________________
अध्ययनं-१, उद्देशकः - [नि.१२०] भावगतिः पूर्ववत्तां प्राप्य-अभ्युपगम्याश्रित्य, किम्? 'अस्तिकायास्तु' धर्मादयः, तुशब्द एवकारार्थः, स चावधारणे, तस्य च व्यवहितः प्रयोगः, भावगतिभेव प्राप्य न पुनः कर्मगति, सर्वे विहङ्गमाः खलु' सर्वे-चत्वारः नाकाशमाधारत्वात्, 'विहङ्गमा इति' विहं गच्छन्त्य-वतिष्ठन्ते स्वसत्तां बिभ्रतीति विहङ्गमाः, खलुशब्दोऽवधारणे, विहङ्गमा एव, न कदाचिन विहङ्गमा इति। 'कर्मगतेः' प्राग्निरूपितशब्दार्थायाः, किम्?- 'इमौ भेदौ' वक्ष्यमाणलक्षणाविति गाथार्थः ।।
तावेवोपदर्शयन्नाह- . नि.[१२१] विहगगई चलणगई कम्मगई उसमासओ दुविहा।
तदुदयवेययजीवा विहंगमा पप्प विहगगई। वृ.इह गम्यतेऽनया नामकर्मान्तर्गतया प्रकृत्या प्राणिभिरिति गतिः, विहायसि-आकाशे गतिविहायोगतिः, कर्मप्रकृतिरित्यर्थः, तथा चलनगतिरिति, चलिरयं परिस्पन्दने -वर्त्तते, चलनं स्पन्दमित्येकोऽर्थः, चलनं च तद्गतिश्च सा चलनगतिः-गमनक्रियेति भावः । कर्मगतिस्तु समासतो द्विविधेत्यत्र तुशब्द एवकारार्थः, स चावधारणे कर्मगतिरेव द्विविधा न भावगतिः, तस्या एकरूपत्वेन व्याख्यातत्वात्, तत्र 'तदुदयवेदकजीवा' इति, अत्र तदित्यनेना-न्तरनिर्दिष्टां विहायोगति निर्दिशति, तस्या-विहायोगते: उदयस्तदुदयो विपाक इत्यर्थः, तथा वेदयन्तिनिर्जरयन्ति उपभुञ्जन्तीति वेदकाः तदुदयस्य वेदकाश्च तेजीवाश्चेति समासः, आह-तदुदयवेदका जीवा एव भवन्तीति विशेषणानर्थक्यम्, न, जीवानां वेदकत्वावेदकत्वयोगेन सफलत्वात्, अवेदकाश्च सिद्धा इति । 'विहङ्गमाः प्राप्य विहायोगति'मिति, अत्र विहे विहायोगतेरुदयादुद्गच्छन्तीति विहङ्गमाः, 'प्राप्य' आश्रित्य, किं प्राप्य ?-'विहायोगितिम्' विहायोगतिरुक्ता तां, विपर्यस्तान्यक्षराण्येवं तु द्रष्टव्यानि-विहायोगति प्राप्य तदुदयवेदकजीवा विहङ्गमा इति - गाथार्थः ।। अधुना द्वितीयकर्मगतिभेदमधिकृत्याहनि.[१२२] चलनकम्मगई खलु पडुच्च संसारिणो भवे जीवा।
पोग्गलदव्वाइंवा विहंगमा एस गुणसिद्धी॥ वृ. चलनं-स्पन्दनं, तेन कर्मगतिविशेष्यते, कथम् ?-चलनाख्या या कर्मगतिः सा चलनकर्मगतिः, एतदुक्तं भवति-कर्मशब्देन क्रियाऽभिधीयते, सैवगतिशब्देन सैवचलनशब्देन च। तत्र गतेविशेषणं क्रिया क्रियाविशेषणंचलनम्। कुतः?-व्यभिचाराद्, इहगतिस्तावन्नरकादिका भवति अतः क्रियया विशेष्यते, क्रियाऽप्यनेकरूपा भोजनादिका ततश्चलनेन विशेष्यते, अतश्चलनाख्या कर्मगतिश्चलनकर्मगतिस्ताम्, अनुस्वारोऽलाक्षणिकः, खलुशब्द एवकारार्थः, सचावधारणे, चलनकर्मगतिमेव, न विहायोगति, 'प्रतीत्य' आश्रित्य, किम्?-संसरणं संसारः, संसरणं ज्ञानावरणादिकर्मयुक्तानां गमनं, स एषामस्तीति संसारिणः, अनेन सिद्धानांव्युदासः, 'भवे' इति, अयंशब्दो भवेयुरित्यस्यार्थे प्रयुक्तः, जीवा' उपयोगादिलक्षणाः। ततश्चायं वाक्यार्थःचलनकर्मगतिमेव प्रतीत्य संसारिणो भवेयुर्जीवा विहङ्गमा इति, विहंगच्छन्ति-चलन्ति सर्वैरात्मप्रदेशैरिति विहङ्गमाः। ..
तथा 'पुद्गलद्रव्याणि वे'त्यादि, पूरणगलनधर्माण: पुद्गलाः, पुद्गलाश्च ते द्रव्याणि च तानि पुद्गलद्रव्याणि, द्रव्यग्रहणं विप्रतिपत्तिनिरासार्थम्, तथा चैते पुद्गलः कैश्चिदद्रव्याः सन्तोऽभ्यु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org