________________
दशवैकालिक-मूलसूत्र-१/-/२ पुनर्गृहस्थाः तत्रापि रात्रौ 'आदरतरेणं अत्यादरेण राध्यन्ति, श्रमणैः सुविहितैश्चतुर्विघाहारविरतैः सद्भिरिति गाथात्रयार्थः ॥ किंचनि.[११४] अत्थि बहुगामनगरा समणा जत्थन उवेंतिन वसंति।
तत्थविरति गिही पगई एसा गिहत्थाणं॥ वृ.सन्ति बहूनि ग्रामनगराणि तेषु तेषु देशेषु ' श्रमणाः' साधवो यत्र नोपयान्ति अन्यतो, न वसन्ति तत्रेव, अथ च तत्रापि राध्यन्ति गृहिणः, अतः प्रकृतिरेषा गृहस्थानामिति गाथार्थः॥
अमुमेवार्थं स्पष्टयन्नाहनि.[११५] पगई एस गिहीणं जं गिहिणो गामनगरनिगमेसुं।
रंधंति अप्पणो परियणस्स कालेण अट्ठाए। वृ.प्रकृतिरेषा गृहिणां वर्तते यद्गृहिणो ग्रामनगरनिगमेषु, निगमः-स्थानविशेषः, राध्यन्ति आत्मनः परिजनस्य अर्थाय' निमित्तं कालेनेति योग इति गाथार्थः॥ नि.[११६] तत्थसमणा तवस्सी परकडपरनिट्ठियं विगयधूम।
आहारंएसंति जोगाणं साहणट्ठाए॥ वृ.तत्र श्रमणाः 'तपस्विन' इति उद्यतविहारिणो नेतरे, परकृतपरनिष्ठितमिति, कोऽर्थः?परार्थंकृतम्-आरब्धं परार्थंच निष्ठितम्-अन्तं गतं, विगतधूमम्-धूमरहितम्, 'एकग्रहणे तज्जातीयग्रहण' मिति न्यायाद्विगताङ्गारं च रागद्वेषमन्तरेणेत्यर्थः, उक्तं च- "रागेण सइंगालं दोसेण सधूमगंवियाणाहि"'आहारम्' ओदनादिलक्षणम् 'एषन्ते' गवेषन्ते, किमर्थम्? अत्राह योगानां' मनोयोगादीनां संयमयोगानां वा साधनार्थं, न तु वर्णाद्यर्थमिति गाथार्थः।। प्र.[१] नवकोडीपरिसुद्ध उग्गमउप्पायणेसणासुद्धं।
छट्ठाणरक्खणट्ठा अहिंसअनुपालणट्ठाए। वृ. इयं च किल भिन्नकर्तृकी, अस्या व्याख्या-नवकोटीपरिशुद्धम्, तत्रैता नव कोट्यः, यदुत-न हणइ १ न हणावेइ २ हणंतं नानुजाणइ ३, एवं न किणइ ३, एवं न पयई ३, एताभिः परिशुद्धं, तथा उद्गमोत्पादनैषणाशुद्धमिति, एतद्वस्तुतः सकलोपाधिविशुद्धकोटिख्यापनमेव, एवम्भूतमपि किमर्थं मुञ्जते?-षट्स्थानरक्षणार्थम्, तानि चामूनि
_ 'वेयणवेयावच्चे इरियट्ठाए यसंजमट्ठाए।
तह पाणवत्तियाए छटुं पुन धम्मचिंताए॥' अमून्यपिच भवान्तरे प्रशस्तभावनाभ्यासादहिसानुपालनार्थम्, तथा चाह__ "नाहारत्यागतोऽभावितमतेदेहत्यागो भवान्तरेऽप्यहिंसायै भवती" तिगाथार्थः॥ नि.[११७] दिटुंतसुद्धि एसा उवसंहारो यसुत्तनिट्ठिो। .
संति विज्जंतित्ति य संतिसिद्धिं न साहेति॥ वृ.दृष्टान्तशुद्धिरेषा, प्रतिपादिता, 'उपसंहारस्तु' उपनयस्तु 'सूत्रनिर्दिष्टः' सूत्रोक्तः तच्चेदं सूत्रम्मू.(३) एमेए समणा मुत्ता, जे लोए संति साहुणो।
विहंगमाव पुप्फेसु, दानभत्तेसणेरया॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org