________________
अध्ययनं-२,[ नि. ११४]
१०३ पसत्थो। एवं शेषसाधुभिरपि याञ्चापरीषह: सोढव्यः ॥ याञ्चाप्रवृत्तश्च कदाचिल्लाभान्तरायदोषतो न लभेतापीत्यलाभपरीषहमाहमू. (७९) परेसु गासमेसिज्जा, भोयणे परिनिट्ठिए।
लद्धे पिंडे आहरिज्जा, अलद्धे नाणुतप्पए । वृ. 'परेषु' इति गृहस्थेषु 'ग्रासं' कवलम्, अनेन च मधुकरवृत्तिमाह, ‘एपयेद्' गवेषयेत् भुज्यत इति भोजनम्-ओदनादि तस्मिन् 'परिनिष्ठिते' सिद्धे, मा भूत्प्रथमगमनात्तदर्थं पाकादिप्रवृत्तिः, ततश्च ‘लब्धे' गृहिभ्यः प्राप्ते 'पिण्डे' आहारे 'अलब्धे वा' अप्राप्ते वा नानुतप्येत संयतः, तद्यथा-अहो! ममाधन्यता यदहं न किञ्चिल्लभे, उपलक्षणत्वाल्लब्धे वा लब्धिमानहमिति न हृष्येत, यद्वा लब्धेऽप्यल्पेऽनिष्टे वा सम्भवत्येवानुताप इति सूत्रार्थः ।। किमालम्बनमालम्ब्य नानुतप्येतेत्याहमू.(८०) अज्जेवाहं न लब्भामि, अवि लाभो सुए सिया।
जो एवं पडिसंविक्खे, अलाभो तं न तज्जए। वृ. 'अद्यैव' अस्मिन्नेवाहन्यहं न लभे' न प्राप्नोमि, 'अपिः' सम्भावने, सम्भाव्यत एतत् 'लाभः' प्राप्तिः ‘श्व:' आगामिनि दिने 'स्याद्' भवेत्, उपलक्षणं श्व इत्यन्येधुरन्यतरेधुर्वा मा वा भूदित्यनास्थामाह, य ‘एवम्' उक्तप्रकारेण 'पडिसंविक्खे'त्ति प्रतिसमीक्षतेऽदीनमनाः अलाभमाश्रित्यालोचयति, अलाभ:' अलाभपरीपहाः तं 'न तर्जयति' नाभिभवति, अन्यथाभूतस्त्वभिभूयत इति भावः ।। अत्र लौकिकमुदाहरणम् - __ वासुदेवबलदेवसच्चगदारुगा अस्सवहिया अडवीए नग्गोहपायवस्स अहे रत्तिं वासोवगया, जामग्गहणं, दारुगस्स पढमो जामो, कोहो पिसायरूवं काऊण आगतो, दारुगं भणइ-आहारत्थोऽहं उवागओ, एए सुत्ते भक्खयामि युद्धं वा देहि, दारुगेण भणियं-बाढं, तेन सह संपलग्गो, दारुगो य तं पिसायं जहा जहा न सक्केइ निहणिउंतहा तहा रुस्सति, जहा जहा रुस्सइ तहा तहा सो कोहो वड्डति, एवं सो दारुगो किच्छपाणो तं जामगं निव्वाहेइ, पच्छा सच्चगं उटावेइ, सच्चगोऽवि तहेव पिसाएण किच्छपाणो कतो, ततिए जामे बलदेवं उट्ठवेइ, एवं बलदेवोऽवि चउत्थे जामे वासुदेवं उट्ठवेइ, वासुदेवो तेन पिसाएण तहेव भणितो,
वासुदेवो भणति-मं अनिज्जिउंकहं मम सहाए खाहिसि?, जुद्धं लग्गं, जहा जहा जज्झइ पिसाओ तहा तहा वासुदेवो अहो बलसंपुन्नो अयं मल्लो इति तूसए, जहा जहा तूसए तहा तहा पिसाओ परिहायति, सो तेन एवं खविओ जेन धेत्तुं उयट्टीए छूढो, पभाए पस्सए ते भिन्नजानुकोप्परे, केणंति पठ्ठा भणंति-पिसाएण, वासदेवो भणति-स एस कोवो पिसायरूवधारी मया पसंतयाए जितो, उयट्ठिणीए नीणेऊण दरिसिओ। इति सूत्रार्थः ।। __ सम्प्रति 'पुरे'तिद्वारं, 'पुरा' इति पूर्वस्मिन् काले कृतं कर्मेति गम्यते, तत्र च 'नानुतप्पेज्ज संजएत्ति' सूत्रावयवमर्थतः स्पृशन्नुदाहरणमाहनि.[ ११४-२] किसिपारासरढंढो अलाभए होइ आहरणं ।।
वृ.कृषिप्रधानः पारासरः कृषिपारासरो जन्मान्तरनाम्ना 'ढण्ढ' इति ढण्ढणकुमारः 'अलाभके' अलाभपरीपहे भवत्याहरणमिति गाथापश्चाीक्षरार्थः । भावार्थस्तु वृद्धसम्प्रदायादवसेयः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org