SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ७४ दशवैकालिक-मूलसूत्र-१/-/५ तंसव्वनयविसुद्धं जंचरणगुणट्टिओ साहू।। वृ.'सर्वेषा'मिति मूलनयानामपिशब्दात्तभेदानां चद्रव्यास्तिकादीनां बहुविधवक्तव्यतां' सामान्यमेव विशेषा एव उभयमेव वाऽनपेक्षमित्यादिरूपाम्, अथवा नामादीनां नयानां कः कं साधुमिच्छातीत्यादिरूपां 'निशम्य' श्रुत्वा तत् 'सर्वनयविशुद्धं' सर्वनयसंमतं वचनं यच्चरणगुणस्थितः साधुः' यस्मात्सर्वनया एव भावविषयं निक्षेपमिच्छन्तीति गाथार्थः॥ .. नि.[१५२] दुमपुप्फियनिज्जुत्ती समासओवण्णिया विभासाए। जिनचउद्दसपुव्वी वित्थरेण कहयंती से अटुं॥ व्याख्यायाध्ययनमिदं प्राप्तं यत्कुशलमिहमया किञ्चित्। सद्धर्मलाभमखिलं लभतां भव्यो जनस्तेन॥ अध्ययनं-१ समाप्तम् मुनिदीपरत्नसागरेणसंशोधितासम्पादितादशवैकालिकसूत्रेप्रथम अध्ययनस्य भद्रबाहुस्वामि विरचिता नियुक्ति एवं हरिभद्रसूरिविरचिता टीका परिसमाप्ता (अध्ययनं-२ श्रामण्यपूर्व वृ-व्याख्यातं द्रुमपुष्पिकाध्ययनम्, अधुना श्रामण्यपूर्वकाख्यमारभ्यते, अस्य चायमभिसंबन्धः, इहानन्तराध्ययने धर्मप्रशंसोक्ता, सा चेहैवजिनशासन इति, इह तु तदभ्युपगमे सति मा भूदभिनवप्रव्रजितस्याधृतेः संमोह इत्यतो धृतिमता भवितव्यमित्येतदुच्यते, उक्तंच "जस्स धिई तस्सो तवो जस्स तवो तस्स सुग्गई सुलभा। ___ जे अधिइमंत पुरिसा तवोऽवि खलु दुल्लहो तेसिं॥" अनेनाभिसंबन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि पूर्ववत्, नवरंनामवदध्ययनविषयत्वादुपक्रकमादिद्वारकलापस्य व्याप्तिप्राधान्यतो नामनिष्पन्न निक्षेपमभिधित्सुराह नियुक्तिकार:नि.[१५३] सामण्णपुव्वगस्स उनिक्खेवो होइनामनिप्फन्नो। सामण्णस्स चउक्को तेरसगो पुव्वयस्स भवे॥ वृ.श्राम्यतीति श्रमणः, (श्राम्यति तपस्यति) तद्भावः श्रामण्यं, तस्य पूर्व-कारणं श्रामण्यपूर्व तदेव श्रामण्यपूर्वकमिति संज्ञायां कन्, श्रामण्यकारणंच धृतिः, तन्मूलत्त्वात्तस्य, तत्प्रतिपादकं चेदमध्ययनमिति भावार्थः । अतः श्रामण्यपूर्वकस्य तु निक्षेपो भवति नामनिष्पन्नः, कोऽसौ?अन्यस्याश्रुतत्त्वात् श्रामण्यपूर्वकमित्ययमेव, तुशब्दः सामान्यविशेषवन्नामविशेषणार्थः, श्रामण्यपूर्वकमिति सामान्ययम्, श्रामण्यं पूर्वं चेति विशेषः, तथा चाह- श्रामण्यस्य चतुष्ककस्त्रयोदशक: पूर्वकस्य भवेन्निक्षेप इति गाथार्थः॥ निक्षेपमेव विवृणोतिनि.[१५४] समणस्स उनिक्खेवो चउक्कओ होइ आनुपुव्वीए। ___दव्वे सरीरभविओ भावेन उसंजओ समणो॥ वृ.' श्रमणस्य तु' तुशब्दोऽन्येषां च मङ्गलादीनामिह तु श्रमणेनाधिकार इति विशेषणार्थः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003331
Book TitleAgam Suttani Satikam Part 27 Dasvaikaalika
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy