________________
अध्ययनं -१, उद्देशक : - [नि. ४७ ]
"चत्तारि विचित्ताई विगईनिज्जूहियाइं चत्तारि । संवच्छरे अदोनि उ एगंतरिअं च आयामं ॥ १ ॥ नाइविगिट्ठो अतवो छम्मासे परिमिअं च आयामं । अन्ने वि अ छम्मासे होइ विगिट्ठे तवोकम्मं ॥२॥ वासं कोडीसहियं आयामं काउ आनुपुव्वीए । गिरिकंदरं तु गंतुं पायवगमणं अह करे || ३ ||" इत्यादि ।
--
तथा इङ्गिते प्रदेशे मरणमिङ्गितमरणम्, इदं च संहननापेक्षमनन्तरोदितमशकुवतश्चविधाहारविनिवृत्तिरूपं खतएवोद्वर्त्तनादिक्रियायुक्तस्थावगन्तव्यमिति, उक्तं च"इंगिअदेसंमि सयं चउव्विहाहारचायनिप्पन्नं । उव्वत्तणादिजुत्तं नाणेन उइंगिनीमरणं ॥ " इत्यादि ।
भक्तपरिज्ञा पुनस्त्रिविधचतुर्विधाहारविनिवृत्तिरूपा, सा नियमात्सप्रतिकर्मशरीरस्यापि धृतिसंहननवतो यथासमाधि भावतोऽवगन्तव्येति, उक्तं च
" भत्तपरिण्णानसनं तिविहाहाराइचायनिप्फन्नं । सपडिक्कम्मं नियमा जहासमाहिं विनिद्दिदूं।" इत्यादि ।
उक्तमनशनम्, अधुना ऊनोदरता - ऊनोदरस्य भाव ऊनोदरता, सा पुनर्द्विविधा- द्रव्यतो भावतश्च, तत्र द्रव्यत उपकरणंभक्तपानविषया, तत्रोपकरणे जिनकल्पिकादीनामन्येषां वा तदभ्यासपराणामवगन्तव्या, न पुनरन्येषाम्, उपध्यभावे समग्रसंयमाभावाद् अतिरिक्ताग्रहणतो वोनोदरतेति, "जं वट्टइ उवयारे उवगरणं तं सि होइ उवगरणं । अइरेगं अहिगरणं अजयं अजओ परिहरंतो ||" इत्यादि ।
-
भक्तपाननोदरता पुनरात्मीयाहारादिमानपरित्यागवतो वेदितव्या, उक्तं च" बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलिआए अट्ठावीसं हवे कवला ॥१॥ कवलाण य परिमाणं कुक्कुडिअंडयपमाणमेत्तं तु । जो वा अविगिअवयणो वयणम्मि छुहेज्ज वीसत्थो ॥२॥" इत्यादि । एवं व्यवस्थिते सत्यूनोदरता अल्पाहारदिभेदतः पञ्चविधा भवति, उक्तं च
44
'अप्पाहार अवड्ढा दुभाग पत्ता तहेव किंचूना ।
२७
Jain Education International
-
अट्ठ दुवाल सोलस चउवीस तहेक्कतीसा य॥"
अयमत्र भावार्थ:- अल्पाहारोनोदरता नामैककवलादारभ्य यावदष्टौ कवला इति, अत्र चैककवलमाना जघन्या, अष्टकवलमाना पुनरुत्कृष्टा, शेषभेदा मध्यमा च, एवं नवभ्य आरभ्य यावद् द्वादश कवलास्तावदपार्थोनोदरता जघन्यादिभेदा भावनीया इति, एवं त्रयोदशभ्य आरभ्य यावत्षोडश तावद् द्विभागोनोदरता, एवं सप्तदशभ्य आरभ्य यावच्चतुर्विंशतिस्तावत्प्राप्ता, इत्थं पञ्चविंशतेराभ्य यावदेकत्रिंशत्तावत्किञ्चिदूनोदरता, जघन्यादिभेदाः सुधियाऽवसेयाः, एवमनेनानुसारेण पानेऽपि वाच्याः, एवं योषितोऽपि द्रष्टव्या इति, भावोनोदरता पुनः क्रोधादिपरित्याग इति, उक्तं च
For Private & Personal Use Only
www.jainelibrary.org