________________
-
-
७६
दशवैकालिक-मूलसूत्र-२/-/६ त्वेनच, भ्रमरसमेनेति पूर्ववत्, उन्दुरुसमेन उपयुक्तदेशकालचारितया, नटसमेन तेषु तेषुप्रयोजनेषु तत्तद्वेषकरणेन, कुकुर्टसमेन संविभागाशीलतया, स हि किल प्राप्तमाहारं पादेन विक्षिप्यान्यैः सहभुक्तं इति, आदर्शसमेन निर्मलतया तरुणाद्यनुवृत्तिप्रतिबिम्बभावेनच
__ "तरुणमि होइ तरुणो थेरो थेरेहिं डहरए डहरो।
अदाओविवरूवं अनुयत्तइ जस्स जं सीलं॥" एवंभूतेन श्रमणेन भवितव्यमिति गाथार्थः ॥ इयं किल गाथा भिन्नकर्तृकि, अत: पवनादिषु न पुनरुक्तदोष इति॥
साम्प्रतं 'तत्त्वभेदपर्यायैर्व्याख्ये'ति न्यायाच्छ्रमणस्यैव पर्यायशब्दानभिधित्सुराहनि.[१५९] पव्वइए अनगारे पासंडे चरग तावसे भिक्खू।
___ परिवाइए य समणे निग्गंथे संजए मुत्ते॥ वृ.प्रकर्षेण वजितो-गतः प्रव्रजितः, आरम्भपरिग्रहादिति गम्यते, अगारं-गृहं तदस्यास्तीत्यगारोगृहीन अगारोऽनगारः, द्रव्यभावगृहरहित इत्यर्थः, पाखण्डं-व्रतं तदस्यास्तीति पाखण्डी, उक्तं च
"पाखण्डव्रतमित्याहुस्तद्यस्तास्त्यमलं भुवि।
सपाखण्डीवदन्त्यन्ये, कर्मपाशाद्विनिर्गत: (तम्)।" ___ चरतीति चरकः तपइति गम्यते, तपोऽस्यास्तीति तापसः, भिक्षणशीलोभिक्षुः भिनित्त वाऽष्टप्रकारकर्मेति भिक्षुः, परिसमन्तात्पापवर्जनेनव्रजति-गच्छतीति परिव्राजकः, चः समुच्चये, श्रमणः पूर्ववत्, निर्गतो ग्रन्थानिर्ग्रन्थः बाह्याभ्यन्तरग्रन्तरहित इत्यर्थः, सम्-एकीभावेनाहिंसादिषु यतःप्रयत्नवान् संयतः, मुक्तो बाह्याभ्यन्तरेण ग्रन्थेनैवेति गाथार्थः॥ नि.[१६०] तिने ताई दविए मुणी य खंते यदन्त विरए य।
लूहे ती?ऽविय हवंति समणस्स नामाइं॥ वृ.तीर्णवांस्तीरर्णः, संसारमिति गम्यते, त्रायत इतित्राता, धर्मकथादिना संसारदुःखेभ्य इति भावः, रागादिभावरहितत्वाद्रव्यम्, द्रवति-गच्छति ताँस्तान् ज्ञानादिप्रकारानिति द्रव्यम्, मुनिः पूर्ववत्, चः समुच्चये, क्षाम्यतीति क्षान्त:-क्रोधविजयी, एवमिन्द्रयादिदमना-द्दान्तः, विरत:प्राणातिपातादिनिवृत्तिः,स्नेहपरित्यागाद्र्क्षः, तीरेणार्थोऽस्येति तीरार्थी, संसार-स्येति गम्यते, तीरस्थो वा सम्यक्तवादिप्राप्तेः संसारपरिमाणात्, एतानि भवन्ति श्रमणस्य नामानि' अभिधानानीति गाथार्थः । निरूपितः श्रमणशब्दः, अधुना पूर्वशब्दश्चिन्त्यते-अस्य च त्रयोदशविधो निक्षेपः, तथा चाहनि.[१६१] नामं ठवणा दविए खेत्ते काले दिसि तावखेत्ते य।
पनवगपुव्ववत्थूपाहुडअइपाहुडे भावे॥ वृ.नामस्थापने क्षुण्णे, द्रव्यपूर्वम् अङ्कुराद्वीजं दध्नः क्षीरं फाणिाद्रस इत्यादि, क्षेत्रपूर्व यवक्षेत्राच्छालिक्षेत्रं, तत्पूर्वकत्वात्तस्य, अपेक्षया चान्यथाऽप्यदोषः, कालपूर्वं पूर्वः कालः शरदः प्रावृटुजन्या दिवस इत्यादि आवलिकाया वा समय इत्यादि, दिक्पूर्वं पूर्वा दिग्, इयं च रुचकापेक्षया, तापक्षेत्रपूर्वम्-आदित्योदयमधिकृत्य यत्र या पूर्वा दिक्, उक्तं च-"जस्स जओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org