________________
३४ .
. दशवैकालिक-मूलसूत्र-१/-/१ वृ.चरितं च कल्पितं चे(वे) द्विविधमुदाहरणम्, तत्र चरितमभिधीयते यवृत्तं, तेन कस्यचिद् दार्टान्तिकार्थप्रतिपत्तिर्जन्यते, तद्यथा-दुःखाय निदानं, यथा ब्रह्मदत्तस्य । तथा कल्पितं स्वबुद्धिकल्पनाशिल्पनिमितमुच्यते, तेन च कस्यचिद्दाान्तिकार्थप्रत्तिपत्तिर्जन्यते, यथापिष्पलपत्रैरनित्यतायामिति, उक्तं च
"जह तुब्भे तह अम्हे तुब्भेहि अहोहिहा जहा अम्हे।
अप्पाहेइ पडतं पंडुअपत्तं किसलयाणं ॥१॥ नवि अत्थि नवि अहोही उल्लावो किसलपंडुपत्ताणं।
उवमा खलु एस कया भविअजनविबोहणट्ठाए॥२॥" इत्यादि। आह-इदमुदाहरणं दृष्टान्त उच्यते, तस्य च साध्यानुगमादि लक्षणमिति, उक्तंच
"साध्येनानुगमो हेतोः, साध्याभावेचनास्तिता।
ख्याप्यते यत्र दृष्टान्तः, ससाधर्येतरो द्विधा।" अस्य पुनस्तल्लक्षणाभावात् कथमुदाहरणत्वमिति?, अत्रोच्यते, तदपि कथञ्चित्साध्यानुगमादिना दार्टान्तिकार्थप्रतिपत्तिजनकत्वात्फलत उदाहरणम्, इहापि च साऽस्त्येवेतिकृत्वा किं नोदाहरणतेति? । साध्यानुगमादि क्षणमपि सामान्यविशेषोभयरूपानन्तधर्मात्मके वस्तुनि सति कथञ्चिद्देदवादिन एव युज्यते, नान्यस्य, एकान्तभेदाभेदयोस्तदभावादिति, तथाहि-सर्वथा प्रतिज्ञादृष्टान्तार्थभेदवादिनोऽनुगमतः खलु घटादौ कृतकत्वादेरनित्यत्वादिप्रतिबन्धदर्शनमपि प्रकृतानुपयोग्येव, भिन्नवस्तुधर्मत्वात्, सामान्यस्य च परिकल्पित्वादसत्त्वाद्, इत्थमपिचतबलेन साध्यार्थप्रतिबन्धकल्पनायां सत्वामतिप्रसङ्गादित्यत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थ विस्तरभयादिति, एवं सर्वथाअभेदधादिनोऽप्येकत्वादेवतदभावो भावनीयइति, अनेकान्तवादिनस्त्वनन्तधर्मात्मके वस्तुनि तत्तद्धर्मसामर्थ्यात्तत्तद्वस्तुनः प्रतिबन्धबलेनैवतस्य तस्य वस्तुनो गमकं भवति, अन्यथा ततस्तस्मिंस्तत्प्रतिपत्त्यसम्भव इति कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः- चरितं च कल्पितं चे(वे) त्यनेन विधिना द्विविधम्, पुनश्चतुर्विधं,-चतुष्प्रकारमेकैकम्, कथमत आह'उदाहरणं तद्देशः तद्दोषश्चैव उपन्यास' इति। तत्रोदाहरणशब्दार्थ उक्त एव, तस्य देशस्तद्देशः, एवं तद्दोषः, उपन्यसनमुपन्यासः, सच तद्वस्त्वादिलक्षणो वक्ष्यमाण इति गाथार्थः।।
साम्प्रत-मुदाहरणमभिधातुकाम आहनि.[५४] चउहा खलु आहारणं होइ अवाओ उवायठवणा य।
- तहय पडुप्पन्नविनासमेव पढमंचउविगप्पं॥ वृ. चतुर्धा खलु उदाहरणं भवति, अथवा चतुर्धा खलु उदाहरणे विचार्यमाणे भेंदा भवन्ति, तद्यथाअपाय: उपायः स्थापना च तथा च प्रत्युत्पन्नविनाशमेवेति, स्वरूपमेषां प्रपञ्चेनभेदतो नियुक्तिकारएव वक्ष्यति, तथा चाह-'प्रथमम्' अपायोदाहरणं चतुर्विकल्पं' चतुर्भेदम्। तत्रापायश्चतुःप्रकारः, तद्यथा-द्रव्यापायः क्षेत्रापाय: कालापायो भावापायश्च इति गाथार्थः । तत्र द्रव्यदपायो द्रव्यापायः, अपाय:-अनिष्टप्राप्तिः द्रव्यमेव वा अपायो द्रव्यापायः, अपायहेतुत्वादित्यर्थः,एवं क्षेत्रादिष्वपि भावनीयम्। साम्प्रतंद्रव्यापायप्रतिपादनायाह
नि.[५५] दव्वावाए दोन्नि उवानिअगा भायरो धननिमित्तं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org