________________
५५
अध्ययनं-१, उद्देशकः- [नि.९१] तद्विनेया गौतमादयः, आह-अर्हदादीनां परोक्षत्वात् दृष्टान्तत्वमेवायुक्तम्, कथं चैतद्विनिश्चियते ? यथा ते देवादिपूजिता इति, उच्यते यत्तावदुक्तं 'परोक्षत्वा'दिति, तदुष्टम्, सूत्रस्य तिकालगोचरत्वात् कदाचित्प्रत्यक्षत्वात्, देवादिपूजिता इति च एतद्विनिश्चयायाह-वृत्तम्अतिक्रान्तम् अनुवर्तमानेन-साम्प्रतकालभाविना ज्ञायते, कथमित्यत आह-'यद्' यस्माद् नरपतयोऽपि-राजानोऽपि प्रणमन्ति, इदानीमपि भावसाळू, ज्ञानादिगुणयुक्तमिति गम्यते। अनेन गुणानां पूज्यत्वमावेदितं भवतीतिगाथार्थः।। नि.[१२] उपसंहारो देवा जहतहरायाविपणमइ सुधम्म।
तम्हा धम्मो मंगलमुक्किट्ठमिइ अनिगमनं॥ . वृ. उपसंहारः' उपनयः, स चायम-देवा यथा तीर्थकरादीन् तथा राजाऽप्यन्योऽपि जन: प्रणमतीदानीमपि सुधर्माणमिति। यस्मादेवं तस्माद्देवादिपूजितत्वाद्धर्मो मङ्गलमुत्कृष्टमिति च निगमनम् । 'प्रतिज्ञाहेत्वोः पुनर्वचनं निगमन' मिति गाथार्थः ।। उक्तं पञ्चावयवम्, एतदभिधानाच्चाधिकारोऽपि धर्मप्रशंसा । साम्प्रतं दशावयवं तथा स चेहैव जिनशासन इत्यधिकारंचोपदर्शयति-इहचदशावयवाः-प्रतिज्ञादयएवप्रतिज्ञादिशद्धिसहिता भवन्ति। अवयवत्वं च तच्छुद्धीनामधिकृतवाक्यार्थोपकारकत्वेन प्रतिज्ञा दीनामिव भावनीयमिति, अत्र बहुवक्तव्यं, तत्तु नोच्यते, गमनिकामात्रत्वात् प्रारम्भस्येति।साम्प्रतमधिकृतदशावयवप्रतिपादनायाहनि.[९३] बिइयपइन्ना जिनसासणंमि साहेति साहवो धम्म।
हेऊ जम्हा सब्भाविएसुऽहिंसाइसु जयंति॥ वृ.द्वितीया पञ्चावयवोपन्यस्तप्रथमप्रतिज्ञापेक्षया, प्रतिज्ञा पूर्ववत्, द्वितीया चासौ प्रतिज्ञा च द्वितीयप्रतिज्ञा, सा चेयम्-'जिनशासने' जिनप्रवचने, किम् ?- 'साधयन्ति' निष्पादयन्ति 'साधवः' प्रव्रजिताः 'धर्म' प्राग्निरूपितशब्दार्थम् । इह च साधव इति धम्मिनिर्देशः, शेषस्तु साध्यधर्म इति, अयं प्रतिज्ञानिर्देशः । हेतुनिर्देशमहा-हेतुर्यस्मात् ‘साद्भाविकेषु' पारमार्थिकेषु निरुपचरितेषवर्थेष्वित्यर्थः अहिंसादिषु, आदिशब्दान्मृषावादादिविरतिपरिग्रहः, अन्ये तु व्याचक्षते-'सब्भाविएहि'त्ति सद्भावेन निरुपचरितसकलदुःखक्षयायैवेत्यर्थः 'यतन्ते' प्रयत्न कुर्वन्ति इति गाथार्थः॥साम्प्रतं प्रतिज्ञाशुद्धिमभिधातुकाम आहनि.[९४] जहजिनसासननिरया धम्मपालेंति शाहवो सुद्धं।
नकुतित्थिएसु एवंदीसइ परिवालणोवाओ।। वृ.'यथा' येन प्रकारेण जिनशासननिरता-निश्चयेन रता 'धर्म' प्राग्निरूपितशब्दार्थं पालयन्ति' रक्षन्ति साधवः' प्रव्रजिता: षड्जीवनिकायपरिज्ञानेन कृतकारितादिपरिवर्जनेन च शुद्धम्' अकलङ्क, नैवं तत्रान्तरीयाः, यस्मान्न कुतीथिकेषु, 'एवं' यथा साधुषु दृश्यते परिपालनोपायः, षड्जीवनिकायपरिज्ञानाद्य भावात्। उपायग्रहणं च साभिप्रायकम्, शास्त्रो-क्तः खलूपायोऽत्र चिन्त्यते, न पुरुषानुष्ठानं, कापुरुषा हि वितथकारिणोऽपि भवन्त्येवेति- गाथार्थः ।। अत्राहनि.[९५] तेसुविय धम्मसद्दो धम्मं निययं च ते पसंसंति।
ननु भणिओ सावज्जो कुतित्थिधम्मो जिनवरेहि।।. वृ. 'तेष्वपि च' तत्रान्तरीयधर्मेषु, किम् ?-धर्मशब्दो लोके रूढः, तथा धर्मं 'निजं च'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org