________________
२६०
-
दशवैकालिक-मूलसूत्रं आत्मानं योऽभिसंघत्ते, सोऽन्यस्मै स्यात्कथं हितः? ॥ (तथा)
ब्रह्महत्या सुरापानं, स्तेयं गुर्वषनागमः।
महान्ति पातकान्याहुरेभिश्च सह संगमम्॥" इत्यलं प्रसङ्गेनेति सूत्रार्थः॥ मू.(५३५) संवच्छरंवाऽवि परं पमाणं, बीअंच वासंन तहिं वसिज्जा।
सुत्तस्स मग्गेण चरिन्ज भिक्खू, सुत्तस्स अत्यो जह आणवेइ। वृ.विहारकालमानमाह-'संवत्सरंवापि' अत्रसंवत्सरशब्देन वर्षासुचातुर्मासिको ज्येष्ठावग्रह उच्यते तमपि, अपिशब्दान्मासमपि, परंप्रमाणं-वर्षाऋतुबद्धयोरुत्कृष्टमेकत्र निवासकालमानमेतत्, द्वितीयं च वर्षम्' चशब्दस्य व्यवहित उपन्यासः, द्वितीयं वर्ष वर्षासु चशब्दान्मासंच ऋतुबद्धे न तत्र क्षेत्रे वसेत् यतैको वर्षाकल्पो मासकल्पश्च कृतः अपितु सङ्गदोषाद् द्वितीयं तृतीयं च परिहृदय वर्षादिकालं ततस्तत्र वसेदित्यर्थः, सवर्था, किंबहुना?, सर्वत्रेव सूत्रस्य मार्गेण चरेभिक्षुः' आगमादेशेन वर्तेतेति भावः, तत्रापि नौधत एव यथाश्रुतग्राही स्यात् अपितु सूत्रस्य अर्थ:' पूर्वापराविरोधितन्त्रयुक्तिघटितः पारमार्थिकोत्सर्गापवादगर्भो यथा आज्ञापयति' नियुंक्ते तथावर्तेत, नान्यथा, यथेहापवादतोनित्यवासेऽपिवसतावेव प्रतिमासादिसाधूनांसंस्तारगोचरादिपरिवर्तेन, नान्यथा, शुद्धापवादायोगादित्येवं वन्दनकप्रतिक्रमणादिष्वपि तदर्थं प्रत्युपेक्षणेनानुष्ठानेन वर्तेत, नतु तथाविधलोकहेर्या तं परित्यजेत् तदाशातनाप्रसङ्गादिति सूत्रार्थः।। मू.(५३६) जो पुव्वरत्तावररत्तकाले, संपेहए अप्पगमप्पगेणं।।
किंमे कडं किं च मे किच्चसेसं, किं सक्कणिज्जं न समायरामि?।। वृ. एवं विविक्तचर्यावतोऽसीदनगुणोपायमाह-यः साधुः पूर्वरात्रापररात्रकाले, रात्रौ प्रथमचरमयोः प्रहरयोरित्यर्थः, संप्रेक्षते सूत्रोपयोगनीत्वा आत्मानं कर्मभूतमात्मनैव करणभूतेन, कथमित्याह-किंमे कृत'मिति छान्दसत्वात्तृतीयार्थे षष्ठी, किं मया कृतं शक्त्यनुरूपंतपश्चरणादियोगस्य 'किंचमामकृत्यशेष' कर्तव्यशेषमुचितं?, किं शक्यं वयोऽवस्थानुरूपंवैयावृत्त्यादि 'न समाचरामि' न करोमि, तदकरणे हि तत्कालनाश इति सूत्रार्थः ।। मू.(५३७) किं मे परो पासइ किंच अप्पा, किं वाऽहं खलिअंन विवज्जयामि।
इच्चेव सम्म अनुपासमाणो, अनागयं नो पडिबंध कुज्जा। वृ.तथा कि मम स्खलितं 'पर:' स्वपक्षपरपक्षलक्षणः पश्यति? किं वाऽऽत्मा कचिन्मनाक् संवेगापनः?, किं वाऽहमोघतएवस्खलितं न विवर्जयामी, इत्येवंसम्यगनुपश्यन् अनेनैव प्रकारेण स्खलितं ज्ञात्वा 'सम्यग्' आगमोक्तेन विधिना भूयः पश्येत् 'अनागतं न प्रतिबन्धं कुर्यात्' आगमिकालविषयं नासंयमप्रतिबन्धं करोतीति सूत्रार्थः॥ मू.(५३८) जत्थेव पासे कइ दुप्पउत्तं, कारण वाया अदु मानसेणं।
तत्थेव धीरो पडिसाहरिज्जा, आइन्नओ खिप्पमिव क्खलीणं॥ वृ.कथमित्याह-'यत्रैव पश्येत्' यत्रैवपश्यत्युक्तवत्परात्मदर्शनद्वारेण क्वचित्' संयमस्थानवसरे धर्मोपधिप्रत्युपेक्षणादौ 'दुष्प्रयुक्तं' दुर्व्यवस्थितमात्मानमिति गम्यते, केनेत्याहकायेन वाचा अथमानसेनेति, मन एवमानसं, करणत्रयेणेत्यर्थः, 'तत्रैव' तस्मिन्नेव संयमस्थानावसरे धीरो'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org