________________
अध्ययन-३, उद्देशकः - [नि. १८१]
८९ दानां हस्ती अपदानां पनस: अचित्तानां वैडूर्यरत्नं मिश्राणां तीर्थकर एव वैडूर्यादिविभूषितः प्रधान इत्यत एवचैतेषां महत्त्वमिति,प्रतीत्यमहआपेक्षिकम, तद्यथा-आमलकंप्रतीत्यमहबिल्वंप्रतीत्य कपित्थमित्यादि, भावमहत्रिविधं-प्राधान्यतः कालत आश्रयतश्चेति, प्राधान्यतः क्षायिको महान् मक्तिहेतत्वेन तस्यैव प्रधानत्वात, कालत: पारिणामिकः, जीवत्वाजीवत्व परिणामस्यानाद्यपर्यवसितत्वान्न कदाचिज्जीवाअजीवतया परिणमन्ते अजीवाश्च जीवतयेति, आश्रयतस्त्वौदयिकः,प्रभूत(संसारि)सत्त्वाश्रयत्वात्सर्वसंसारिणामेवासौ विद्यत इति, एतेषाम्'अनन्तरोदितानां महतां प्रतिपक्षे क्षुल्लकानि भवन्ति, अभिधेयवल्लिङ्गवचनानि भवन्ती'ति न्यायात् यथार्थं क्षुल्लकलिङ्गवचनमिति, __ तत्र नामस्थापने क्षुण्णे, द्रव्यक्षुल्लकः परमाणुः, द्रव्यं चासौ क्षुल्लकश्चेति, क्षेत्रक्षुल्लक आकाशप्रदेशः, कालक्षुल्लक: समयः, प्रधानक्षल्लकं त्रिविधम्-त्रिविधम्-सचित्ताचित्तमिश्रभेदात्, सचित्तं त्रिविधम्-द्विपदचतुष्पदापदभेदात्, द्विपदेषु क्षुल्लकाः प्रधानाश्चानुत्तरसुराः, शरीरेषु क्षुल्लकमाहारकम्, चतुष्पदेषु प्रधानः क्षुल्लकश्च सिंहः, अपदेषु जातिकुसुमानि, अचित्तेषु वज्रं प्रधानं क्षुल्लकं च, मिश्रेष्वनुत्तरसुरा एवशयनीयगता इति, प्रतीत्यक्षुल्लकंतु कपित्थंप्रतीत्य बिल्वंक्षुल्लकं बिल्वंप्रतीत्यामलकमित्यादि, भावक्षुल्लकस्तु क्षायिको भावः स्तोकजीवाश्रयत्वादितिगाथार्थः। इत्थं क्षुल्लकनिक्षेपमभिधायाधुना प्रकृतयोजनापुरःसरमाचारनिक्षेपमाह-प्रतीत्य यत् क्षुल्लकमुपदिष्टं तेनात्राधिकारः, यतो महतीखल्वाचारकथा धर्मार्थकामाध्ययनं तदपेक्षया क्षुल्लिकेयमिति। __आचारस्य तु चतुष्को निक्षेपः, स चायम-नामाचारः स्थापनाचारो द्रव्यचारो भावाचारश्च बोद्धव्य इति गाथाक्षरार्थः ।। भावार्थं तु वक्ष्यति, तत्र नामस्थापने क्षुण्णे, अतो द्रव्याचारमाहनामानधावनवासनशिक्षापनसुकरणाविरोधीनिद्रव्याणि यानि लोके तानिद्रव्याचारं विजानीहि। अयमत्र भावार्थ:-आचारणं आचार: द्रव्यस्याचारो द्रव्याचारः, द्रव्यस्य यदाचरणं तेन तेन प्रकारेण परिणमनमित्यर्थः, तत्र नामनमवनतिकरणमुच्यते, तत्प्रति द्विविधं द्रव्यं भवति-आचारवदनाचारवच्च, तत्परिणामयुक्तमयुक्तं चेत्यर्थः, तत्र तिनिशलतादि आचारवत्, एरण्डाद्यनाचारवत्, .. एतदुक्तं भवति-तिनिशलताद्याचरति तं भावं-तेन रूपेण परिणमति न त्वेरण्डादि, एवं सर्वत्र भावना कार्या, नवरमुदाहरणानि प्रदर्श्यन्ते-धावनंप्रति हरिदारक्तं वस्त्रमाचारवत् सुखेन प्रक्षालनात्, कृमिरागरक्तमनाचारवत् तद्भस्मनोऽपिरागानपगमात्, वासनं प्रति कवेलुकाद्याचारवत् सुखेनपाटलाकुसुमादिभिर्वास्यमानत्वात्, वैडूर्याद्यनाचारवत् अशक्यत्वात्, शिक्षणं प्रत्याचारवच्छुकसारिकादि सुखेन मानुषभाषासम्पादनात्, अनाचारवच्छकुन्तादि तदनुपपत्तेः, सुकरणं प्रत्याचारवत् सुवर्णादिसुखेन तस्य तस्य कटकादे: करणात् अनाचारवत् घण्टालोहादितत्रान्यस्य तथाविधस्य कर्तुमशक्यत्वादिति, अविरोधं प्रत्याचारवन्ति गुडदध्यादीनि रसोत्कर्षादुपभोगगुणाच्च, अनाचारवन्ति तैलक्षीरादीनि विपर्ययादिति, एवम्भूतानिद्रव्याणि यानि लोके तान्येव तस्याचारस्य तद्रव्याव्यतिरेकाद्रव्याचारस्य च विवक्षतत्वात्तथाऽऽचरणपरिणामस्य भावत्वेऽपि गुणाभावाद्रव्याचारं विजानीहिअवबुध्यस्वेति गाथार्थः।।
उक्तो द्रव्याचारः, साम्प्रतं भावा-चारमाहनि.[१८२] दंसणनाणचरित्ते तवआयारेयवीरियायारे। .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org