________________
अध्ययनं - २, उद्देशक : - [ नि. १७८ ]
८५
विपाकालोचनादिना, क्व ?, कामेष्विति गम्यते, शब्दादयो हि विषया एव कामा इतिकृत्वा । एवं कृते फलमाह-'एवम्' अनेन प्रकारेण प्रवर्तमानः, किम् ? - सुखमस्यास्तीति सुखी भविष्यसि, क्व ? - संपराये' संसारे, यावदपवर्गं न प्राप्स्यसि तावत्सुखी भविष्यसि, 'संपराये' परीषहोपसर्गसंग्राम इत्यन्ते । कृतं प्रसङ्गेनेति सूत्रार्थः ।।
किं च संयमगेहान्मनस एवानिर्गमनार्थमिदं चिन्तयेत्, यदुतपक्खंदे जलियं जोई, धुमकेउं दुरासयं । नेच्छंति वंतयं भोत्तुं, कुले जाया अगंधने ॥
मू. [११]
वृ. ‘प्रस्कन्दन्ति' अध्ययवस्यन्ति 'ज्वलितं' ज्वालामालाकुलं न मुर्मुरादिरूपं, कम् ? - 'ज्योतिषम्' अग्निं 'धूमकेतुं' धूमचिह्न, धूमध्वजं नोल्कादिरूपं 'दुरासदं' दुःखेनासद्यतेऽभिभूयत इति दुरासदस्तं, दुरभिभवमित्यर्थः, चशब्दलोपात् न चेच्छन्ति न च वाञ्छन्ति 'वान्तं भोक्तुं' परित्यक्तमादातुं, विषमिति गम्यते, के ? - नागा इति गम्यते, किंविशष्टा इत्याह-कुले 'जाताः' समुत्पन्ना अगन्धने । नागानां हि भेदद्वयं गन्धनाश्चागन्धनाश्च, तत्थ गंधणा नाम जे डसिए मंतेहिं आकड्डिया तं विसं वणमुहाओ आवियंति, अगंधणाओ अवि मरणमज्झवस्संति न य वंतमावियंति । उदाहरणं द्रुमपुष्पिकायामुक्तमेव । उपसंहारस्त्वेवं भावनीयः - यदि तावत्तिर्यञ्चोऽप्यभिमानमात्रादपि जीवितं परित्यजन्ति न च वान्तं मुञ्जते तत्कथमहं जिनवचनाभिज्ञो विपाकदारुणान् न्विषयान् वान्तान् भोक्ष्ये ? इति सूत्रार्थः । अस्मिन्नेवार्थे द्वितीयमुदाहरणम्यदा किल अरिट्ठनेमी पव्वइओ तया रहनेमी तस्स जेट्ठो भाउओ राइमई उवयरइ, जइ नाम एसा ममं इच्छिज्जा, सावि भगवई निव्विन्नकामभोगा, नायं च तीए-जहा एसो मम अज्झोववण्णो, अन्नया य तीए महुघयसंजुत्ता पेज्जा पीया, रहनेमी आगओ, मयणफलं मुहे काऊण य तीए वंतं, भणियं च - एयं पेज्जं पियाहि, तेण भणियं - कहं वन्तं पिज्जइ ?, तीए भणिओ-जइ न पिज्जइ वंतं तओ अहंपि अरिट्ठनेमिसामिणा वंता कहं पिविउमिच्छसि ? ।
तथा ह्यधिकृतार्थसंवाद्येवाह
मू. [१२]
-
धिरत्थु ते जसोकामी, जो तं जीवियकारणा ।
वंतं इच्छसि आबेडं, सेयं ते मरणं भवे ॥
वृ. तत्र राजीमति: किलैवमुक्तवती - 'धिगस्तु' धिक्शब्दः कुत्सायाम्‘अस्तु' भवतु ‘ते’ तव, पौरुषमिति गम्यते, हे यशस्कामिन्निति सासूयं क्षत्रियामन्त्रणम्, अथवा अकारप्रश्लेषा - दयशस्कामिन्!, धिगस्तु तव यस्त्वं 'जीवितकारणात्' असंयमजीवितहेतोः वान्तमिच्छस्यापातुंपरित्यक्तां भगवता अभिलषसि भोक्तुम्, अत उत्क्रान्तमर्यादस्य 'श्रेयस्ते मरणं भवत्' शोभनतरं तव मरणं, न पुनरिदमकार्यासेवनमिति सूत्रार्थः ॥ तओ धम्मो से कहिओ, संबुद्धो पव्वइओ य, राईमईवि तं बोहेऊणं पव्वइया । पच्छा अन्नया कयाइ सो रहनेमी बारवईए भिक्खं हिंडिऊणं सामिसगासमागच्छन्तो वासवद्दलएण अब्भाहओ एक्कं गुहं अनुप्पविट्ठो । राईमईवि सामिणो वंदनाए गया, वंदित्ता पडिस्सयमागच्छइ, अंतरे य वरिसिउमाढत्तो, तिता य(भिन्ना) तमेव गुहमणुपविट्ठा - जत्थ सो रहनेमी, वत्थाणि य पविसारियाणि, ताहे तीए अंगपच्चंगं दिट्टं, सो रहनेमी तीए अज्झोववन्नो, दिट्टो अनाए इंगियागारकुसलाए य नाओ असोहणो भावो एयस्स ।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International