________________
८८
दशवैकालिक-मूलसूत्र-२/-/१६ चक्षते-संबुद्धाः सामान्येन बुद्धिमन्तः पण्डिता वान्तभोगासेवनदोषज्ञाः प्रविचक्षणा अवद्यभीरव इति, किं कुर्वन्ति?-'विनिवर्तन्ते भोगेभ्यः' विविधम्-अनेकैः प्रकारैरनादिभवाभ्यासबलेन कदर्थ्यमाना अपि मोहोदयेन(वि)निवर्तन्ते भोगेभ्यो-विषयेभ्यः, यथा क इत्यत्राह-यथाऽसौ 'पुरुषोत्तमः' रथनेमिः । आह-कथं तस्य पुरुषोत्तमत्वं, यो हि प्रव्रजितोऽपि विषयाभिलाषीति?, उच्यते, अभिलाषेऽप्यप्रवृत्तेः, कापुरुषस्त्वभिलाषानुरूपं चेष्टत एवेति। अपरस्त्वाहदशवैकालिक नियत श्रुतमेव, यत उक्तम्
_ 'नायज्झयणाहरणा इसि भासियमो पइन्नयसुयाय।
एए होंति अनियया निययं पुण सेसमुस्सन्न।' तत्कथमभिनवोत्पन्नमिदमुदाहरणंयुज्यते इति?, उच्यते एवम्भूतार्थस्यैव नियतश्रुतेऽपि भावाद, उत्सन्नग्रहणाच्चादोषः, प्रायो नियतं न तु सर्वथा नियतमेवेत्यर्थः । ब्रवीमीति न स्वमनीषिकया किन्तु तीर्थकरगणधरोपदेशेन । उक्तोऽनुगमो, नया: पूर्ववदिति॥
अध्ययनं २ समाप्तम् । मुनि दीपरत्नसागरेण संशोधिता सम्पादिता दशवैकालिक सूत्रे द्वितीय अध्ययनं सनियुक्तिः सवृत्तिः समाप्तम्
(अध्यदनं-३ क्षुल्लिकाचारकथा - वृ-व्याख्यातं श्रामण्यपूर्वकाध्ययनमिदानी क्षुल्लिकाचारकथाख्यमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने धर्माभ्युपगमे सति मा भूदभिनवप्रव्रजितस्याधृतेः संमोह इत्यतो धृतिमता भवितव्यमित्युक्त, इह तु सा धृतिराचारे कार्या नत्वनाचारे, अयमेवात्मसंयमोपाय इत्येतदुच्यते, उक्तञ्च
__'तस्यात्मा संयतो यो हि, सदाचारे रतः सदा। .. स एव धृतिमान् धर्मस्तस्यैव च जिनोदितः॥" .. इत्यनेनाभिसम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि पूर्ववत्, नामनिष्पन्ने निक्षेपे क्षुल्लिकाचारकथेति नाम, तत्र क्षुल्लकनिक्षेपः कार्यः, आचारस्य कथायाश्च, महदपेक्षया चक्षुल्लकमित्यतश्चित्रन्यायप्रदर्शनार्थमपेक्षणीयमेव महदभिधित्सुराहनि.[१७९] नामंठवणादविएखेत्ते काले पहाण पइभावे।
एएसि महंताणं पडिवक्खे खुड्डया होति।। नि.[१८०] पइखुड्डएण पगयं आयारस्स उचउक्कनिक्खेवो।
नामठेवणादविए भावायारेयबोद्धव्वे॥ नि.[१८१] नामणधावणवासणसिक्खावणसुकरणाविरोहीणि।
दव्वाणि जाणिलोए दव्वायारंवियाणाहि।। वृ-नाममहन्मदिति नाम, स्थापनामहन्महदिति स्थापना, द्रव्यमहानचित्तमहास्कन्धः, क्षेत्रमहल्लोकालोकाकाशम्, कालमहानतीतादिभेद: सम्पूर्ण: कालः प्रधानमहत्रिविधम्-सचित्ताचित्तमिश्रभेदात्, सचित्तं त्रिविधम्-द्विपदचतुष्पदापदभेदात्, तत्र द्विपदानां तीर्थकरः प्रधान: चतुष्प
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org