________________
अध्ययनं-१, उद्देशकः - [नि. ११७]
वृ-'एवम्' अनेन प्रकारेण 'एते' येऽधिकृताः प्रत्यक्षेणा वा परिभ्रमन्तो दृश्यन्ते, श्राम्यन्तीति श्रमणाः, तपस्यन्तीत्यर्थः, एते च तत्रान्तरीयाअपि भवन्ति, यथोक्तम्-"निग्गंथसक्कतावसगेरुयआजीव पंचहा समणा" अत आह- 'मुक्ता' बाह्याभ्यन्तरेण ग्रन्थेन, ये 'लोके' अर्धतृतीयद्वीपसमुद्रपरिमाणे 'सन्ति' विद्यन्ते, अनेन समयक्षेत्रे सदैव विद्यन्त इत्येदाह, साधयन्तीति - साधवः, किं साधयन्ति? -ज्ञानादीति गम्यते। अत्राह-ये मुक्तास्ते साधवएवेत्यत इदमयुक्तम्, अत्रोच्यते, इह व्यवहारेण निह्नवा अपि मुक्ता भवन्त्येव न च ते साधव इति तद्वयवच्छेदार्थत्वान्न दोषः । आह-न च ते 'सदैवसन्ती' त्यनेनैव व्यवच्छिन्ना इति, उच्यते, वर्तमानतीर्थापेक्षयैवेदं सूत्रमिति न दोषः, अथवा-अन्यथा व्याख्यायते-ये लोके सन्ति साधव इत्यत्र य इत्युद्देशः, लोक इत्यनेन समयक्षेत्र एव नान्यत्र, किम्?-शान्तिः-सिद्धिरुच्यते तां साधयन्तीति शान्तिसाधवः, तथा चोक्तं नियुक्तिकारेण-"संति विज्जंतित्तिय संतिसिद्धिव साहेति" इदं व्याख्यातमेव। 'विहंगमा इव' भ्रमरा इव पुष्पेषु, किम्?-'दानभक्तैषणासुरताः' दानग्रहणाद्दत्तं गृह्यन्ति नादत्तम्, भक्तग्रहणेन तदपि भक्तं प्रासुकं न पुनराधाकर्मादि, एषणाग्रहणेन गवेषणादित्रयपरिग्रहः, तेषु स्थानेषु 'रताः' सक्ता इति सूत्रसासार्थः । अवयवार्थं सूत्रस्पर्शिकनियुक्त्या प्रतिपादयति-तत्रापि च विहङ्गमं व्याचष्टे-स द्विविधः-द्रव्यविहङ्गमो भावविहङ्गमश्च।
तत्र तावद्रव्यविहङ्गमं प्रतिपादयत्राहनि.[११८] धारेइ तंतु दव्वंतं दव्वविहङ्गमं वियाणाहि।
भावे विहंगमो पुन गुणसन्नासिद्धिओदुविहो। वृ. 'धारयति' आत्मनि लीनं धत्ते तत्तु 'द्रव्य' मित्यनेन पूर्वोपावं कर्म निर्दिशति, येन हेतुभूतेन विहङ्गमेषूत्पत्स्यत इति, तुशब्द एवकारार्थः, अस्थानप्रयुक्तश्च, एवंतु द्रष्टव्य:धारयत्येव, अनेन च धारयत्येव यदा तदा द्रव्यविहङ्गमो भवति नोपभुंक्त इत्येतदावेदितं भवति, द्रव्यमिति चात्र कर्मपुद्गलद्रव्यं गृह्यते, न पुनराकाशादि, तस्यामूर्त्तत्वेन धारणायोगात्, संसारिजीवस्य च कथञ्चिन्मूर्तत्वेऽपि प्रकृतानुपयोगित्वात्, तथाहि-यदसौ भवान्तरं नेतुमलं यच्च विहङ्गमहेतुतां प्रतिपद्यते तदत्र प्रकृतं न चैवमन्यः संसारिजीव इति, 'तं द्रव्यविहङ्गम' मित्यत्र यत्तदोर्नित्वाभिसंबन्धादन्यतरोपादानेनान्यतरपरिग्रहादयं वाक्यार्थ उपजायते-धारयत्येव तद्रव्यं यस्तं द्रव्यविहङ्गममिति, द्रव्यं च तद्विहङ्गमश्च स इति द्रव्यविहङ्गमः, द्रव्यंजीवद्रव्यमेव, विहङ्गम-पर्यायेणाऽऽवर्तनाद्, विहङ्गमस्तु कारणे कार्योपचारादिति, तं 'विजानीहि' अनेकैः प्रकारैरागमतो ज्ञाताऽनुपयुक्त इत्येवमादिभिर्जानीहि भावेविहङ्गम' इत्यत्रायं भावशब्दो बह्वर्थः, क्वचिद्रव्यवाचकस्तद्यथा 'नासओ भुवि भावस्स, सद्दोहवइ केवलो' भावस्य-द्रव्यस्य वस्तुन इति गम्यते, क्वचिच्छुक्लादिष्वपिवर्त्तते- "जं जं जे जे भावे परिणमइ" इत्यादि यान २ शुक्लादीन् भावानिति गम्यते, कचिदौदयिकादिष्वपि वर्तते यथा-'ओदइए ओवसमिए' इत्याधुक्ता ‘छव्विहो भावलोगो उ' औदयिकादय एव भावा लोक्यमानत्वाद् भावलोक इति, तदेवमनेकार्थवृत्तिः सन्नौदयिकादिष्वेव वर्तमान इह गृहीत इति, भवनं भावः भवन्त्यस्मिन्निति वा भावः तस्मिन् भावे-कर्मविपाकलक्षणे, किम् ?-'विहङ्गमो' वक्ष्यमाणशब्दार्थः, पुनःशब्दो विशेषणे, न पूर्वस्मादत्यन्तमयमन्य एव जीवः, किंतु स एव जीवस्त एव पुद्गलास्तथाभूता इति विशेष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org