________________
अध्ययनं - २, [ नि. ११४]
१०५
अयमत्र भावः- यस्मात्करणादिभिः सावद्यपरिहार एव श्रामण्यं, सावद्य च प्रायश्चिकित्सा, ततस्तां नाभिनन्देद्, एतदप्यौत्सर्गिकम्, अपवादतस्तु सावद्याऽप्येषामियमनुमतैव, यदुक्तम्"काहं अछित्ति अदुवा अहीहं, तवोविहाणेण य उज्जमिस्सं । गणं व नीतीइ वि सारविस्सं, सालंबसेवी समुवेति मोक्खं ||" इति सूत्रार्थः ॥ इदानीं भिक्षेति द्वारं, तत्र च 'तिगिच्छं नाहिनंदिज्जा' इति सूत्रावयवमथतः स्पृशन्नुदाहरणमाह
नि. [११५ ] महुराइ कालवेसिय जंबुय अहिउत्थ मुग्गसेलपुरं ।
राया पडिसेहे जंबुरूवेण उवसग्गं ॥
वृ. मथुरायां कालवेसिको जम्बुकोऽभ्युषितो मुद्गसेलं पुरं राजा प्रतिषेधयति जम्बूकरूपेण उपसर्गमिति गाथाक्षरार्थः । भावार्थस्तु सम्प्रदायावगम्यः, स चायम्
महुराए जियसत्तुणा रन्ना काला नाम वेसाऽपडिरूवंति काउं ओरोहे छूढा, तीसे पुत्तो कालाए कालवेसिओ कुमारो, सो तहारूवाणं थेराणं अंतिए धम्मं सोऊण पव्वतितो, एगल्लविहारपडिमं पडिवन्नो, गतो मुग्गसेलपुरं, तर्हि तस्स भगिनी हयसुत्तस्स रन्नो महिला, तस्स साहुस्स अरसिया, ततो तीए भिक्खाए सह ओसहं दिन्नं, सो य अहिगरणंति भत्तं पच्चक्खति ।
तेन य कुमारत्ते सियालाणं सद्दं सोऊण पुच्छिया ओलग्गिया- केसि एस सद्दो सुच्चति ?, ते भांति - एए सियाला अडविवासिणो, तेन भण्णति-एए बंधिऊण मम आणेह, तेहिं सियालो बंधिऊण आनितो, सो तं हणइ, सो हम्मंतो खिखिएइ, ततो सो रतिं विंदइ, सो सियालो हम्मंतो मतो, अकामनिज्जराए वाणमंतरो जाओ, तेन वाणमंतरेण सो भत्तपच्चक्खाययंतिकाउं रक्खावेति पुरिसेहिंति, मा कोइ से उवसग्गं करिस्सइत्ति, जाव ते पुरिसा तं थाणं ऐंति ताव तीए सीआलीए खइतो, जाहे ते पुरिसा ओस्सरिआ ताहे सदं करेंती खाति, जाहे आगया ताहे न दीसति, सोऽवि उवसग्गं सम्मं सहति खमति, एवं अहियासेयव्वं ॥ रोगपीडितस्य शयनादिषु दुःसहतर (:)तृणस्पर्श इत्येतदनन्तरं तत्परीषहमाह
मू. (८३)
अचेलगस्स लूहस्स, संजयस्स तवस्सिणो । तणेसु सुयमाणस्स, हुज्जा गायविराहणा ॥
वृ. अचेलकस्य रूक्षस्य संयतस्य तपस्विन इति प्राग्वत्, तरन्तीति तृणानि -दर्भादीनि तेषु शयानस्योपलक्षणत्वात् आसीनस्य वा भवेत् गात्रस्य - शरीरस्य विराधना- विदारणा गात्रविराधना, अचेलकत्वादीनि तु तपस्विविशेषणानि मा भूत्सचेलस्य तृणस्पर्शासम्भवेनारूक्षस्य तत्सम्भवेऽपि स्निग्धत्वेनासंयतस्य च शुषिरहरिततृणोपादानेन तथाविधगात्रविराधनाया असम्भव इति ॥ ततः किमित्याह
मू. ( ८४ )
आयवस्स निवाएणं, तिदुला हवइ वेयणा । एवं नच्चा न सेवंति, तंतुजं तणतज्जिया ॥
वृ. ‘आतपस्य’ धर्मस्य नितरां पातो निपातस्तेन 'तिउल' त्ति सूत्रत्वात्तौदिक्ख, यद्वा त्रीन् - प्रस्तावत् मनोवाक्कायान्, विभाषितण्यन्तत्वात् चुरादीनां दोलतीव स्वरूपचलनेन त्रिदुला, पाठान्तरन्तु - 'अतुला विपुला वा' भवति वेदना, एवं च किमित्याह- 'एतद्' अनन्तरोक्तं पाठान्तरत: ‘एवं' ज्ञात्वा ‘न सेवन्ते' न भजन्ते, आस्तर नायेति गम्यते, तन्तुभ्यो जातु तन्तुजं, पठ्यते
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org