________________
अध्ययनं-३,[नि. १७४]
१४१ मोरे मुयइ, तेहिं विच्छुएहिं हएहिं पच्छा सप्पे मुयइ, ताहे तेसिं पडिघायए नउले मुयति, ताहे उंदरे तेसिं मज्जारे, ताहे मिगे तेसिं वग्घे, ताहे सूयरे तेसि सेहि, ताहे कागे तेसिं उलूगे, ताहे पोयागि, पोयगी सउलिया,
तीसे संपाति-ओलावी, एवं जाहे न तरइ ताहे गद्दभी मुक्का, तेन य सा रयहरनेण आहया, ताहे तस्सेव परिव्वायगस्स उवरि छरित्ता गया, ताहे सो परिव्वायगो हीलिज्जतो निच्छूढो, एवं सो तेनं परिव्वायगो पराजितो, ताहे आगतो आयरियस्स सगासे, आलोएइ, ताहे आयरिएहिं भणियं-कीस ते उदिएण न भणियं?-नत्थि तिन्नि रासी, एयस्स बुद्धिं परिभूय मए पत्राविया, ता इदानिपि गंतुं भणाहि, सो नेच्छति, मा उब्भावणा होहित्ति न पडिसुणेइ, पुनो पुनो भणिओ भणइ-को व एत्थ दोसो?, किं च जायं? जइ तिन्नि रासी भणिया, अत्थि चेव तिन्नि रासी, अज्जो! असब्भावो तित्थयराण य आसायणा, तहाविन पडिवज्जति, एवं सो आयरिएहिं समं संपलग्गो, ताहे आयरिया रायउलं गया, भणंति-तेन मम सीसेण अवसिद्धंतो भणितो, अम्हं दुवे चेव रासी, इयाणि सो विपडिवन्नो, तो तुब्भे अम्हं वायं सुणेज्जाह, तं पडिसुणंति, तत्थ रायसभाए मज्झे रन्नो पुरतो आवडियं ।। ततस्तं श्रीगुप्तगुरुरवोचतत्भद्राभिधत्स्व, प्रत्युवाच
'यस्मादजीववज्जीवानोजीवोऽपि विभिद्यते।
तथैवाध्यक्षगम्यत्वादस्तु राशिवयं ततः ।। प्रयोगश्च-यद्यतो विलक्षणं तत्ततो भिन्नं, यथा जीवादजीवो, विलक्षणश्च जीवानोजीवः, ततश्च जीवाजीवौ द्वौ नोजीवश्चेति राशित्रयसिद्धिः, गुरुराह-असिद्धोऽयं हेतुः, यस्माजीवानोजीवस्य वैलक्षण्यं लक्षणभेदेन देशभेदेन वा?, न तावल्लक्षणभेदेन जीवलक्षणानां स्फुरणादीनां त्वदभिमते नोजीवेऽपि जीवदेशे गृहलोकिलात्रुटितपुच्छादावभेदेन दर्शनात्, नापि देशभेदेन, स हि जीवात् पृथग्भावे भवेदन्यथा वा?, यदि पृथग्भावे स किं विश्रसातः प्रयोगतो वा?, विश्रसातश्चेत् पुद्गलानामिव नोजीवानां स्वतश्चटनविचटनधर्मत्वेनान्यसम्बन्धिनामन्यत्र सञ्चारतः सुखदुःखाद्यात्मधर्मसङ्कीर्णतापत्तिः, तदुक्तम् -
___ "अह खंधो इव संघायभेयधम्मा स तोऽवि सव्वेसिं।
अवरोप्परसंचारे सुहाइगुणसंकरो पत्तो।" तथात्वे च कृतनाशाकृताभ्यागमौ, अथ प्रयोगतस्तन्न, अमूर्तद्रव्यत्वादिभिर्नभस इव जीवस्य खण्डशो विनाशयितुमशक्यत्वात्, तथात्वे वा सर्वनाशादिदोषप्रसङ्गः, उक्तं च
"दव्वामुत्तता कयभावादविकारदरिसणातो य। अविनासकारणेहि नभसोव्व न खंडसो नासो ॥१॥ नासे य सव्वनासो जीवस्स न सो य जिनमयच्चातो।
तत्तो य अनिम्मोक्खो दिक्खावेफल्लदोसो य॥२॥" किञ्च-अयं कुतो निश्चीयते?, अथ गृहकोलिकाच्छिन्नपुच्छशरीरान्तराले जीवस्यासत्त्वात्, तदसत्त्वं च तदग्रहणात्, तर्हि तत्तदग्रहणमौदारिकशरीररूपेण सर्वथा वा?, न तावादाद्यः पक्षो, यतो न जीवस्यौदारिकमेवैकं शरीरं येन तदग्रहणेन तदसत्त्वनिश्चयः स्यात् द्वितीयपक्षे पुनरनैकान्तिकमग्रहणं, दीपरश्मीनामिव भित्त्यादिकमन्तरेण विनौदारिकशरीरमशरीरस्य सूक्ष्मशरीरस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org