________________
४०
दशवैकालिक - मूलसूत्र - १ /-/ १ सेणिमारेमि, देमित्ति अब्भुवगए आसणे ट्ठिओ पढई, न ठाई, राया भणई- किं न ठाई ?, ताहे तं मायंगो भणइ - जहा अविनएणं पढसि, अहं भूमीए तुमं आसने, नीयतरेउवविट्ठो, ठियातो सिद्धाओ य विज्जाओत्ति । कृतं प्रसङ्गेन । एवं तावल्लौकिकमर्थाक्षिप्तं चरणकरणानुयोगं चाधिकृत्योक्ता द्रव्योपायादय:, साम्प्रतं द्रव्यानुयोगमधिकृत्य प्रदर्श्यन्त इति ।
तत्राप्युपायदर्शनतो नित्यानित्यैकान्तवादयोः सुखादिव्यवहाराभावप्रसङ्गेन तथा प्रत्यक्षगोचरातिक्रान्तेश्च वस्तुत आत्माभाव एवेति मा भूच्छिष्यकाणां मतिविभ्रमोऽत उपायत एवात्मास्तित्वमभिधातुकाम आह
नि. [ ६३ ]
एवं तु इहं आया पच्चक्खं अनुवलब्भमाणोऽवि । सुहदुक्खमाइएहिं गिज्झइ हेऊहिं अत्थित्ति ।।
वृ. एवमेव यथा धातुवादादिभिर्द्रव्यादि 'इह' अस्मिँल्लोके 'आत्मा' जीवः 'प्रत्यक्ष' मिति तृतीयार्थे द्वितीया प्रत्यक्षेण 'अनुपलभ्यमानोऽपि' अदृश्यमानोऽपि 'सुखदुःखादिभिः ' आदिशब्दात् संसारपरिग्रहो गृह्यते 'हेतुभिः ' युक्तिभि: 'अस्ति' विद्यत इति एवं गृह्यते, तथाहिसुखदुःखानां धर्मत्वाद्धर्मस्य चावश्यमनुरूपेण धर्मिणा भवितव्यं, न च भूतसमुदायमात्र एव देहोऽस्यानुरूपो धम्र्मी, तस्याचेतनत्वात् सुखादीनां च चेतनत्वादिति ।
नि. [ ६४ ]
जहasस्साओ हत्थिं गामा नगरं तु पाउसा सरयं । ओदइयाउउवसमं संकंति देवदत्तस्स ॥
वृ. यथा' वे 'त्ति प्रकारान्तरदर्शने 'अश्वात्' घोटकात् 'हस्तिनं' गजं ग्रामात् नगरं तु प्रावृषः शरदं प्रावृट्कालाच्छरत्कालमित्यर्थः, औदयिकाद् भावाद् 'उपशम' मित्यौपशमिकं 'संक्रान्तिः ' संक्रमण संक्रान्तिः कस्य ? -- देवदत्तस्य, प्रत्यक्षेणेति शेषः ॥
नि. [ ६५ ]
एवं सउ जीवस्सवि दव्वाईसंकमं पडुच्चाउ ।
अत्थित्तं साहिज्जइ पच्चक्खेणं परोक्खंपि ॥
वृ.' एवं' यथा देवदत्तस्य तथा, किम् ? - 'सत्तो' विद्यमानस्य जीवस्यापि द्रव्यादिषु संक्रमः, आदिशब्दात् क्षेत्रकालभावपरिग्रहः, तं 'प्रतीत्य' आश्रित्य 'अस्तित्वं' विद्यमानत्वं 'साध्यते' अवस्थाप्यते । आहसतोऽस्तित्वसाधनयुक्तम्, न, अव्युत्पन्नविप्रतिपन्नविषयत्वात् साधनस्य, 'प्रत्यक्षेण' अश्वादिसंक्रमेण, सर्वथा साक्षात्परिच्छित्तिमङ्गीयकृत्य 'परोक्षमपि' अप्रत्यक्षमपि, अवग्रहादिस्वसंवेदनतो लेशतस्तु प्रत्यक्षमेवैतत् एतदुक्तं भवति यथा अश्वादिराङ्कार्तिन देवदत्ताख्यं धर्मिणमतिरिच्य वर्त्तते, एवमियमप्यौदारिकाद्वैक्रिये तिर्यरलोकादूर्ध्वलोके परिमितवर्षायुष्कपर्यापादपरिमितवर्षायुष्कपर्याये चारित्रभावादविरत - भावे च संक्रान्तिन जीवाख्यं धर्मिणमन्तरेणोपपद्यत इति वृद्धा व्याचक्षते । अन्ये तु द्वितीय-गाथापश्चार्द्धं पाठान्तरतोऽन्यथा व्याचक्षते - तत्रायमभिसम्बन्ध:, - ' एवं तु इहं आये' त्यादि गाथयोपायत एवात्मास्तित्वमभिधायाधुनोपायत एव सुखदुःखादिभावसङ्गतिनिमित्तं नित्यानित्यैकान्तपक्षव्यवच्छेदेनात्मानं परिणामिनमभिधित्सुराह - 'जहवऽस्साओ' गाथाव्याख्या पूर्ववत् ॥ एवं सउ जीवस्सवि दव्वाईसंकमं पडुच्चा उ । परिणामो साहिज्जइ पच्चक्खेणं परोक्खेवि ॥
नि. [ ६६ ]
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org