________________
६२
दशवैकालिक - मूलसूत्रं - १/-/३
-
यति गुणश्च संज्ञा च गुणसज्ञे गुणः - अन्वर्थ: संज्ञा पारिभाषिकी ताभ्यां सिद्धिः गुणसंज्ञासिद्धिः, सिद्धिशब्दः सम्बन्धवाचक:, तथा च लोकेऽपि "सिद्धर्भवतु " इत्युक्ते इष्टार्थसम्बन्ध एव प्रतीयत इति, तया गुणसंज्ञासिद्धया हेतुभूतया, किम् ? - 'द्विविधो' द्विप्रकारः, गुणसिद्धयाअन्वर्थसम्बन्धेन तथा संज्ञासिद्धया च यद्च्छाभिधानयोगेन च । आह-यद्येवं द्विविध इति न वक्तव्यम्, गुणसज्ञासिद्धयेत्यनेनैव द्वैविध्यस्य गतत्वात्, न, अनेनैव प्रकारेणेह द्वैविध्यं, आगमनो आगमादिभेदेन नेति ज्ञापनार्थमिति गाथार्थः ॥ तत्र 'यथोद्देशं निर्देश' इति न्यायमाश्रित्य सिद्धया यो भावविहङ्गमस्मभिधित्सुराहनि. [११९]
विमागासं भणइ गुणसिद्धि तप्पइट्ठिओ लोगो । तेन विहङ्गमो सो भावत्थो वा गई दुविहा ।।
वृ. विजहाति - विमुञ्चति जीवपुद्गलानिति विहं, ते हिस्थितिक्षयात्स्वयमेव तेभ्य आकाशप्रदेशेभ्यश्चयवन्ते, ताँश्च्यवमानान्विमुञ्चतीति, शरीरमपि च मलगण्डोलकादि विमुञ्चत्येव (इति) मा भूत् संदेह इत्यत आह- आकाशं भण्यते, न शरीरादि, संज्ञाशब्दत्वात्, आकाशन्तेदीप्यन्ते स्वधर्मोपेता आत्मादयो यत्र तदाकाशम्, किम् ? - संतिष्ठत इत्यादिक्रियाव्यपोहार्थमाह- 'भण्यते' आख्यायते, गुणसिद्धिरित्येतत्पदं गाथाभङ्गभयादस्थाने प्रयुक्तम्, संबन्धश्चास्य 'तेन तु विहंगमः स इत्यत्र तेन त्वित्यनेन सह वेदितव्य इति, ततश्चायं वाक्यार्थः - तेन तुशब्दस्यैवकारार्थत्वेनावधारणार्थत्वाद्येन विहमाकाशं भण्यते तेनैव कारणेन गुणसिद्धया- अन्वर्थसम्बन्धेन विहङ्गमः, कोऽभिधीयत ? इत्याह- 'तत्प्रतिष्ठितो लोकः ' तदित्यनेनाकाशपरामर्शः, तस्मिन्नाकाशे प्रतिष्ठितः तत्प्रतिष्ठितः, प्रतिष्ठिति स्म प्रतिष्ठितः - प्रकर्षण स्थितवानित्यर्थः, अनेन स्थितः स्थास्यति चेति गम्यते, कोऽसावित्थमित्यत आह-'लोकः ' लोक्यत इति लोकः, केवल - ज्ञानभास्वता दृश्यत इत्यर्थ:, इह धर्मादिपञ्चास्तिकायात्मकत्वेऽपि लोकस्याकाशास्ति - काया - स्याधारत्वेन निर्दिष्टत्वाच्चात्वार एवास्तिकाया गृह्यन्ते, यतो नियुक्तिकारेणाभ्यधायि - 'तत्प्रतिष्ठितो लोकः ', 'विहङ्गमः स' इत्यत्र विहे नभसि गतो गच्छति गमिष्यति चेति विहङ्गमः, गमिरय-मनेकार्थत्वाद्धातूनामवस्थाने वर्तते, ततश्च विहे स्थितवांस्तिष्ठति स्थास्यति चेति भावार्थ:, स इति - चतुरस्तिकायात्मकः, 'भावार्थ' इति भावश्चासावर्थश्च भावार्थ:, अयं भावविहङ्गम इत्यर्थः । उक्त एकेन प्रकारेण भावविहङ्गमः, पुनरपि गुणसिद्धिमन्येन प्रकारेणाभिधातुकाम आह- 'वागतिद्विविधे'ति, वाशब्दस्य व्यवहित उपन्यासः, एवं तु दृष्यव्यः - गतिर्वा द्विविधेति, तत्र गमनं गच्छति वाऽनयेति गतिः, द्वे विधे यस्याः सेयं द्विविधा, द्वैविध्यं वक्ष्यमाणलक्षणमिति गाथार्थः ॥ तथा चेदमेव द्वैविध्यमुपदर्शयन्नाह
नि. [१२०]
भावगई कम्मगई भावगइं पप्प अत्थिकाया उ ।
सव्वे विहंगमा खलु कम्मगईए इमे भेया ॥
वृ. भवन्ति भविष्यन्ति भूतवन्तश्चेति भावाः, अथवा भवन्त्येषु स्वगता उत्पादविगमध्रौ - व्याख्या: परिणामविशेषा इति भावा- अस्तिकायास्तेषां गतिः - तथापरिणामवृत्तिर्भावगतिः, तथा कर्मगतिरित्यत्र क्रियत इति कर्म-ज्ञानावरणादि पारिभाषिकम्, क्रिया वा, कर्म च तद्गतिश्चासौ कर्मगतिः, गमनं गच्छत्यनया वेति गतिः, तत्र 'भावगतिं प्राप्य अस्तिकाया - स्तु' इति अत्र
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International