________________
७३
अध्ययनं-१, उद्देशकः - [नि.१५०] तावदपवर्गप्राप्ति: संजायते यावज्जीवाजीवाद्यखिलवस्तुपरिच्छेदरूपं केवलज्ञानं नोत्पन्नमिति, तस्माज्ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति स्थितम् इति जो उवएसो सो नओ नामं ति 'इति' एवमुक्तेन न्यायेन य उदपेशो-ज्ञानप्राधान्यख्यापनपरः स नयो नाम-ज्ञाननय इत्यर्थः, अयं च ज्ञानवचनक्रियारूपेऽस्मिन्नध्ययने ज्ञानरूपमेवेदमिच्छत्ति, ज्ञानात्मकत्वादस्य, वचनक्रिये तु तत्कार्यत्वात्तदायत्तत्वानेच्छति, गुणभूते चेच्छति इति गाथार्थः ।। उक्तो ज्ञाननयः, अधुना क्रियानयावसरः, तद्दर्शनं चेदम्-क्रियैव प्रधानं, ऐहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्त्वात्, तथा चायमप्युक्तलक्षणामेव स्वपक्षसिद्धये गाथामाह
नायंमि गिण्हियव्वे अगिण्हियव्वंमिचेव अत्थंमि।
जइयव्वमेव इहजो उवएसो सोनओ नामं॥ अस्याः क्रियानयदर्शनानुसारेण व्याख्या-ज्ञाते ग्रहीतव्ये अग्रहीतव्ये चैव अर्थे ऐहिकामुष्मिकफलप्राप्त्यर्थिना यतितव्यमेव, न यस्मात्प्रवृत्त्यादिलक्षणप्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यभिलषितार्थावाप्तिर्दश्यते, तथा चान्यैरप्युक्तम्
"क्रियैय फलदा पुंसां, न ज्ञानं फलदं मतम्।
- यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सखितो भवेत्॥" तथाऽऽमुष्मिकफलप्राप्तयर्थिनाऽपि क्रियैव कर्तव्या, तथा च मौनीन्द्रप्रवचनमप्येवमेव व्यवस्थितम्, यत उक्तम्
"चेइयकुलगणसंघेआयरियाणंच पवयणसुएय।
सव्वेसुवितेन कयंतवसंजममुज्जमतेणं॥" · इतश्चैतदेवमङ्गीकर्त्तव्यम्, यस्माीर्थकरगणधरैः क्रियाविकलाना ज्ञानमपि विफलमेवोक्तं, तथा चागमः
"सुबहुपि सुयमहीयं किं काही चरणविप्पमुक्कस्स? ।
अंधस्सजह पलिता दीवसयसहस्सकोडीवि॥१॥" दृशिक्रियाविकलत्वात्तस्येत्यभिप्रायः। एवं तावत्क्षायोपशमिकं चारित्रमङ्गीकृत्योक्तम्, चारित्रं क्रियेत्यनर्थान्तरम्, क्षायिकमप्यङ्गीकृत्य प्रकृष्टफलसाधकत्वं तस्यैव विज्ञेयम्, यस्मादर्हतोऽपि भगवतः समुत्पन्नकेवलज्ञानस्यापिनतावन्मुक्त्यवाप्ति: संजायते, यस्मा(याव)दखिलकर्मेन्धनानलभूता हूस्वपञ्चाक्षरोच्चारणमात्रकालावस्थायिनी सर्वसंवररूपा चारित्रक्रिया नावाप्तेति, तस्माक्रियैव प्रधानमैहिकामुष्मिकफलप्राप्ति कारणमिति स्थितम्। इति जो उवएसो सो नओ नामं'त्ति 'इति' एवमुक्तेन न्यायेन य उपदेशः किम् ?-क्रियाप्राधान्यख्यापनपरः स नयो नाम-क्रियानय इत्यर्थः । अयं च ज्ञानवचनक्रियारूपेऽस्मिनध्ययने क्रियारूपमेवेदमिच्छति, तदात्मकत्वादस्य, ज्ञानवचने तु तदर्थमुपादीयमानत्वादप्रधानत्वानेच्छति गुणभूते चेच्छतीति गाथार्थः॥ उक्तः क्रियानयः, इत्थं ज्ञाननयाक्रियानयस्वरूपं श्रुत्वाऽविदिततदभिप्रायो विनेयः संशयापन्नः सन्नाह-किमत्र तत्त्वं?, पक्षद्वयेऽपि युक्तिसंभवाद्, आचार्यः पुनराहअथवा ज्ञानक्रियानयमतं प्रत्येकमभिधायाधुना स्थितपक्षमुपदर्शयन् पुनराहनि.[१५१] सव्वेसिंपिनयाणंबहुविहवत्तव्वयंनिसामेत्ता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org