SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ दशवैकालिक-मूलसूत्र-३/-/१७ एसो भावायारो पंचविहो होइ नायव्वो॥ • नि.[१८३] निस्संकिय निक्कंखियनिव्वतिगिच्छा अमूढदिट्ठी । उववूह थिरीकरणे वच्छल्लपभावणे अट्ठ।। नि.[१८४] अइसेसइड्डियायरियवाइधम्मकहीखमगनेमित्ती। विज्जारागायणसंयमा यतित्थ पभाविति। नि.[१८५] काले विनए बहुमाणे उवहाणे तहय अनिण्हवणे। वंजणअत्थत्तदुभए अट्टविहो नाणमायारो॥ नि.[१८६] पणिहाणजोगजुत्तो पंचहिं समिईहिं तिहि य गुत्तीहिं। एस चरित्तायारो अविहो होइनायव्वो।। नि.[१८७] बारसविहम्मिवि तवेसभिंतरबाहिरेकुसलदिटे। ___ अगिलाइ अनाजीवी नायव्वो सो तवायारो॥ नि.[१८८] अनिगृहियबलविरियो परक्कमइ जो जहुत्तमाउत्तो। ___ झुंजइ अजहाथामं नायव्वो वीरियायारो॥ वृ.दर्शनज्ञानचारित्रदिष्वाचारशब्दः प्रत्येकमभिसम्बध्यते; दर्शनाचारो ज्ञानाचारश्चारित्राचारस्तपआचारो वीर्याचारश्चेति, तत्र दर्शनं सम्यग्दर्शनमुच्यते, नचक्षुरादिदर्शनं, तच्च क्षायापशमिकादिरूपत्वाद्भाव एव, ततश्च तदाचरणं दर्शनाचारइत्येवं शेषेष्वपि योजनीयं, भावार्थं तु वक्ष्यति-एष भावाचारः पञ्चविधो भवति ज्ञातव्यः, इति गाथाक्षरार्थः । अधुना भावार्थ उच्यतेतत्र 'यथोद्देशं निर्देश' इत्यादौ दर्शनाचारभावार्थः, दर्शनाचारश्चाष्टधा, तथा चाह गाथा'निस्संकी'त्यादि, नि:शङ्कित इत्यत्रशङ्काशङ्कितं निर्गतंशङ्कितंयतोऽसौ निःशङ्कित: देशसर्वशङ्कारहित इत्यर्थः, तत्र देशशङ्का समाने जीवत्वे कथमेको भव्योऽपरस्त्वऽभव्य इति शङ्कते, सर्वशङ्का तु प्राकृतनिबद्धत्वात्सकलमेवेदंपरिकल्पितं भविष्यतीति, न पुनरालोचति यथा-भावा हेतुग्राह्या अहेतुग्राह्याश्च, तत्र हेतुग्राह्या जीवास्तित्वादयः, अहेतुग्राह्या भव्यत्वादयः, अस्माद्यपेक्षया प्रकृष्टज्ञानगोचरत्वातए तद्धेतूनामिति, प्राकृतनिबन्धोऽपि बालादिसाधारणइति, उक्तञ्च. "बालस्त्रीमूढमूर्खाणां, नृणां चारित्रकाशिणाम्। अनुग्रहार्थतत्त्वज्ञैः, सिद्धान्तः प्राकृतः स्मृतः ।।" दृष्टेष्टाविरुद्धश्चेति, उदाहरणं चात्र पेयापेयकौ यथाऽऽवश्यके, ततश्च निःशङ्कितो जीव एवार्हच्छासनप्रतिपन्नो दर्शनाचारणात् तत्प्रभावात् मोक्षाभाव इति, एवं शेषपदेष्वपि भावना कार्येति । ___ तथा निष्कासितो-देशसर्वकाङ्करहितः, तत्र देशकाङ्क्षा एकं दर्शनं काङ्क्षति दिगम्बरदर्शनादि, सर्वकाङ्क्षा तु सर्वाण्येवेति, नालोचयतिषड्जीवनिकायपीडामसत्प्ररूपणांच, उदाहरणंचात्र राजामात्यौ यथाऽऽवश्यक इति २। __विचिकित्सा-मतिविभ्रम: निर्गता विचिकित्सा-मतिविभ्रमोयतोऽसौनिर्विचिकित्सः, साध्वेव जिनदर्शनं किन्तु प्रवृत्तस्यापि सतो ममास्मात्फलं भविष्यति न भविष्यतीति?, क्रियायाः कृषीबलादिषूभयोपलब्धेरिति विकल्परहितः, न ह्यविकल्प उपाय उपेयवस्तुपरिप्रापको न भवतीति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003331
Book TitleAgam Suttani Satikam Part 27 Dasvaikaalika
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy