________________
अध्ययनं - ३, [ नि. १७० ]
त्पादव्यापृतत्वेन वा?, तत्राद्यपक्षे विनाशस्य तुच्छरूपत्वमसिद्धं, यतो ज़ैनानामुत्तरावस्थोत्पाद एव पूर्वावस्थाप्रच्युतिर्नान्या, यदुक्तम्
"कपालानां तु उ(सभु) त्पादः, स एव च घटव्ययः । अन्यो न दृश्यनं नाशो, मध्ये कुम्भकपालयोः || ” न चानयोरेकत्वे विरोधो, निमित्तभेदोदयत्वाद्, यदुक्तम्
१३७
"एकत्वेऽपि विरुद्धत्वं, न चोत्पादविनाशयोः ।
निमित्तभेदभूतत्वान्नप्तृपुत्रपितृत्ववत् ॥”
सिद्धे चैकत्वे पूर्वविनाशा भूत एवोत्तरोत्पाद इत्यनयोस्तुल्य एव हेतुव्यापारः, ततो भावान्तरोत्पादव्यापृतत्वेनेत्यपि प्रत्युक्तम्, उक्तं च
"अन्यदुत्तरसम्भूतिः, पूर्वनाशाविनाकृता । नाविनाश्य ततः पूर्वं, प्रकुर्याद्धेतुरुत्तरम् ॥"
अथ वैयर्थ्यात् स्वयं हि विनश्वरस्वभावो भाव इति किं तस्य विनाशहेतुना ?, नन्वेवं नाशस्त्रभावत्वाद्वस्तुन उत्पाद एव न स्यात्, नाशोत्पादयोर्विरुद्धत्वेन त्वयाऽभ्युपगतत्वाद्, अविरुद्धताभ्युपगमे वा जैनमतानुप्रवेशः, यदपि - 'कृतकत्वे विनाशस्यापि विनाशप्रसङ्ग' इति, तदप्यत एव न दोषाय, तथाहि--कपालोत्पादस्यैव कपालत्वं, कपालोत्पादश्च कपोलेभ्यो नान्य इति तेषामेव विनाश:, स भोचयसम्मत एव, न च कृतकेनावश्यं विनष्टव्यं सम्यग्दर्शनादिकृतत्वे सिद्धत्वादिपर्यायाणामविनाशित्वाद्, अविनाशित्वं च साद्यपर्यवसितत्वात्तेषाम्, उभये हि पर्याया:- स्थिरा अस्थिराश्च, यदुक्तम्
" स्थिरः कालान्तरस्थायी, पर्यायोऽक्षणभंगुरः । क्षणिकश्च क्षणादूर्द्धवमतिष्ठन्नस्थिरो मतः ॥" ततश्चयस्मान्नाशोऽपि जन्मेव, कादाचित्कः सहेतुकः । तस्मान्न सर्वथैवामी, भावा: क्षणविनश्वराः ||
प्रयोगश्च यत्कादाचित्कं तत्सहेतुकं, यथोत्पादः, कादाचित्कत्वं च विनाशस्य उत्पत्तिक्षणानन्तरमेव भावात्, समकालभावित्वे च विनाशाघ्रातत्वेनोत्पादाभावे सर्वशून्यतापत्तेः, इह विनाशस्य कादाचित्कत्वमापाद्य तद्बलेन सहेतुकत्वमापादितं तच्च परप्रसिद्धानेव हेतूनपेक्ष्य, स्वप्रसिद्धा तु न किञ्चिदहेतुकं नाम, द्रव्यादिचतुष्टयापेक्षत्वेन सर्वस्य तद्धेतुकत्वात्, तत् प्रतिपद्यस्व पर्यायनयाङ्गीकारतः कथञ्चिदुच्छेदि वस्तु, द्रव्यार्थिकनयाश्रयणाच्च कथञ्चिन्नित्यमिति, "जमणंतपज्जवमयं वत्युं भवनं च चित्तपरिणामं । ठीतिभवभंगरूवं निच्चानिच्चाई तोऽभिमतं ॥ १ ॥ सुखदुक्खबंधमोक्खा उभयनयमयाणुवत्तिणो जुत्ता । एगयरपरिच्चाए इय (ह) संववहारवोच्छत्ती ॥ २॥ "
एवं प्रज्ञाप्यमानोऽपि यतो नेच्छति ततोऽसौ निह्नवोत्ति नाऊण उग्घाडितो, सो समुच्छेयणवायं वागरंतो हिंडेति जहा - सुन्नो लोगो भविस्सति, असब्भावभावनाहिं भाविंतो रायगिहं गतो, तत्थ खंडरक्खा आरक्खिया समणोवासया, ते य सुंकवाला, ते य आगमिल्लिया, तेहिं मारिउमारद्धा,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International