SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ अध्ययनं -१, उद्देशक: - [नि. १०५ ] गाथार्थः ॥ अत्रोत्तरमाह नि. [१०६ ] तं न भवइ जेन दुमा नामागोयस्स पुव्वविहियस्स । उदणं पुप्फफलं निवत्तयंती इमं चऽन्नं ॥ वृ. यदुक्तं परेण तन्न भवति, कुत इत्याह-येन द्रुमा नामगोत्रस्य कर्मण: 'पूर्वविहितस्य' जन्मान्तरोपात्तस्य ‘उदयेन' विपाकानुभवलक्षणेन पुष्पफलं 'निर्वर्तयन्ति' कुर्वन्ति, अन्यथा सदैव तद्भावप्रसङ्ग इति भावनीयम् । इदं चान्यत्कारणं, वक्ष्यमाणमिति गाथार्थः ॥ नि. [१०७] अत्थि बहू वनसंडा भमरा अत्थ न उवेंति न वसंति । तत्थऽपि पुण्यंतिदुमा पगई एसा दुमगणाणं ॥ नि. [१०८] .वृ. सन्ति बहूनि वनखण्डानि तेषु तेषु स्थानेषु, भ्रमरा यत्र नोपयान्ति अन्यतः, न वसन्ति तेष्वेव तथापि पुष्प्यान्ति द्रुमाः, अतः 'प्रकृतिरेषा' स्वभाव एष द्रुमगणानामिति गाथार्थः ॥ जइ पगई कीस पुणो सव्वं कालं न देंति पुप्फफलं । जं काले पुप्फफलं दयंति गुरुराह अत एव ॥ पगई एस दुमाणं जं उउसमयम्मि आगए संते । पुप्फंति पायवगणा फलं च कालेन बंधंति ॥ नि. [१०९] वृ. यदि प्रकृतिः किमिति पुनः सर्वकालं 'न ददति' न प्रयच्छन्ति, किम् ? पुष्पफलम् ?, एवमाशङ्कयाह-यद्-यस्मात्काले नियत एव पुष्पफलं ददति, गुरुराह अत एव अस्मादेव हेतोः ।। प्रकृतिरेषा द्रुमाणां यद् 'ऋतुसमये' वसन्तादावागते सति पुष्यन्ति 'पादपगणा' वृक्षसङ्घाता: तथा फलं च कालेन बघ्नन्ति, तदर्थानभ्युपगमे तु नित्यप्रसङ्ग इति गाथाद्वयार्थः । साम्प्रतं प्रकृतेऽप्युक्तार्थयोजनां कुर्वन्नाह नि. [११०] किं नु गिही रंघंती समणाणं कारणा अहासमयं । मासमणा भगवंतो किलामएज्जा अनाहारा ॥ वृ. किं न गुहिणो 'राध्यन्ति' पाकं निर्वर्तयन्ति श्रमणानां कारणेन यथाकालं ?, 'मा श्रमणा भगवन्तः क्लामन्ननाहारा' इति पूर्ववदिति गाथार्थः । न चैतदित्थमित्यभिप्रायः । अत्राहनि [१११] समणऽनुकंपनिमित्तं पुण्णनिमित्तं च गिहनिवासी उ । नि. [११२] नि. [११३] वृ. श्रमणेभ्योऽनुकम्पा श्रमणानुकम्पा तन्निमित्तम्, न ह्येते हिरण्यग्रहणादिना अस्माकमनुकम्पां कुर्वन्तीति मत्वा भिक्षादानार्थं पाकं निर्वर्तयन्त्यता: श्रमणानुकम्पानिमित्तं, तथा सामान्येन पुण्यनिमित्तं च गृहनिवासिन एव कश्चिद् ब्रूयात्पाकं कुर्वन्ति, स भण्यते - नैतदेवम्, कुतः ? - यस्मात् 'कान्तारे' अरण्यादौ 'दुर्भिक्षे' अन्नाकाले 'आतङ्के वा' ज्वरादौ महति समुत्पन्ने सति रात्रौ श्रमणाः 'सुविहिता: ' शोभनानुष्ठानाः किम् ? - 'सर्वाहारम्' ओदनादि न भुज्जते ॥ अथ किमिति For Private & Personal Use Only Jain Education International ५९ कोइ भणिज्जा पागं करेंति सो भण्णइ न जम्हा ॥ कतारे दुब्भिक्खे आयंके वा महइ समुप्पन्ने । रति समणसुविहिया सव्वाहारं न भुंजंति ॥ अह कीस पुण गिहत्था रत्ति आयतरेण रंधति । समणेहिं सुविहिएहिं चउव्विहाहारविरएहि ? | , www.jainelibrary.org
SR No.003331
Book TitleAgam Suttani Satikam Part 27 Dasvaikaalika
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy