________________
दशवैकालिक-मूलसूत्र-१/-/१ आत्मीयमेव यथातथं ते 'प्रशंसन्ति' स्तुवन्ति, ततश्च कथमेतदिति, अत्रोच्यते, 'नन्वि'त्यक्षमायां भणित' उक्तः पूर्व'सावद्यः' सपाप: 'कुतीथिकधर्मः' चरकादिधर्मः । कैः?-'जिनवरैः' तीर्थकरैः 'नजिनेहिंउपासत्थो' इति वचनात्, षड्जीवनिकायपरिज्ञानाद्यभावादेवेति, अत्रापि बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति गाथार्थः । तथानि.[९६] जो तेसु धम्मसद्दो सो उवयारेण निच्छएण इहं।
जह सीहसढुसीहे पाहण्णुवयारओऽन्नत्थ॥ व. यः 'तेषु' तत्रान्तरीयधर्मेषु धर्मशब्दः स 'उपचारेण' अपरमार्थेन, निश्चयेन 'अत्र' जिनशासने, कथम् ?--यथा सिंहशब्दः सिंहे व्यवस्थितः प्राधान्येन, 'उपचारतः' उपचारेण 'अन्यत्र' माणवकादौ, यथा सिंहो माणवकः, उपचारनिमित्तं चशौर्यक्रौर्यादयः धर्मे त्वहिंसाद्यभिधानादय इति गाथार्थः।। भा.[१] एस पइन्नासुद्धी हेऊ अहिंसाइएसुपंचसुवि।
सब्भावेण जयंती हेउविसुद्धी इमा तत्थ।। वृ. एषा' उक्तस्वरूपा प्रतिज्ञायाः शुद्धिः प्रतिज्ञाशुद्धिः, हेतुरहिंसादिषु पञ्चस्वपि सद्भावेन यतन्तइति, अयं च प्राग्व्याख्यात एव, शुद्धिमभिधातुकामेन च भाष्यकृता पुनरुपन्यस्त इति, अत एवाह-हे तोविशुद्धिर्हेतुविशुद्धिः, विषयविभाषाव्यवस्थापनं विशुद्धः, 'इमा' इयं 'तत्र' प्रयोग इति गाथार्थः ॥ भा.[२] जंभत्तपानउवगरणवसहिसयनासनाइसुजयंति।
फासुयअकयअकारियअणणुमयाणुद्दिट्ठभोईय॥ वृ. 'यद' यस्मात्, भक्तं च पानं चोपकरणं च वसतिश्च शयनासनादयश्चेति समासस्तेषु, किम्?-'यतन्ते' प्रयत्ने कुर्वन्ति, कथमेतदेवमित्यत्राह-यस्मात्प्रासुकं चाकृतंचाकारितंचाननुमतं चानुद्दिष्टं च तद्भोक्तुंशीलं येषां ते तथाविधाः, तत्रासवः-प्राणा: प्रगता असवः-प्राणा यस्मादिति प्रासुकं-निर्जीवम्, तच्चखकृतमपि भवत्यत आह-अकृतम्, तदपिकारितमपि भवत्यत आहअकारितम्, तदप्यनुमतमपि भवत्यत आह-अननुमतम्, तदप्युद्दिष्टमपि भवति यावार्थकादि न च तदिष्यत इत्यत आह-अनुद्दिष्टमिति। एतत्परिज्ञानोपायश्चोपन्यस्तसकलप्रदानादिलक्षणसूत्रादिवगन्तव्य इति गाथार्थः। तदन्ये पुनः किमित्यत आहभा.[३] अफासुयकयकारियअनुमयउद्दिट्ठभोइणो हंदि।
तसथावरहिंसाए जना अकुसला उलिप्पंति॥ वृ. अप्रासुककृतकारितानुमोदितोद्दिष्टभोजिनश्चरकादयः, हन्दीत्युपप्रदर्शने, किमुपप्रदर्शयति?-वसन्तीति त्रसाः-द्वीन्द्रियादयः तिष्ठन्तीति स्थावरा:-पृथिव्यादयः तेषां हिंसाप्राणव्यपरोपणलक्षणा तया 'जनाः' प्राणिनः ‘अकुशलाः' अनिपुणा: स्थूलमतयश्चरकादयो 'लिप्यन्ते' सम्बध्यन्त इत्यर्थः इह च हिंसाक्रि याजनितेन कर्मणा लिप्यन्त इति भावनीयम्, कारणे कार्योपचारात्, ततश्च ते शुद्धधर्मसाधका न भवन्ति साधव एव भवन्तीति गाथार्थः॥ भा.[४] एसा हेउविसुद्धी विटुंतो तस्सचेवय विसुद्धी।
सुत्ते भणिया उफुडा सुत्तफासे उइयमना ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org