SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-१, उद्देशकः- [नि. ४७] ' दोषा ह्येते परित्यक्ताः, शिरोलोचं प्रकुर्वता।" इत्यादि। गत: कायक्लेशः, साम्प्रतं संलीनतोच्यते इयं चेन्द्रियसंलीनतादिभेदाच्चतुर्विधेति, "इंदिअकसायजोए पडुच्च संलीनया मुणेयव्वा। तहव विवित्ताचरिआ पन्नत्ता वीअरागेहिं॥" तत्र श्रोत्रादिभिरिन्द्रियैः शब्दादिषुसुन्दरेतेषु रागद्वेषाकरणमिन्द्रियसंलीनतेति, उक्तं च "सद्देसुअभद्दयपावएसुसोअविसयमुवगएसु। तुद्वेण वरुटेण व समणेण सया न होअव्वं॥" एवं शेषेन्द्रियेष्वपि वक्तव्यम्, यथा- "रूवेसु अभद्दगपावएसु" इत्यादि। उक्तेन्द्रियसँल्लीनता, अधुना कषायसंलीनता-सा च तदुदयनिरोधोदीर्णविफलीकरणलक्षणेति, उक्तं च - "उदयस्सेव निरोहो उदयं पत्ताणवाऽफलीकरणं। जं इत्थ कसायाणं कसायसंलीनता एसा॥" इत्यादि। उक्ता कषायासंलीनता, साम्प्रतं योगसंलीनता-सा पुनर्मनोयोगादीनानामकुशलानां निरोधः कुशलानामुदीरणमित्येवंभूतेति, उक्तंच "अपसत्थाण निरोहो जोगाणमुदीरणंच कुसलाणं। कज्जम्मि य विहिगमनं जोए संलीणया भणिआ।" इत्यादि। उक्ता योगसंलीनता, अधुना विविक्तचर्या, सा पुनरियम् "आरामुज्जाणादिसुथीपसुपंडगविवज्जिएसुजं ठाणं। फलगादीण य गहणं तह भणियं एसणिज्जाणं॥" गता विविक्तचर्या, उक्ता संलीनता। 'बज्झो तवो होही' इति एतदनशनादि बाह्यं तपोभवति, लौकिकैरप्यासेव्यमानं ज्ञायत इतिकृत्वा बाह्यमित्युच्यते विपरीतग्राहेण वा कुतीथिकैरपि क्रियत इतिकृत्वा इति गाथार्थः ।। उक्तं बाह्यं तपः, इदानीमाभ्यन्तरमुच्यते । तच्च प्रायश्चित्तादिभेदमिति, आह चनि.[४८] पायच्छित्तं विनओवेआवच्चं तहेव सज्झाओ। झाणं उस्सग्गोऽवि अअन्भिंतरओ तवो होइ। वृ. तत्र पापं छिनत्तीति पापच्छित्, अथवा यथावस्थितं प्रायश्चितं शुद्धमस्मिन्निति प्रायश्चित्तमिति, उक्तं च "पावं छिंदइ जम्हा पायच्छित्तंति भण्णए तम्हा। पाएण वावि चित्तं विसोहई तेण पच्छित्तं ॥१॥" तत्पुनरालोचनादि दशधेति, उक्तं च-- "आलोयणपडिक्कमणे मीसविवेगेतहाविउस्सग्गे। तवछेअमूल अनवट्ठया य पारंचिए चेव॥ भावार्थोऽस्या आवश्यकविशेषविवरणादवसेये इति। उक्तं प्रायश्चित्तं, साम्प्रतं विनय उच्यतेतत्र विनीयतेऽनेनाष्टप्रकारं कर्मेति विनय इति, उक्तंच "विनयफलंशुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003331
Book TitleAgam Suttani Satikam Part 27 Dasvaikaalika
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy