________________
अध्ययनं - २, उद्देशकः - [नि. १५४]
७५
निक्षेपश्चतुर्विधो भवति, 'आनुपूर्व्या' नामादिक्रमेण, नामस्थापने पूर्ववत्, द्रव्यश्रमणो द्विधाआगमतो नोआगमतश्च, आगमतो ज्ञाताऽनुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तोऽभिलापभेदेन द्रुमवदवसेयः, तं चानेनोपलक्षयति- 'दव्वे सरीरभविउ 'त्ति । भावश्रमणोऽपि द्विविध एव-आगमतो ज्ञातोपयुक्त: नोआगमतस्तु चारित्रपरिणामवान् यतिः, तथा चाह - भावतस्तु संयत: श्रमण इति गाथार्थः । अस्यैव स्वरूपमाह
नि. [१५५ ]
हममपियं दुक्खं जाणिय एमेव सव्वजीवाणं । हणावेइय सममणई तेन सो समणो ।
वृ. यथा मम न प्रियं दुःखं, प्रतिकूलत्वात्, ज्ञात्वैवमेव सर्वजीवानां, दुःखप्रतिकूलत्वम्, न हन्ति स्वयं न घातयत्यन्यैः, चशब्दाद घन्तं च नानुमन्यतेऽन्यम्, इत्यनेन प्रकारेण समम् अणतितुल्यं गच्छति यतस्तेनासौ श्रमण इति गाथार्थः ॥
नि. [१५६ ]
नथियसि कोइ वेसो पिओ व सव्वेसु चेव जीवेसु । एएण होइ समणो एसो अन्नोऽवि पज्जाओ ॥
वृ. नास्ति च 'सि' तस्य कश्चिद् द्वेष्यः प्रियो वा सर्वेष्वेव जीवेषु, तुल्यमनस्त्वात्, एतेन भवति सममनाः, समं मनोऽस्येति सममनाः, एषोऽन्योऽपि पर्याय इति गाथार्थः ॥ तो समणो जइ सुमणो भावेन य जइ न होई पावमणो । जय समो समय मानावमानेसु ॥
नि. [१५७]
वृ . तत: श्रमणो यदि सुमनाः, द्रव्यमनः प्रतीत्य, भावेन च यदि न भवति पापमनाः, एतत्फलमेव दर्शयति-स्वजने च जने च समः, समश्च मानापमानयोरिति गाथार्थः ॥
नि. [१५८ ]
उरगगिरिजलणसागरनहयलतरुगणसमो य जो होई ।
भमरमिगधरणिजलरुहरविपवणसमो जओ समणो ॥
वृ. उरगसमः परकृतबिलनिवासित्वादाहारनास्वादनात्संयमैदृष्टित्वाच्च, गिरिसमः परीषह-. पवनाकम्प्यत्वात्, ज्वलनसमः तपस्तेजः प्रधानत्वात् तृणादिष्विव सूत्रार्थेष्वतृप्तेः एषणीयाशनादौ चाविशेषप्रवृत्तिरिति, सागरसमो गम्भीरत्वाज्ज्ञानादिरत्नाकरत्वात् स्वमर्यादा- नतिक्रमाच्च, नभस्तलसमः सर्वत्र निरालम्बनत्वात् तरुगणसम: अपवर्गफलार्थिसत्त्वशकुनालयत्वात् वासीचन्दनकल्पत्वाच्च, भ्रमरसम: अनियतवृत्तित्वात्, मृगसमः संसारभयोद्विग्नत्वात्, धरणिसमः सर्वखेदसहिष्णुत्वात्, जलरुहसमः कामभोगोद्भवत्वेऽपि पङ्कजलाभ्यामिव तदूर्ध्ववृत्तेः, रविसमः धर्मास्तिकायादिलोकमधिकृत्य विशेषेण प्रकाशकत्वात्, पवनसमः अप्रतिबद्धहारित्वात्, इत्थमुरगादिसमश्च यतो भवति ततः श्रमण इति गाथार्थः ॥
प्र. [२]
विसतिणिसवायवंजुलकणियारुप्पलसमेण समणेणं । भमरुदुरुनडकुक्कुडअद्दागसमेण होयव्वं ॥
वृ. श्रमणेन विषसमेन भवित्व्यं भावतः सर्वरसानुपातित्वमधिकृत्य, तथा तिनिशसमेन मानपरित्यागतो नम्रेण, वातसमेनेति पूर्ववत्, वञ्जुलो-वेतसस्तत्समेन क्रोधादिविषाभिभूतजीवानां तदपनयनेन, एवं हि श्रूयते-किल वेतसमवाप्य निर्विषा भवन्ति सर्पा इति, कर्णिकारसमेनेति तत्पुष्पवत्प्रकटेन अशुचिगन्धापेक्षया च निर्गन्धेनेति, उत्पलसदृशेन प्रकृति-धवलतया सुगन्धि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org