________________
चूलिका-२. मूलं - ५३८ [नि. ३७०]
२६१
1
बुद्धिमान् 'प्रतिसंहरेत्' प्रतिसंहरति य आत्मानं, सम्यग् विधि प्रतिपद्यत इत्यर्थः, निदर्शन-माह-आकीर्णो जवादिभिर्गुणैः, जात्योऽश्व इति गम्यते असाधारणविशेषणात्, तच्चेदम्- 'क्षिप्रमिव खलिनं' शीघ्रं कविकमिव यथा जात्योऽश्वो नियमितगमननिमित्तं शीघ्रं खलिनं प्रतिपद्यते, एवं यो दुष्प्रयोगत्यागेन खलिनकल्पं सम्यग्विधिम्, एतावताऽशेन दृष्टान्त इति सूत्रार्थः ॥ मू. ( ५३९ ) जस्सेरिसा जोग जिइंद्दिअस्स, धिईमओ सप्पुरिसस्स निच्चं । तमाहु लोए पडिबुद्धजीवी, सो जीअई संजमजीविएणं ॥
मू. (५४०)
वृ.यः पूर्वरात्रेत्याद्यधिकारोपसंहारायाह-यस्य साधोः 'ईदृशा: ' स्वहितालोचन - प्रवृत्तिरूपा 'योगा' मनोवाक्कायव्यापारा 'जितेन्द्रियस्य' वशीकृतस्पर्शनादीन्द्रियकलापस्य 'धृतिमत: 'संयमे सधृतिकस्य 'सत्पुरुषस्य' प्रमादजयान्महापुरुषस्य 'नित्यं' सर्वकालं सामायिकप्रतिपत्तेरारभ्यामरणान्तम् 'तमाहुलके प्रतिबुद्धजीविनं' तमेवंभूतं साधुमाहुः अभिदधति विद्वांसः लोकोप्राणिसंघाते प्रतिबुद्धजीविनं-प्रमादनिद्रारहितजीवनशीलं, 'स' एवंगुणयुक्तः सन् जीवति 'संयमजीवितेन' कुशलाभिसंधिभावात् सर्वथा संयमप्रधानेन जीवितेनेति सूत्रार्थः ॥ अप्पा खलु सययं रक्खि अव्वो, सव्विदिएहिं सुसमाहिएहिं । अरिक्खि जाइपहं उवेइ, सुरक्खिओ सव्वदुहाण मुच्चइ ॥ त्ति बेमि ॥ वृ.शास्त्रमुपसंहस्नुपदेशसर्वस्वमाह-'आत्मा खल्वि' ति खलुशब्दो विशेषणार्थ:, , शक्तौ सत्यां परोऽपि ‘सततं' सर्वकालं 'रक्षितव्यः' पालनीयः पारलौकिकापायेभ्यः, कथमित्युपायमाह-‘सर्वेन्द्रियैः' स्पर्शनादिभिः 'सुसमाहितेन' निवृत्तिविषयव्यापारेणेत्यर्थः, अरक्षणक्षणयोः फलमाह- अरक्षित: सन् 'जातिपन्थानं' जन्ममार्गं संसारमुपैति - सामीप्येन गच्छति । सुरक्षित: पुनर्यथागममप्रमादेन 'सर्वदुः खेभ्यः' शारीरमानसेभ्यो 'विमुच्यते ' विविधम्- अनेकैः प्रकारेरपुनर्ग्रहणपरमस्वास्थ्यापादनलक्षणैर्मुच्यते । इती ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥ चूलिका - २ समाप्तम् । उपसंहार
यं प्रतीत्य कृतं तद्वक्तव्यताशेषमाह
नि. [३७१]
छहि मासेहि अहीजं अज्झयणमिणं तु अज्जमणगेणं । छम्मासा परिआओ अह कालगओ समाहीए ॥
वृ.षड्भिर्मासैः‘अधीतं’ पठितम्' अध्ययनमिदंतुं' अधीयत इत्यध्ययनम्-इदमेव दशवैकालिकाख्यं शास्त्र, वेनाधीतमित्याह - आर्यमनकेन - भावाराधनयोगात् आराद्यातः सर्वहेयधर्मेभ्य इत्यार्यः आर्यश्चासौ मणकश्चेति विग्रहस्तेन, 'षण्मासाः पर्याय' इति तस्मार्यमणकस्य षण्मासा एवं प्रव्रज्याकालः, अल्पजीवितत्वात्, अत एवाह- अथ 'कालगत: समाधिने 'ति 'अथ' उक्तशास्त्राध्ययनपर्यायनन्तरं कालगत-आमगोक्तेन विधिना मृतः, समाधिना - शुभलेश्याध्यानयोगेनेति गाथार्थः । अत्र चैवं वृद्धवादः - यथा तेनैतावता श्रुतेनाराधितम् एवमन्येऽप्येतदध्ययनानष्ठानत आराधका भवन्त्विति ॥
नि. [३७२]
Jain Education International
आनंदअंसुपायं कासी सिज्जं भवा तर्हि थेरा । जसभद्दस्स य पुच्छा कहणा अ विआलणा संधे ॥
For Private & Personal Use Only
www.jainelibrary.org