________________
१३४
उत्तराध्ययन- मूलसूत्रम् - १-३ / ९६ ताहे भांति - किह धरिसिया ? अम्हे, ताहे सो भणति - ननु तुब्भं सिद्धंतो पज्जतवयवमेत्ततोऽवयवी, यदि सच्चमिणं तो का विहंसणा ? मित्छमिहरा उ, तुब्भे मए ससिद्धतेण पडिलाभिया, जदि नवरि वद्धमानसामिस्स तनएण सिद्धतेण तो पडिलाभेमि, एत्थ संबुद्धा, इच्छामो अज्जो ! संमं पडिगोयमा, ताहे पच्छा सावरण पडिलाभिया, मिच्छादुक्कडं चणं कयं, एवं ते सव्वे संबोहिया आलोइयपडिकंता विहरति ।। यथा अव्यक्ता आषाढात्तथाऽऽहनि. [ १६९ ] सियवियपोलासाढे जोगे तद्दिवसहिययसूले य ।
सोहम्म नलिनम् रायगिहे पुरि य बलभद्दे ॥
वृ. अक्षरार्थः सुगमः ॥ भावार्थस्तु सम्प्रदायादवसेयः, स चायम्
तेणं कालेनं तेणं समएणं समणस्स भगवतो दो वाससयाणि चोद्दसुत्तराणि सिद्धिं गयस्स, ततो ततितो उपन्नो । सेयविया नयरी, पोलासं उज्जानं, तत्थ अज्जासाढा नाम आयरिया वायणायरिया य, तेसिं च बहवे सीसा आगाढजोगपडिवन्नया अज्झायंति, तेसिं रत्ति विसूइया जाया, निरुद्धा वाएण, न दे(चे) व कोइ उवट्ठवितो जाव कालगया, सोहम्मे नलिनिगुम्मे विमाने उववन्ना, ओहिं पउंजंति, जाव पेच्छंति तं सरीरगं, ते य साहुणो आगाढजोगपडिवन्नगा, एएऽवि न जाणंति, ताहे तं चेव सरीरं अनुपविट्ठो, पच्छा उट्ठवेन्ति, वेरत्तियं पकरेइ, एवं तेन तेसिं दिव्वप्पभावेणं लहुं चेव समाणियं, पच्छा निप्फान्नेसु तेसु भणंति-खमह भंते! जमेत्थ मए असंजएण वंदाविया, अहं अमुगदिवसं कालगतिल्लतो, एवं सो खामेत्ता गतो, तेऽवि तं सरीरगं छडडेऊण इमे एयरूवे अब्भत्थिए सव्वेवि पडिवन्ना-एच्चिरं कालं असंजतो वंदिओत्ति, ताहे अव्वत्तभावं भावेति, जहा सव्वं अव्वत्तं भणेज्जाह, संजतोऽवि वा देवोऽविवा, मा मुसावाओ भवेज्जा असंजयवंदणं च, जहा तेमं ममं न पत्तियसि, जह संजतो न वा ?, तुमंपि एवं भाणियव्वो, एवं संजती देवी वा, एवं विभासा । एवं ते असब्भावेण अप्पाणं परं उभयं च वुग्गाहेमाणा विहरंति । अनुशासितुमारब्धाश्च स्थविरैः-यथा देवानांप्रिया ! इदं युष्माकमाकूतं
यस्मान्न शक्यते कर्त्तुं क्वचिज्ज्ञानेन निश्चयः ? ।
तस्मादव्यक्तमेवास्तु, वस्तुतत्त्वाविनिश्चयात् ॥
प्रयोगश्च-यत् ज्ञानं न तन्निश्चयकारि, यथेदमाचार्यगोचरं ज्ञानं ज्ञानं चेदं यत्यादिविषयं वेदनम्, अनिश्चयकारित्वे च ज्ञानस्य निश्चयाधीनत्वात्, वस्तुव्यक्तेरव्यक्तत्वसिद्धिः, ननु चेदमनुमानं ज्ञानमेव, ततश्चैतदपि निश्चयकारि न वा ?, यदि निश्चयकारि वृथाऽस्य प्रयोगः, स्वसाध्यनिश्चयाकरणात्, शेषज्ञानानां चानिषिद्वैव निश्चयकारिता, किञ्च यज्ज्ञानं न तन्निश्चयकारीति, प्रतिज्ञायां सर्वथा निश्चयकारित्वाभावः साध्यते कथञ्चिद्वा ?, यदि सर्वथा तदा श्रुतज्ञानस्यापि ज्ञानत्वादनिश्चयकारित्वे स्वर्गापवर्गसाधकत्वेन तदुपदर्शितेषु तपःप्रभृतिष्वप्यनिश्चयात् कथं न शिरोलुञ्चनादेरानर्थक्यम् ?, अथ तस्य स्वयमनिश्चयकारित्वेऽपि तद्वक्तरि तीर्थकृति प्रत्ययात्तस्यापि निश्चयकारितेति न दोष:, तर्हि किं न तत एवालयविहारादिदर्शनेन यत्वादिष्वपि तद्भावनिश्चयाद्वन्दनाविधिः, उक्तं च
Jain Education International
" जइ जिनमयं पमाणं मुनित्ति ता बज्झकरणसंसुद्धं । देवपि वदमाणो विसुद्धभावो विसुद्धो उ ॥ "
For Private & Personal Use Only
www.jainelibrary.org