SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ५८ दशवैकालिक-मूलसूत्रं-१/-/२ न य रुक्खा सयसाला फुल्लन्ति कए महुयराणं ।। वृ.वर्षति न तृणस्य कृते, न तृणार्थमित्यर्थः, तथा न तृणं वर्धते कृते मृगकुलानाम्अर्थाय तथा नच वृक्षाः शतशाखाः पुष्प्यन्ति कृते' अर्थाय मधुकराणाम्, एवं गृहिणोऽपि न साध्वर्थ पाकं निवर्तयन्तीत्यभिप्राय इति गाथार्थः ।। अत्र पुनरप्याहनि.[१०१] अग्ििग्म्म हवी हूयइ आइच्चो तेन पीणिओ संतो। वरिसइ पयाहियाए तेनोसहिओ परोहंति।। वृ.इह यदुक्त 'वर्षति न तृणार्थ' मित्यादि, तदसाधु, यस्मादग्नौ हविहूयते, आदित्यः 'तेन' हविषा घृतेन प्रीणितः सन वर्षति, किमर्थम् ?-'प्रजाहितार्थ' लोकहिताय, 'तेन' वर्षितेन, किम्?, औषध्यः 'प्ररोहन्ति' उद्गच्छन्ति, तथा चोक्तम् - "अग्नावाज्याहुतिः सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिवष्टेरनं ततः प्रजाः।।" इति गाथार्थः ।। अधुनैतत्प-रिहारायेदमाहनि.[१०२] किं दुब्भिक्खं जायइ? जइ एवं अह भवे दुरिटुंतु। किं जायइ सव्वत्था दुब्भिक्खं अह भवे इंदो?॥ नि.[१०३] वासइ तो किं विग्धं निग्धार्याईहिं जायए तस्स। अहवासइ उउसमए नवासई तो तणट्ठाए। .. वृ.किंदुर्भिक्षं जायते यद्येवम्?, कोऽभिप्रायः?-तद्धवि: सदाहूयत एव, ततश्च कारणाविच्छेदे न कार्यविच्छेदो युक्त इति, अथ भवेद् 'दुरिष्टं तु' दुर्नक्षत्रं दुर्यजनं वा, अत्राप्युत्तरमकिं जायते सर्वत्र दुर्भिक्षं?, नक्षत्रस्य दुरिष्टस्य वा नियतदेशविषयत्वात्, सदैव सद्यज्वनां भावात्, उक्तंच "सदैवदेवाः सद्भवो, ब्राह्मणाश्च क्रियापराः। यतयः साधवश्चैव, विद्यन्ते स्थितिहेतवः॥" इत्यादि, अथ भवेदिन्द्र इति, किम्?, वर्षति, ततः किं 'विघ्नः' अन्तरायो निर्घातादिभिर्जायते?,आदिशब्ददिग्दाहादिपरिग्रहः, 'तस्य' इन्द्रस्य, परमैश्वर्ययुक्तत्वेन विघ्नानुपपत्तेरिति भावना, अथवर्षति ऋतुसमये गर्भसङ्घात इति वाक्यशेषः, न वर्षति ततस्तृणार्थ, तस्येत्थम्भूतस्याभिसन्धेरभावादिति गाथाद्वयार्थः॥ किंचनि.[१०४] किं च दुमा पुर्पति भमराणं कारणाअहासमयं। मा भमरमहुयरिंगणा किलामएज्जा अनाहारा॥ वृ.किं चद्रुमाः पुष्प्यन्ति भ्रमराणां कारणात्' कारणेन यथासमयं यथाकालं मा भ्रमरमधुकरीगणा: 'क्लामन्' (क्लामिषुः) ग्लानि प्रतिपद्येरन्, 'अनाहारा' अविद्यामानाहारा: सन्तः, काक्वा नैवैतदित्थमिति गाथार्थः॥ साम्प्रतं पराभिप्रायमाहनि.[१०५] कस्सइ बुद्धी एसा वित्ती उवकप्पिया पवावइणा। सत्ताणं तेन दुमा पुष्प॑ति महुयरिंगणट्ठा।। वृ.अथ 'कस्यचिद्बुद्धिः' कस्यचिदभिप्रायः स्याद्यदुत-एषा वृत्तिरुपकल्पिता, केन?प्रजापतिना, केषाम्?- 'सत्त्वानां' प्राणिनां तेन कारणेन द्रुमाः पुष्प्यन्ति मधुकरीगणार्थमेवेति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003331
Book TitleAgam Suttani Satikam Part 27 Dasvaikaalika
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy