________________
१४६
उत्तराध्ययन- मूलसूत्रम् - १-३ / ९६ वत्त्वमात्रेण साभिष्वङ्गता साध्यते उत आशंसयाऽपि ?, प्रथमपक्षे किं यतेरद्धाप्रत्याख्यानमस्ति नवा ?, यद्यस्ति किं पौरुष्यादिपदोपेतमितरथा वा ?, यदि पौरुष्यादिपदोपेतं किं न परिणामवत्त्वेन साभिष्वङ्गता ?, अथ न समतास्थितत्वात् तर्हि परिमाणवत्त्वमनैकान्तिकम्, अथामभिमतमेव तत्र पौरुष्यादिपदोपादानम्, एवं सति प्रव्रज्यादिन एवानशनापत्तिः, तथा च-" निप्फादिया य सीसा दीहो परिवालितो य परियातो' इत्याद्यागमविरोधः, न चाद्धाप्रत्याख्यानं नास्त्येव यतेरिति पक्षः, ‘अनागतमइक्कंतं' इत्यागमेन तस्याभिधानात्,
द्वितीयपक्षे तु नैवमस्याशंसा यथा भवान्तरे सावद्यमहं सेविष्ये, येन साभिष्वङ्गता स्यात्, यपि यावज्जीवेति पदोच्चारणं तदपि व्रतभङ्गभयादेव, तदुक्तम् - " वयभंगभंयाउ च्चिय जावजीवंति निदिट्टं" किञ्च परिणामवत्त्वेन साभिष्वङ्गतां साधयतस्तवाकूतपरिमाणं प्रत्याख्यानमिति, तत्र च नञा परिमाणाभावमात्रमुच्यते वस्त्वन्तरविधिर्वा ?, यदि परिमाणाभावमात्रं तदा तस्याभिष्वङ्गहेतुत्वेनैव निषेधः, तद्धेतुत्वं च तस्यानैकान्तिकमनन्तरमेवोक्तमिति किं तन्निषेधेन ?, अथ वस्त्वन्तरविधिस्तत्र वस्त्वन्तरं शक्तिरनागरताद्धा वा ? यदि शक्तिस्तत्र किं यावच्छक्तिस्तावन्मम प्रत्याख्यानम् अथ यावति विषये शक्तिस्तावतीति ?, प्रथमपक्षे शकनक्रियापरिमाणपरिमितत्वात्, प्रत्याख्यानस्य परिमाणवत्त्वमेवोक्तं भवतीति स्ववचनविरोधः, प्रत्याख्यानानवस्था चैवं, शक्तेरनियतत्वात्, तथा चातीचारासत्त्वं, तदसत्त्वे च प्रायश्चित्ताभावः, द्वितीयपक्षे तु प्राणवधाद्यन्यन्तरविरतावपि संयतत्वापत्तिः शक्त्यपेक्षत्वात्तद्धेतुप्रत्याख्यानस्य, "एत्तियमेत्ती सत्तित्ति नातियारो न यावि पच्छित्तं ।
"
नय सव्वव्वयनियमो एगेन य संजयत्तंति ॥"
अथानागताद्धा तत्रापि किं भावः प्रत्याख्यानं व्यञ्जनं वा ?, न तावद् व्यञ्जनं स्वप्नादावपि तदुच्चारणे प्रत्याख्यानप्रसङ्गात् प्रमादतः, शक्तिवैकल्पतो वा व्यञ्जनस्खलने तदभावापत्तेश्च, ततः प्रथमपक्ष एवावशिष्यते, तंत्र च सदा सावद्यमहं न सेविष्ये इति तस्य भाव उत कदाचिदिति ?, यदि आद्यपक्षस्तदा मृतस्यापि तत्सेवायामपरिपूर्णप्रतिज्ञत्वेन व्रतभङ्गप्रसङ्गः, तथा सिद्धानामपि संयतत्वापत्तिः, सकलानागताद्धाप्रत्याख्यानधारित्वात् । एवं च 'सिद्धे नो चारित्ती नो अचारित्ती' इत्यागमविरोधः, अथ द्वितीयपक्षस्तत्र किं यथा भावस्तथा व्यञ्जनमथान्यथा ?, यदि यथा भावस्तथा व्यञ्जनम् एवं सति विज्ञातविषयादेरेव प्रत्याख्यानमन्यथा तद्भङ्गप्रसङ्गः, ततश्च जीवन्नहं सावद्यं न सेविष्ये मृतस्य तु कर्मोदयस्वाभाव्यादवश्यंभाविन्यविरतिरित्ययमेव तस्य भावः तथा च यथाभावं व्यञ्जनोच्चारणे बलादापतितं यावज्जीवेति, तथा च जीवनावधित्वादपरिणामत्वहानि:, अन्यथा व्यञ्जनोच्चारणमिति पक्षे च परिस्फुटैव मृषाभाषिता, ज्ञात्वा अन्यथाभिधानात्, उक्तं च
"जो पुन अव्वयभावं मुणमाणोऽवस्सभाविनं भणति । वयमपरिमाणमेवं पच्चक्खं सो मुसावाइ ॥ " 'नाशंसातो यतस्तस्य, यावज्जीवेति पठ्यते ।
ततश्च
-
किन्तु भङ्गभयादेव, तस्मादस्तु यथास्थितम् ॥'
प्रयोगश्च-यत्र नाशंसा न तत्सावधित्येऽपि साभिष्वङ्गं, यथा कायोत्सर्गो, न विद्यते च
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International