________________
अध्ययनं -१, उद्देशक : - [नि. ४९ ] न्यथानुपपत्तेरित्यलं प्रसङ्गेनेति गाथार्थः ॥ तथानि. [५० ]
कत्थइ पंचावयवं दसहा सव्वहा न पडिसिद्धं । नय पुन भण्णइ हंदी सविआरमक्खायं ॥
वृ. श्रोतारमेवाङ्गीकृत्य कचित्पञ्चावयवं 'दशघा वे 'ति क्वचिद्दशावयवं, 'सर्वथा' गुरुश्रोत्रपेक्षया न प्रतिषिद्धमुदाहरणाद्यभिधानमिति वाक्यशेषः, यद्यपि च न प्रतिषिद्धं तथाप्यविशेषेणैव, न च पुनः सर्वं भण्यते उदाहरणादि, किमित्यत आह- 'हंदी सविआरमक्खायं' हन्दीत्युपप्रदर्शने, विमुपप्रदर्शयति ?, यस्मादिहान्यत्र च शास्त्रान्तरे 'सविचारं' सप्रतिपक्षमाख्यातं साकल्यत उदाहरणाद्यभिधानमिति गम्यते, पञ्चावयवाश्च प्रतिज्ञादय:, यथोक्तम्- "प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः" दश पुनः प्रतिज्ञाविभक्त्यादयः, वक्ष्यति च “ते उपइण्णविहत्ती" इत्यादि । प्रयोगाश्चैतेषां लाघवार्थमिहैव स्वस्थाने दर्शयिष्याम इति गाथार्थः ॥ साम्प्रतं यदुक्तम्- 'जिनवयणं सिद्धं चेव भण्णई कत्थई उदाहरणं' इत्यादि, तत्रोदाहरणहेत्वोः स्वरूपाभिधित्सयाऽऽह
नि. [५१]
३३
तत्थाहरणं दुविहं चउव्विहं होइ एक्कमेकं तु ॥ ऊ चउव्विहो खलु तेन उ साहिज्जए अत्थो ।
वृ. तत्रशब्दो वाक्योपन्यासार्थो निर्धारणार्थे वा, उदाहरणं पूर्ववत्, तच्च मूलभेदतो 'द्विविधं' द्विप्रकार, चरितकल्पितभेदात्, उत्तरभेदतस्तु चतुर्विधं भवति, तयोर्द्वयोरेकैकमुदाहरणमाहरण तद्देश तद्दोषोपन्यासभेदात्, तच्च वक्ष्यामः, तथा हिनोती - गमयति जिज्ञासितधर्मविशिष्टानर्थानिति हेतुः, स‘चतुर्विधः' चतुष्प्रकारः, खलुशब्दो व्यक्तिभेदादनेकविधश्चेति विशेषणार्थः, तुशब्दस्य पुनः शब्दार्थत्वात् तेन पुनर्हेतुना साध्यार्थाविनाभावबलेन 'साध्यते' निष्पाद्यते ज्ञाप्यते वा 'अर्थ:' प्रतिज्ञार्थ इति गाथार्थः ॥ साम्प्रतं नानादेशजविनेयगणहितायोदा-हरणैकार्थिकप्रतिपिपादविषयाऽऽहनि. [५२]
27/3
Jain Education International
नायमुदाहरणंतिअ विद्वतोवम निदरिसणं तहय । एतं दुविहं चउव्विहं चेव नायव्वं ॥
वृ. ज्ञायतेऽस्मिन् सति दान्तिकोऽ इति ज्ञातम्, अधिकरणे निष्ठाप्रत्ययः, तथोदाह्रियते प्राबल्येन गृह्यतेऽनेन दान्तिकोऽर्थ इति उदाहरणम्, दृष्टमर्थमन्तं नयतीति दृष्टान्तः, अतीन्द्रियप्रमाणादृष्टं संवेदननिष्ठां नयतीत्यर्थः, उपमीयतेऽनेन दान्तिकोऽर्थ इत्युपमानम्, तथा च 'निदर्शनं' निश्चयेन दर्श्यतेऽनेन दार्ष्टान्तिक एवार्थ इति निदर्शनम्, 'एगद्वं'ति इदमेकार्थम् एकार्थिकजातम्, इदं च तत्प्रागुपन्यस्तं द्विविधमुदाहरणं चतुर्विधं चैवाङ्गीकृत्य ज्ञातव्यं प्रत्येकमपि, सामान्य-विशेषयोः कथञ्चिदेकत्वाद्, अत एव सामान्यस्यापि प्राधान्यख्यापनार्थमेकवचनाभिधानम् एकार्थमिति, अत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयाद्, गमनिकामात्रमेवैतदिति गाथार्थः ॥ साम्प्रतं यदुक्तं 'तत्रोदाहरणं द्विविध' मित्यादि, तद् द्वैविध्यादिप्रदर्शनायाहचरिअं च कप्पिअं वा दुविहं तत्तो चउव्विहेक्वेक्कं । आहरणे तद्देसे तद्दोसे चेवुवन्नासे ॥
नि. [५३]
For Private & Personal Use Only
www.jainelibrary.org