________________
७२
दशवैकालिक-मूलसूत्र-१/-/५ दसमो एस अवयवोपइन्नहेऊ पुणोवयणं ।। - वृ.यस्मादेवंतस्मात् 'सुरनराणां देवमनुष्याणांपूज्यत इति पूज्यस्तद्भावस्तस्मात् पूज्यत्वात् 'मङ्गलं' प्राग्निरूपितशब्दार्थं 'सदा' सर्वकालं 'धर्मः' प्रागुक्तः, 'दशम एषोऽवयव' इति सङ्ख्याकथनम्, किंविशिष्टोऽयमित्यत आह-'प्रतिज्ञाहेत्वोः पुनर्वचनं' पुनर्हेतुप्रतिज्ञावचनमिति गाथार्थः । उक्तं द्वितीयं दशावयवं, साधनाङ्गता चावयवानां विनेयापेक्षया विशिष्टप्रतिपत्तिजनकत्वेन भावनीयेति। उक्तोऽनुगमः, साम्प्रतं नया उच्यन्ते-तेच नैगमसंग्रहव्यवहारऋजुसूत्रशब्दसमभिरूद्वैवंभूतभेदभिन्नाः खल्वोधतः सप्त भवन्ति, स्वरूपं चैतषामध आवश्यकसामायिकाध्ययने न्यक्षेण प्रदर्शितमेवातो नेहप्रतन्यते, इह पुनः स्थानाशून्यार्थमेते ज्ञानक्रियानयद्वयान्तर्भावद्वारेण समासतः प्रोच्यन्ते-ज्ञाननयः क्रियानयश्च, तत्रज्ञाननयदर्शनमिदम्-ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात्, तथा चाह.. नि.[१५०] नायंमि गिण्हियव्वे अगिण्हियव्वंमिचेव अत्थंमि।
जइयव्वमेव इहजो उवएसो सोनओ नामं॥ वृ. 'णायंमि'त्ति ज्ञाते सम्पपरिच्छिन्ने 'गिण्हियव्वे'त्ति ग्रहीतव्य उपादेये 'अगिव्हियव्वमि'त्ति अग्रहीतव्येऽनुपादेये हेय इत्यर्थः, चशब्द: खलूमयोर्ग्रहीतव्याग्रहीतव्योतित्वानुकर्षणार्थः उपेक्षणीयसमुच्चयार्थो वा, एवकारस्त्ववधारणार्थः, तस्य चैवं व्यवहितः प्रयोगो द्रष्टव्यः-ज्ञान एव ग्रहीतव्ये तथाऽग्रहीतव्ये तथोपेक्षणीये चार्थे तुज्ञात एव नाज्ञाते, अत्थंमि'त्ति अर्थे ऐहिकामुष्मिके, तोहिको ग्रहीतव्यः स्त्रकचन्दनाङ्गनादि: अग्रहीतव्यो विषशस्त्रकण्टकादिः उपेक्षणीयः तृणादिः, आमुष्मिको ग्रहीतव्यः सम्यग्दर्शनादि: अग्रहीतव्यो मिथ्यात्वादिः उपेक्षणीयो विवक्षयाऽभ्युदयादिरिति, तस्मिन्नर्थे 'यतितव्यमेवे'त्ति अनुस्वारलोपाद्यतितव्यम्, एवम्-अनेन प्रक्रमेणैहिकामुष्मिकफलप्राप्तयर्थिना सत्त्वेन प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इत्यर्थः । इत्थं चैतदङ्गीकर्तव्यम्, सम्यगज्ञाने प्रवर्त्तमानस्य फलविसंवाददर्शनात्, तथा चान्यैरप्युक्तम्
"विज्ञप्तिः फलदा पुंसां, नक्रिया फलदा मता।
मिथ्याज्ञानात्प्रवृत्तस्य, फलप्राप्तेरसंभवात्॥" तथाऽऽमुष्मिकफलप्राप्त्यर्थिनापिज्ञात एवयतितव्यम्, तथा चागमोऽप्येवमेव व्यवस्थितः, यत उक्तम्
"पढमं नाणं तओ दया, एवं चिट्ठइ सव्वसंजए।
अन्नाणी किं काही?, किंवा णाहिति छेयपावगं? ॥" इतश्चैतदेवाङ्गीकर्त्तव्यं यस्मात्तीर्थकरगणधरैरगीतार्थानां केवलानां विहारक्रियाऽपिनिषिद्धा, तथा चागमः
"गीयत्थो य विहारो बीओ गीयत्थमीसिओ चेव।
इत्तो तइयविहारो नाणुनाओजिनवरेंहि॥" यस्मादन्धेनान्धः समाकृष्यमाणः सम्यक्पन्थानं न प्रतिपद्यत इत्यभिप्रायः । एवं तावतक्षायोपशमिकं ज्ञानमधिकृत्योक्तं, क्षायिकम(प्य)ङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयम्, यस्मादहतोऽपि भवाम्भोधितटस्थस्य दीक्षां प्रतिपन्नस्योत्कृष्टतपश्चरणवतोऽपि न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org