________________
अध्ययनं-१, उद्देशकः - [नि.६६]
वृ.पूर्वार्द्ध पूर्ववत्, पश्चार्द्धभावना पुनरियम्-न ह्येकान्तनित्यानित्यपक्षयोर्दष्टाऽपि द्रव्यादिसंक्रान्तिर्देवदत्तस्य युज्यते इत्यतस्तद्भावान्यथानुपपत्त्यैव परिणामसिद्धेरिति।
"नार्थान्तरगमो यस्मात्, सर्वथैवनचागमः। परिणामः प्रमासिद्ध, इष्टश्च खलु पण्डितैः ।।१।।
घटमौलिसुवर्णार्थी, नाशोत्पादस्थितिष्वयम्। शोकप्रमोदमाध्यस्थ्य, जनो याति सहेतुकम्।।२।।
पयोव्रतो नदध्यत्ति, न पयोऽत्ति दधिव्रतः।
अगोरसवतो नोभे, तस्माद्वस्तुत्रयात्मकम्॥३॥" इतिगाथाद्वयार्थः । उक्तमुपायद्वारमधुना स्थापनाद्वारमभिधित्सुराहनि.[६७] ठवणाकम्मं एकं दिटुंतो तत्थ पोंडरीअंतु।
___ अहवाऽवि सन्नढक्कणहिंगुसिवकयं उदाहरणं ।। वृ.स्थाप्यते इति स्थापना तया तस्यास्तस्यां वा कर्म-सम्यगभीष्टार्थप्ररूपणलक्षणा क्रिया स्थापनाकर्म, 'एक'मिति तज्जात्यपेक्षया 'दृष्टान्तो' निदर्शनं 'तत्र' स्थापनाकर्मणि 'पौण्डरीकं तु' तुशब्दात्तथाभूतमन्यच्च, तथा चपौण्डरीकाध्ययने पौण्डरीकं प्ररूप्य प्रक्रिययैवान्यमतनिरासेन स्वमतं स्थापितमिति, अथवेत्यादि पश्चार्द्ध सुगमम्, लौकिकं चेदमिति गाथाक्षरार्थः ।। भावार्थस्तु कथानकादवसेयः, तच्चेदम्-जहा एगम्मि नगरे एगो मालायारो सण्णाइओ करंडे पुप्फे घेत्तूण वीहीए एइ, सो अईव अच्चइओ, ताहे तेन सिग्धं वोसिरिऊणं सा पुष्फपिडिगा तस्सेव उवरि पल्हत्थिया, ताहे लोओ पुच्छइ-किमेयंति?, जेणित्थ पुष्पाणि छड्ढेसित्ति, ताहे सो भणइ-अहं आलोविओ, एत्थ हिंगुसिवो नामं, एतं तं वाणमंतरं हिंगुसिवं नाम उप्पन्न, लोएण परिग्गहियं, पूया से जाया, खाइगयं अज्जवि तं पाडलिपुत्ते हिंगुसिवं नाम वाणमंतरं। एवं जइ किंचि उडाहं पावयणीयं कयं होज्जा केनवि पमाएण ताहे तहा पच्छाएयव्वं जहा पच्चुनं पवयणुब्भावना हवइ।
__"संजाए उड्डाहे जह गिरिसिद्धेहिं कुसलवृद्धीहिं।
लोयस्स धम्मसद्धा पवयणवण्णेण सुट्टकया॥१॥" एवं तावच्चरणकरणानुयोगं लोकं चाधिकृत्य स्थापनाकर्म प्रतिपादितम्, अधुना द्रव्यानुयोगमधिकृत्योपदर्शयन्नाह__नि.[६८] सव्वभिचारं हेतुं सहसा वोत्तुं तमेव अन्नेहि।
उववूहइ सप्पसरंसामत्थंचऽप्पणो नाउं।। वृ.सह व्यभिचारेण वर्तत इति सव्यभिचारस्तं 'हेतु' साध्यधर्मान्वयादिलक्षणं 'सहसा' तत्क्षणमेव 'वोत्तुं' अभिधाय तमेव' हेतुम् 'अन्यैः' हेतुभिरेव उपबृहंते' समर्थयति सप्रसरम्' अनेकधा स्फारयन् ‘सामर्थ्य' प्रज्ञाबलम्, चशब्दो भिन्नक्रमः ‘आत्मनश्च' स्वस्य च 'ज्ञात्वा' विज्ञाय, चशब्दात्परस्य चेति गाथार्थः॥ भावार्थस्त्व्यम्-द्रव्यास्तिकाद्यनेकनयसङ्कलप्रवचनज्ञेन साधुना तत्स्थापनाय नयान्तरमतापेक्षया सव्यभिचारं हेतुमभिधाय प्रतिपक्षनयमतानुसारतः तथा समर्थनीयः यथा सम्यगनेकान्तवादप्रतिपत्तिर्भवतीति । आह-उदाहरणभेदस्थापना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org