चान्त्येन षट्केन भागहार:, तत्र लब्धं विंशत्युत्तरं शतं १२०, इयन्तः षष्ठपङ्क्तौ षट्का न्यस्यन्ते, तदधस्तावन्त एव क्रमेण पञ्चकचतुष्ककत्रिकद्विकैककाः स्थाप्याः, इत्थं जातानि षष्ठङ्क्तौ सप्त शतानि विशत्युत्तराणि । ततो विंशत्युत्तरशतस्य पञ्चकेन भागहारः, तत्र च लब्धा चतुर्विंशतिः २४, तावत्सङ्ख्याः पञ्चमपङ्क्तौ क्रमेण पञ्चकचतुष्कत्रिकद्विकैकका न्यस्याः, जातं विंशत्युत्तरं शतं, तस्य चाधस्तादग्रे तनपङ्क्तिस्थमङ्कमपहाय यथामहत्सङ्ख्यमङ्कविन्यासः, तत्रोग्रेत-. नपङ्क्तिस्थऋ पञ्चकस्तत्परित्यागतश्च सर्वबृहत्सङ्ख्यः षट्कश्चतुर्विंशतिवारानधः स्थाप्यते, ततस्त्रिकापेक्षया चतुष्को द्विकापेक्षया च त्रिक एककापेक्षया च द्विको बृहत्सङ्ख्यः तत एककश्च तावत एव वारान् न्यसनीयः, जातं पुनर्विंशत्युत्तरं शतम्, एवमग्रेतनपङ्क्तिस्थचतुष्कत्रिकद्विकैकपरिहारतस्तथैव तावत्रेय यावत्पञ्चमपङ्क्तावपि पूर्णानि सप्त शतानि विंशत्युत्तराणि । ततश्चतुर्विशतेश्चतुष्केण भागहारः, तत्र लब्धाः षट् ६, ततश्चतुर्थपङ्क्तौ तावन्त एवाधौऽधश्चतुष्कत्रिकद्विकैककाः स्थाप्याः, यावज्जाता चतुर्विंशतिः, ततश्चाग्रेतनपङ्क्तिस्थाङ्कपरिहारादिप्रागुक्तयुक्तित एव पङ्क्तिः पूरणीया ।
भूयः षट्कस्य त्रिकेण भागहारः, ततश्च लब्धो द्विकः, ततस्तृतीयपङ्क्तौ द्वौ त्रिको पुनर्द्वावेव द्विको भूय एककौ च द्वावधः स्थापनीयौ, अधस्ताच्च पुरः स्थिताङ्गत्यागतो बृहत्सङ्ख्याङ्कन्यासतश्च विंशत्युत्तरसप्तशतप्रमाणैव पङ्क्तिः पूरणीया । पड्भागहारलब्धस्य द्विकस्य विभजने लब्ध एक:, ततो द्वितीयपङ्क्तौ द्विक एककश्चैको विरचनीयः, तदधश्च पुरोदितपुरस्याङ्कपरिहारादिन्यायतस्तावत्सङ्ख्यैवं द्वितीयपङ्क्तिः कार्या । प्रथमपङ्क्तिस्तु पुरस्थाङ्कपरिहारतः पूरणीया । उक्तं च
१४
"
"गणिते ऽन्त्यविभक्ते तु लब्धं शेषैर्विभाजयेत् । आदावन्ते च तत्स्थाप्यं, विकल्पगणिते क्रमात् ॥'
11
इह च परस्परगुणनागतराशिर्गणितमुच्यते, शेषास्तु षट्कापेक्षया पञ्चकादयः, 'आदा'विति च षष्ठपङ्क्तौ, ‘अन्त' इति च पञ्चमादिपङ्क्ताविति । उक्ताऽऽनुपूर्वी, सम्प्रति नाम, तत्र नमति - ज्ञानरूपादिपर्यायभेदानुसारतो जीवपरमाण्वादिवस्तुप्रतिपादकतया प्रह्वीभवतीति नाम, "जं वत्थुणोऽभिहाणं पज्जवभेयानुसारि तं नाम ।
पइभेयं जं नमए पइभेयं जाइ जं भणियं ॥ "
तच्चैकनामादि दशनामान्तम्, इह तु षड्विधनामन्दयिकादिषड्भावरूपेणाधिकारः, तदन्तभूतक्षायोपशमिकभावे श्रुतज्ञानात्मकत्वेन प्रस्तुताध्ययनस्यावतारात्, आह च"छव्विहनामे भावे खओवसमिए सुयं समोयरइ । जं सुयनाणावरणक्खओवसमजं तयं सव्वं ।।"
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org