________________
अध्ययनं-१,[ नि. २८]
संमज्जभूमिकम्मे य पंथतलागाइयाणं च ।।२।।" . कालो वर्तनादिरूपत्वेन द्रव्यपर्यायात्मक एव, द्रव्यपर्यायौ च नरसिंहवदन्योऽन्यसंवलितो, ततस्तद्द्वारेण तस्य गुणविशेषाऽऽधानविनाशावुपक्रमशब्दवाच्यौ, आह च
"जं वत्तणादिरूवो कालो दव्वाण चेव पज्जाओ।
तो तकरणविनासे कीरइ कालोवयारो उ॥ आह-मनुष्यक्षेत्रे सूर्यक्रियाव्यङ्गयो वर्तनादिद्रव्यपरिणतिनिरपेक्षोऽद्धाकालाख्यः कालोऽस्ति, यथोक्तम्
"सूरकिरियाविसिट्ठो गोदोहादिकिरियासु निरवेक्खो।
अद्धाकालो भन्नइ समयक्खेत्तंभि समयाई ।।"त्ति, तत्र का वार्ता ?, उच्यते, तस्यापि शङ्कच्छायादिना यथावत्परिज्ञानत ऋक्षादिचारैरतिपाततश्चामूर्तत्वेऽपि परिकर्मविनाशम्भवादुपक्रमः, तथा च पूज्या:
"छायाइ नालियाइ व परिकम्मं से जहत्थविनाणं।
रिक्खाईचारेहि य तस्स विनासो विवज्जासो।।" भावोपक्रमस्तु यद्यपि भावस्य पर्यायत्वात् तस्य च द्रव्यात् कथञ्चिदनन्यत्वात्तदुपक्रमाभिधानत उक्त एव, तथापि जीवद्रव्यपर्यायोऽभिप्रायाख्यो भावशब्दाभिधेयोऽस्ति, यदुक्तम्भावाभिख्याः पञ्च स्वरूपसत्तात्मयोन्यभिप्रायाः" इति, ततस्तस्य परचित्तवर्तिनः संवेदनाविषयतया विप्रकर्षवत इङ्गिताकारादिना परिज्ञानतः सन्निहितकरणं ज्ञातस्य वा तथाऽननुगुणानुगुणचित्रचेष्टात: कुपितप्रसन्नतापादनं भावपक्रम एव, सचावश्यमिहाभिधेयः, तदन्तर्गतत्वात् गुरुभावोपक्रमस्य, तस्य च सकलानुयोगप्रथमाङ्गत्वात्, उक्तं च-"भन्नइ वक्खाणंगं गुरुचित्तोवक्कमो पढम"ति, शेषोपक्रमाणामपि चैतदङ्गत्वात्, तथा चाह
"जुत्तं गुरुमयगहणं को सेसोवक्कमोवयारोऽत्थ? | गचित्तपसायत्थं तेऽवि जहाजोगमाजोज्जा।।१।। परिकम्मणासणाओ देसे काले य जे जहा जोगा।
तो ते दव्वाईणं कज्जाऽऽहाराइकज्जेसुं॥२॥" तत एतदभिधानाय द्रव्योपक्रमाद्भावोपक्रमः पृथगुच्यते, स च द्विविधः-प्रशस्ताप्रशस्तभेदात्, तत्राप्रशस्तो ब्राह्मणीगणिकाऽमात्यदृष्टान्ततोऽवसेयः, प्रशस्तश्च शिष्यस्य श्रुतादिहेतोगुरुभावोनयनं, यत आह
"सीसो गुरुणो भावं जमुवक्कमए सुहं पसत्थमनो।
सहियत्थं स पसत्थो इह भावोवक्कमोऽहिगतो।" इत्युक्तो लौकिक उपक्रमः, शास्त्रीयस्त्वानुपूर्वीनामप्रमाणवक्तव्यताऽर्थाधिकारसमवतारात्मकः, तत्रानुपूर्वी नामादिदशप्रकारा अन्यत्र प्रपञ्चत उक्ता, इह पुनरुत्कीर्तनगणनात्मिकया तयाऽधिकार इति सैव भण्यते-तत्रोत्कीर्तनं विनयश्रुतं परीषहाध्ययनं चतुरङ्गीयमित्यादि संशब्दनं, गणनं सङ्ख्यानं, तच्च पूर्वानुपूर्वीपश्चानुपूर्वीअनानुपूर्वीभेदतस्त्रिविधं, तत्र पूर्वानुपूर्व्या गण्यमानमिदमध्ययनं प्रथम, पश्चानुपूर्व्या षट्विंशत्तमम्, अनानुपूर्व्या त्वस्यामेवैकायेकोकोत्तर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org