________________
२६
दशवैकालिक - मूलसूत्रं - १ /-/ १
ठाणाइ जत्थ चेए पेह पमज्जित्तु तत्थ करे ॥ १४॥ एसा पेह उवेहा पुणोवि दुविहा उ होइ नायव्वा । वावारावावारे वावारे जह उ गामस्स ॥ १५ ॥ एसो उविक्खगो हू अव्वावारे जहा विनस्संतं । किं एयं नु उविक्खसि ? दुविहाएवित्थ अहियारो ॥१६॥ वावारुव्विक्ख तहिंसंभोइय सीयमाण चोएइ । चोई इयरं पिहु पावयणीअम्मि कज्जम्मि ॥ १७॥ अव्वावारउवेक्खा नवि चोएइ गिहिं तु सीअंतं । कम्मे बहुविसुं संजम एसो उवेक्खाए ॥ १८ ॥ पडिसागरिए अपमज्जिएसु पाएसु संजमो होइ। ते चेव पमज्जंते असागरिए संजमो होइ ॥ १९ ॥ पाणाईसंसत्तं भत्तं पाणमहवा वि अविसुद्धं । उवगरणभत्तमाई जंवा अइरित्त होज्जाहि ॥ २० ॥
तं परिटुप्पविहीए अवहट्टंसंजमो भवे एसो अकुसलमनवइरोहो कुसलाण उदीरणं चेव ॥२१॥ जुयलं मनवइसंजम एसो काए पुण जं अवस्सकज्जम्मि । गमनागमनं भवइ तं उवउत्तो कुणइ सम्मं ॥ २२ ॥ तव्वज्जं कुम्मस्स व सुसमाहियपाणिपायकायस्स। हवइ य काइयसंजम चिट्टंतस्सेव साहुस्स ॥२३॥
उक्तः संयमः । आह-अहिंसैव तत्त्वतः संयम इतिकृत्वा तद्भेदेनास्याभिधानमयुक्तम्, न, संयमस्याहिंसाया एव उपग्रहकारित्वात्, संयमिन एव भावतः खल्वहिंसकत्वादिति कृतं प्रसङ्गेन । साम्प्रतं तपः प्रतिपाद्यते- तच्च द्विधा- बाह्यमाभ्यन्तरं च । तत्र तावद्बाह्यप्रतिपादनायाहअनसनमूनोअरिआ वित्ती संखेवणं रसाच्चाओ।
नि. [ ४७ ]
कायकिलेसो संलीयणा य बज्झो तवो हो ।
वृ. न अशनमनशनम् - आहारत्याग इत्यर्थः, तत्पुनर्द्विधा-इत्वरं यावत्कथिकं च, तत्रेत्वरंपरिमितकालं, तत्पुनश्चरमतीर्थकृत्तीर्थे चतुर्थादिषणमासान्तम्, यावत्कथिकं त्वाजन्म - भावि, तत्पुनश्चेष्टाभेदोपाधिविशेषतस्त्रिधा तद्यथा- पादपोपगमनमिङ्गितमरणं भक्तपरिज्ञा चेति, तत्रानशनिनः परित्यक्तचतुर्विधाहारस्याधिकृतचेष्टाव्यतिरेकेण चेष्टान्तरमधिकृत्यैकान्तनिष्प्रतिकर्मशरीरस्य पादपस्येवोपगमनं सामीप्येन वर्त्तनं पादपोपगमनमिति, तच्च द्विधा- व्याघातवन्निर्व्याघातवच्च, तत्र व्याघातवनाम यत्सिंहाद्युपद्रवव्याघाते सति क्रियत इति, उक्तं च"सीहादिसु अभिभूओ पादवगमनं करेइ थिरचित्तो । आउम्मि पहुप्पंते विआनिउं नवरि गी अत्थो ।। "
इत्यादि, निर्व्याघातवत्पुनर्यत्सूत्रार्थतदुभयनिष्ठितः शिष्यान्निष्पाद्योत्सर्गत: द्वादश समाः कृतपरिकर्मा सन्काल एव करोति, उक्तं च
For Private & Personal Use Only
Jain Education International
1
www.jainelibrary.org