________________
१६२
उत्तराध्ययन- मूलसूत्रम् - १-४ / ११६ वृ. नोसंज्ञाकरणं पुनः 'पओगसा वीससा य'त्ति सूत्रत्वात् प्रयोगतो विश्रसातश्च बोद्धव्यं, तत्र प्रयोगः - जीवव्यापारः तद्धेतुकं करणं प्रयोगकरणं, उक्तं च"होइ पजोयो जीवव्वावारो तेन जं विणिम्मानं । सज्जीवमजीवं वा पओगकरणं तयं बहुहा । "
एतद्विपरीतं तु विश्रसाकरणं, तत्र पश्चादुक्तमप्यल्पवक्तव्यमिति विश्रसाकरणमाह-सहादिना वर्त्तते सादिकं ततोऽन्यत्त्वनादिकमिति भेदतो द्विविधं, पुनरिति मूलभेदापेक्षया, विश्रसाकरणम्उक्तरूपमिति गाथार्थः ॥ तत्रानादिकं वक्तुमाह
नि. [ १८६ ]
धम्माधम्मागासा एवं तिवि भवे अनाइयं । चक्खसु अचक्खुप्फासे एयं दुविहं तु साईयं ।।
वृ. धर्माधर्माकाशानामन्योऽन्यसंबलनेन सदाऽवस्थानमनादिकरणं, न हि तत्कदाचिन्नासीनास्ति न भविष्यति वा, उक्तं हि - " धम्माधम्मणहाणं अनाइसंहायणाकरणं" न च करणमनादि च विरुद्धमिति वाच्यं, यतोऽत्रान्योऽन्यसमाधानं करणमभिप्रेतं, न त्वन्योऽन्यनिर्वर्त्तनम्, आह च-“अन्नोऽन्नसमाहाणं जहिहं करणं न निव्वत्ति" इह च धर्माधर्माकाशानां करणमिति वक्तव्ये कथश्चित्क्रियाक्रियावतोरभेददर्शनार्थमनुकूलितात्रियत्वख्यापनार्थं वा धर्माधर्माकाशाः करणमित्युक्तम्, 'एतद्' अनन्तरोक्तं 'त्रिविधं' त्रिप्रकारं 'भवेत्' स्यात् अनादिकं, करणमिति प्रक्रमः । इत्थमनादिकं पश्चान्निर्द्दिष्टमपि पश्चानुपूर्व्यपि व्याख्याङ्गमिति ख्यापनाय उक्तं सम्प्रति तु सादिकमाह-'चक्खुमचक्खुप्फासे 'त्ति स्पर्शशब्दः प्रत्येकमभिसम्बध्यते, ततश्चक्षुषा स्पृश्यते-गृह्यमाणतया युज्यत इति चक्षुः स्पर्शं स्थूलपरिणतिमत्पुद्गलद्रव्यम् अतोऽन्यदचक्षुःस्पर्शम्, 'एवं दुविहं तु 'त्ति एतद्विविधमेव, तुशब्दस्यैवकारार्थत्वात् सादिकमिति गाथार्थः ॥ नि. [१८७ ] खंधे अदुपएसाइएस अब्भेसु अब्भरुक्खेसुं ।
निप्पन्नगाणि दव्वाणि जाणि तं वीससाकरणं ॥
वृ. 'स्कन्धेषु च' परमानुसञ्चयात्मकेषु द्विप्रदेशादिकेषु आदिशब्दात्त्रिप्रदेशादिपरिग्रहः, परमाणवश्चानेनैवोपलक्षिताः, 'अध्रेषु' प्रतीतेषु 'अभ्रवृक्षेषु' तद्विशेषेष्वेव वृक्षाकारेषु, उपलक्षणं चैतदिन्द्रघनुरादीनां तथा च सम्प्रदायः - चक्खुप्फासियं जं चक्खुसा दीसइ, तं पुण अब्भा अब्भरुक्खा एवमाइ' । दृश्यते च 'अब्भेसु विज्जमादीसु' त्ति तत्र च यदि विद्युत्प्रतीतैव गृह्यते तदा तस्याः सजीवत्वात्तच्छरीरस्य चौदारिकशरीरकरणाख्यप्रयोगकरणत्वप्रसक्तिः, अथ विद्योतन्त इति विद्युन्ति तानि आदिर्येषां तानि विद्युदादीन्यभ्राणि तेष्वित्यभ्रविशेषणतया व्याख्यायते, आदिशब्दाच्च धूम्रादिपरिग्रह इति, तदा नोक्तदोषः, परमप्रातीतिकं सामायिकानिर्युक्तौ चाभ्रादीन्येव विश्रसाकरणमुक्तं, तद्यथा
"चक्खुसमचक्खुसंपि य सादियं रूविवीससाकरणं ।
अब्भाणुप्पभितीणं बहुहा संघाय भेयकयं ॥" ति,
नेह तत्त्वनिश्चय:, तेषु द्विप्रदेशादिष्वभ्रादिषु वा किमित्याह-निष्पन्नान्येव निष्पन्नकानि, जीवव्यापारं विनैव भेदसङ्घाताभ्यां लब्धसत्ताकानि द्रव्याणि तद्विश्रसाकरणं सादि, चाक्षुषमचाक्षुषं वेति प्रक्रमः, द्विप्रदेशादिकरणानि हि सङ्घाताद् भेदात् सङ्घातभेदाभ्यां च विनाऽपि
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International