________________
अध्ययनं-४,[नि. १८७]
१६३ जीवप्रयोगं निष्पद्यन्ते, निष्पन्नान्यपि च न चक्षुषा वीक्ष्यन्ते इत्यचाक्षुषं विश्रसाकरणम्, अभ्रादिकरणानि तु स्वयं निष्पद्यन्ते चक्षुषा च वीक्ष्यन्त इति चक्षुषं विश्रसाकरणम्, अत्र च पश्चादुद्दिष्टस्यापि यदचाक्षुषस्य प्रथममभिधानं तत्प्राग्वत्पश्चानुपूर्येति गाथार्थः । सम्प्रति प्रयोगकरणमाहनि.[ १८८] दुविहं पओगकरणं जीवेतर मूल उत्तरं जीवे।
मले पंचसरीरा तिसु अंगोवंगनामं च॥ वृ. 'द्विविधं' द्विभेदं-प्रयोगकरणं 'जीवत्ति' जीवप्रयोगकरणम् ‘इयरे'त्ति अजीवप्रयोगकरणं, तत्र जीवनउपयोगलक्षणेन यदौदारिकाशरीरमभिनिर्वय॑ते तज्जीवप्रयोगकरणं, तच्च द्विधा-मूलकरणमुत्तरकरणं च, तत्र 'मूल' इति मूलकरणे विचार्यमाणे 'पञ्च' इति पञ्चसङ्ख्यावच्छिन्नानि विशीर्यन्ते-उत्पत्तिसमयतः प्रभृति पुद्गलविचटनाद्विनश्यन्तीति शरीराणि-औदारिकवैक्रियाहारकतैजसकार्मणानि, इह च विषयविषयिणोरभेदोपचारेण करणविषयत्वाच्छरीराण्यपि करणमुक्तं, मूलत्वं चोत्तरोत्तरावयवव्यक्त्यपेक्षया, ततश्च यदवयवविभागविरहितमौदारिकशरीराणां प्रथममभिनिर्वर्तनं तत् मूलकरणं, 'तिसु अंगोवंगणामं चे'ति, चशब्दः प्रकृतमनुकर्षति, तच्चेह प्रक्रमादुत्तरकरणमेवानुकृष्यते, ततश्च त्रिषु-औदारिकवैक्रियाहारेषु तैजसकार्मणयोस्तदसम्भवादङ्गोपाङ्गनामैवोत्तरकरणामिति सम्बन्धः, अत्र चाङ्गोपाङ्गनामशब्देनाङ्गोपाङ्गनामकर्मनिर्वर्तितान्यङ्गोपाङ्गानि गृह्यन्ते, कार्ये कारणोपचारात्, आह च
"सज्जीवं मूलुत्तरकरणं मूलकरणं जमादीए।
पंचण्हं देहाणं उत्तरमादीतियस्सेव॥" इति गाथार्थः ।। कानि पुनस्तान्यङ्गानीत्याहनि.[१८९] सीसमुरोयरपिट्ठी दो बाहू अ हुंति ऊरू अ।
___ एए अटुंगा खलु अंगोवंगाइँ सेसाइँ॥ नि.[१९०] हुंति उवंगा कन्ना नासऽच्छी जंघ हत्थ पाया य।
__ अंगोवंगा अंगुलिनहकेसामंसु एमाइ।। वृ.तत्राद्या प्राग्वत्, नवरम् अङ्गोपाङ्गानि उपलक्षणत्वादुपाङ्गानि च शेषाणि, तानि वक्ष्यन्त इति शेषः, तत्रोपाङ्गानि कौँ नासे अक्षिणी जो हस्तौ पादौ च, अङ्गोपाङ्गानि अंगुलयो नखाः केशाः स्मश्रु'एवमादीनि' एवंप्रकाराण्युत्तरकरणं, वृद्धास्त्वङ्गान्यपि मूलकरणमिति मन्यन्ते, आपेक्षिकत्वाच्च मूलोत्तरत्वयोरुभयथाऽप्यविरोध इति गाथाद्वयार्थः । इदमेवान्यथाऽऽहनि.[१९१] तेसिं उत्तरकरणं बोद्धव्वं कण्णखंधमाईयं।
इंदियकरणा तानि य उवघायविसोहिओ हुंति ॥ वृ. 'तेषाम्' आद्यानां त्रयाणां शरीराणामुत्तरकरणं 'बोद्धव्यम्' अवगन्तव्यं, 'कण्णखंधमादीयं ति तत्रौदारिकस्य कर्णयोवृद्धापादनं स्कन्धस्य चमर्दनादिना दृढीकरणम्, आदिशब्दादन्तरागादिकरणपरिग्रह:, एवं वैक्रियस्यापि, आहारकस्य तु नास्त्येव, गमनादिना वा तस्याप्युत्तरकरणमिति ग्राह्यं। तथा इन्द्रियाणां-चक्षुरादीनां करणानि-अवस्थान्तरापादनानि इन्द्रियकरणानि, तानिच 'उपघातविशुद्धितः' उपघातात् विशुद्धेश्च भवन्ति, तत्रोपघाताद्विषाद्यभ्यवहारतोऽन्धबधिरताद्यापादनानि विशुद्धितश्च ब्राह्मीसमीराञ्जनादिना स्पष्टताद्यापादनान्युत्तकरणं भवति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org